स्वच्छन्दभैरवतन्त्र - पञ्चदशः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


श्रीभैरव उवाच
जपध्यानादियुक्तस्य चर्याव्रतधरस्य च ।
छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने ॥१॥
भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः ।
साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः ॥२॥
समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः ।
मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता ॥३॥
मत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनं ।
जातं प्ररूढमित्याहुर्मृतं चैव पराङ्मुखं॥ ४॥
रक्तं त्वमृतमित्याहुः पद्मनालोऽन्त्रसञ्चयः ।
शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितं ॥५॥
श्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः ।
पिशाचो रोमजननः रुहा ज्ञेया रजस्वला ॥६॥
रात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेथ् ।
नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः ॥७॥
करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः ।
लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥८॥
शस्त्रं विभागजननं कर्तरी कार्यसाधिका ।
दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते ॥९॥
गन्धः सन्तोषजननो राजानो धारकाः स्मृताः ।
पशुर्विबोधको ज्ञेयश्चरुकः सार्वकामिकः ॥१०॥
अन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते ।
दिशां मुखं तु श्रवणं त्वक्च संवेदनी स्मृता ॥११॥
घ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकं ।
पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते ॥१२॥
पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः ।
भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥१३॥
मित्रं गुणानां जननं गुणनाशं रिपुं विदुः ।
छित्स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितं॥ १४॥
दशनाः खण्डका ज्ञेया आधार उदरं स्मृतं ।
हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि ॥१५॥
मेदो वसां विजानीयात्मज्जा पुष्टिकरः स्मृतः ।
विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते ॥१६॥
कालेयकं तु कुसुमं धूमं धृतिकरं विदुः ।
मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः ॥१७॥
दुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः ।
दूषको जार इत्युक्तः पीतं वन्दितमेव च ॥१८॥
भक्षितं प्राप्तमित्याहुश्छर्दितं विकृतीकृतं ।
दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः ॥१९॥
महल्लो रक्षको ज्ञेयश्छगलस्तु कनिष्ठकः ।
विनयो देहकर्म स्यात्साधनं तु जपः स्मृतः ॥२०॥
होमितं सिद्धिजननं विभागो रोचकः स्मृतः ।
कदम्बं वृन्दमित्याहुर्विरलोऽश्लिष्ट उच्यते ॥२१॥
विमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता ।
देवतादर्शनं यत्तत्लब्धं शस्त्रहतं विदुः ॥२२॥
निशाचरो  बिडालः स्यात्नखिनश्च विदारकाः ।
आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा ॥२३॥
शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेथ् ।
शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेथ् ॥२४॥
ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेथ् ।
तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः ॥२५॥
जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेथ् ।
सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥२६॥
घण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः ।
कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेथ् ॥२७॥
हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेथ् ।
नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेथ् ॥२८॥
तस्याधस्ताद्बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये ।
यदा गुह्यं स्पृशेद्देवि अहंकारोऽधिदैवतं॥२९॥
कटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतं ।
ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेथ् ॥३०॥
जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितं ।
जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेथ् ॥३१॥
शरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये ।
पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः ॥३२॥
समयाचारयुक्तस्य कालांशकविदः प्रिये ।
क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः ॥३३॥
दर्शयन्ति महाध्वानं नानाभोगसमन्वितं ।
गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥३४॥
भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने ।
अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः ॥३५॥
अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः ।
एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥३६॥
सतताभ्यासयोगेन ददते चरुकं स्वकं ।
यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेथ् ॥३७॥
तस्माद्ध्यानार्चने होमं जपं च वरवर्णिनि ।
कुर्वन्ति भावितात्मानस्ततः सिद्ध्यन्ति मन्त्रिणः ॥३८॥


इति स्वच्छन्दतन्त्रे पञ्चदशः पटलः

॥ इति स्वच्छन्दतन्त्रे समाप्तः ॥

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP