TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ४

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ४
दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः ।
जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः ॥३०१॥
दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः ।
ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः ॥३०२॥
उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च ।
रथकारश्च लवणो धृतिमान्सुप्रभाकरः ॥३०३॥
कपिलश्चेति राजानो वर्षनाम्ना च तेऽङ्किताः ।
वैद्रुमो हेमनाभश्च द्युतिमान्पुष्पदन्तकः ॥३०४॥
कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः ।
मही धाता शिवापापा पवित्रा संततद्युतिः ॥३०५॥
दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः ।
घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये ॥३०६॥
जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः ।
घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः ॥३०७॥
क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः ।
सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः ॥३०८॥
मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः ।
मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः ॥३०९॥
वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमाथ् ।
क्रौञ्चोऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः ॥३१०॥
द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः ।
पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती ॥३११॥
सन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः ।
नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवं ॥३१२॥
पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः ।
दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः ॥३१३॥
नानानारीसमाकीर्णाः सर्वकामसुखोदयाः ।
हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयथ् ॥३१४॥
जलदश्च कुमारश्च सुकुमारो मरीचकः ।
कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः ॥३१५॥
तेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः ।
उदयः केसरश्चैव जठरोऽथ सुरैवतः ॥३१६॥
श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे ।
गभस्ती सुकुमारी च कुमारी नालिनी तथा ॥३१७॥
वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः ।
मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः ॥३१८॥
अमृतोपमानि स्वादूनि फलान्यत्र वरानने ।
भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतं ॥३१९॥
सर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः ।
नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः ॥३२०॥
मदालसैः पानमत्तैरमन्ते सततं प्रिये ।
अतश्च पुष्कराख्ये च सवनस्तत्र नायकः ॥३२१॥
द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ ।
पर्वतो वलयाकारो मानसोत्तरसंज्ञितः ॥३२२॥
पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः ।
योजनानां वरारोहे सर्वरत्नसमन्वितः ॥३२३॥
धातकी मध्यमे राजा महवीतो बहिर्नृपः ।
ईर्ष्यया रागतृष्णाभिरीतिभिश्च विवर्जिताः ॥३२४॥
सर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः ।
चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने ॥३२५॥
चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते ।
हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी ॥३२६॥
सुखाह्वा वारुणी चैव सोमस्य तु विभावरी ।
पुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितः ॥३२७॥
पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च ।
योजनानां तु लक्षाणि कोटिद्वितयमेव च ॥३२८॥
मेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितं ।
ततो हेममयी भूमिर्दशकोट्यो वरानने ॥३२९॥
देवानां क्रीडनार्थाय लोकालोकस्त्वतः परं ।
पर्वतो वलयाकारो योजनायुतविस्तृतः ॥३३०॥
लक्षमात्रसमुत्सेधो योजनानां वरानने ।
सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः ॥३३१॥
तस्यान्तर्भासयेद्भानुर्न बहिः सुरसुन्दरि ।
लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः ॥३३२॥
विरुजो वसुधामा च शंखपात्कर्दमस्तथा ।
हिरण्यरोमा पर्जन्यः केतुमान्भाजनस्तथा ॥३३३॥
जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने ।
पूर्वादारभ्य क्रमशो यावदीशानगोचरः ॥३३४॥
लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः ।
अस्य मध्ये वरारोहे योनयस्तु चतुर्दश ॥३३५॥
चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः ।
लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनं ॥३३६॥
तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितं ।
अर्धरात्रोऽमरावत्यां अस्तमेति यमस्य च ॥३३७॥
मध्याह्नश्चैव वारुण्यां स्ॐये सूर्योदयः स्मृतः ।
यदैव चामरावत्यां उदयस्तस्य दृश्यते ॥३३८॥
तदास्तमेति वारुण्यां इत्यादित्यगतागतं ।
सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे ॥३३९॥
पितृदेवपथोह्येष कथितस्तु मया तव ।
अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितं ॥३४०॥
पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः ।
चत्वारिंशत्सहस्राणि योजनानां वरानने ॥३४१॥
सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः ।
ब्रह्मणोऽण्डकटाहेन युक्ता वै मेरुमध्यतः ॥३४२॥
पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः ।
एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महथ् ॥३४३॥
अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि ।
अथ वात्र महादेवि परिपाट्या समन्ततः ॥३४४॥
दीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे ।
शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेथ् ॥३४५॥
तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमं ।
अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमं ॥३४६॥
पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः ।
उपस्थानं ततः कुर्याद्भुवर्लोकस्य वरानने ॥३४७॥
ततो वागीश्वरी देवी संपूज्य कुसुमादिभिः ।
ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च ॥३४८॥
छेदनं च तथाकर्षो ग्रहणं योजनं ततः ।
गर्भधारित्वजनने अधिकारं तथैव च ॥३४९॥
योगं भोगं लयं चैव ततो योनिविशोधनं ।
चतुर्दश समासेन कथयाम्यनुपूर्वशः ॥३५०॥
पैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च ।
स्ॐयं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः ॥३५१॥
संहारक्रमयोगेन शोधनीयाः शिवाध्वरे ।
पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः ॥३५२॥
स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकं ।
देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलं ॥३५३॥
चतुर्दशविधं चैव भूर्लोके तु विशोधयेथ् ।
आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे ॥३५४॥
संसारः प्रोच्यते तस्मात्पर्यटेत्स यतस्ततः ।
सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः ॥३५५॥
बन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः ।
ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि ॥३५६॥
पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः ।
अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः ॥३५७॥
प्रधानगुणभेदेन यावच्चानाश्रितं पदं ।
तस्मादेवं विजानीयातध्वा बन्धस्य कारणं ॥३५८॥
चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलं ।
तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः ॥३५९॥
कर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः ।
आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना ॥३६०॥
कोशकारो यथा कीट आत्मानं वेष्टयेद्दृढं ।
नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा ॥३६१॥
तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः ।
न च मोचयितुं शक्ताः पशवः पाशबन्धनाः ॥३६२॥
स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः ।
शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनाथ् ॥३६३॥
अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलं ।
यत्तत्स्वाभिजनं शुद्धं अनौपम्यमनामयं ॥३६४॥
मोहिता मलमोहेन बद्धाः कर्मकलादिना ।
निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा ॥३६५॥
उद्धृतस्तु यथा वह्निर्मन्थकस्य वशात्स्फुटं ।
स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलं ॥३६६॥
अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषां ।
प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः ॥३६७॥
तथात्मा तु विजानाति यत्स्वरूपमनादिमथ् ।
मन्थकस्य वशाद्देवि नान्यथा तु कथंचन ॥३६८॥
मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः ।
आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः ॥३६९॥
मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा ।
वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवथ् ॥३७०॥
आत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः ।
उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः ॥३७१॥
न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः ।
मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः ॥३७२॥
तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः ।
रसवह्निसमायोगात्ताम्रं कालिकया यथा ॥३७३॥
विश्लेषितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते ।
न भूयस्ताम्रतां याति तथात्मा न कदाचन ॥३७४॥
रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवथ् ।
तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः ॥३७५॥
आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका ।
मन्त्रद्रव्यक्रियायोगाद्वह्न्याधारे तथा प्रिये ॥३७६॥
गुरुणा तन्त्रविदुषा ह्यात्मा वै निर्मलीकृतः ।
न भूयो मलतां याति शिवत्वं याति निर्मलं ॥३७७॥
एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा ।
शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा ॥३७८॥
गुणभूतास्तु ये पाशास्तेऽपि शुद्ध्यन्ति तद्वशाथ् ।
चतुर्दशविधं चैव यदुक्तं तु मया पुरा ॥३७९॥
संसारमण्डलं देवि शोद्ध्यं तदवनीतले ।
तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे ॥३८०॥
ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेथ् ।
ब्राह्मं चैव तु प्राजेशं स्ॐयमैन्द्रं तथैव च ॥३८१॥
गान्धर्वं चापरं याक्षं राक्षसं च तथापरं ।
पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा ॥३८२॥
सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा ।
पक्षिणां गरुडं चैव मृगाणां सिंहमेव च ॥३८३॥
पशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेथ् ।
अन्त्यजाञ्छूद्रविट्क्षत्र ब्राह्मणांश्च विशोधयेथ् ॥३८४॥
पञ्चभिर्ब्रह्मभिर्देवित्वधिकारान्विशोधयेथ् ।
दशाहुतिप्रयोगेण अन्त्यजान्ब्राह्मणावधि ॥३८५॥
ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च ।
गर्भः पुंसवनं चैव सीमन्तो जातकर्म च ॥३८६॥
नाम निष्क्रमणं चैव अन्नप्राशनचूडकं ।
अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः ॥३८७॥
एतैर्निवर्तितैर्देवि ततोऽसौ जायते द्विजः ।
नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः ॥३८८॥
अङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः ।
मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा ॥३८९॥
संध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः ।
नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने ॥३९०॥
भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा ।
उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः ॥३९१॥
सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणां ।
चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु ॥३९२॥
एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनं ।
तस्यान्तर्भूतमेवैतत्कथितं व्रतसप्तकं ॥३९३॥
चतुर्दश व्रतान्येवं होतव्यानि वरानने ।
वेदव्रतानि चत्वारि होतव्यानि न संशयः ॥३९४॥
ऐष्टिकं पार्विकं चैव भौतिकं स्ॐइकं तथा ।
व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः ॥३९५॥
त्रयोदशविजानीयात्ततो वै वेदभाजनं ।
ततो भवति गोदानं तच्चतुर्दशकं प्रिये ॥३९६॥
स्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकां ।
कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् ॥३९७॥
तज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमाथ् ।
नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः ॥३९८॥
अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा ।
चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमाथ् ॥३९९॥
एतैः सह विजानीयाद्द्वाविंशत्परिसंख्यया ।
आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परं ॥४००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:59:33.0600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pectic compound

  • Chem. पेक्टिक संयुग 
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site