TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ८

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ८
शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च ।
नानावर्णानि चान्यानि नानारूपाकृतीनि च ॥७०१॥
एतेषां परतो देवि व्यापकं परमं पदं ।
अप्रमेयमसंख्येयं अगम्यं सर्ववादिनां ॥७०२॥
विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते ।
नचापि भावो भवति दीक्षामप्राप्य देहिनां ॥७०३॥
यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका ।
शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभां ॥७०४॥
मन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः ।
नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि ॥७०५॥
यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा ।
स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः ॥७०६॥
तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव ।
संसारार्णवमग्नानां नौरिवोत्तारणं परं ॥७०७॥
महामायाञ्जनातीतं अज्ञातं पशुगोचरे ।
अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरं ॥७०८॥
परमेशमुखोद्गीर्णं यन्मया प्राप्तमद्भुतं ।
वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये ॥७०९॥
ऊर्ध्वं वै ब्रह्मणोऽण्डस्य पुरैकादशकं स्थितं ।
एकादशानां रुद्राणां युगान्ताग्निसमत्विषां ॥७१०॥
अथोर्ध्वे भुवनं देव्याः कथयामि वरानने ।
इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलं ॥७११॥
तस्मिन्भगवती देवी भद्रकाली व्यवस्थिता ।
वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा ॥७१२॥
सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता ।
पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते ॥७१३॥
राजते च महाहारः स्तनाभ्यामन्तरे स्थितः ।
असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा ॥७१४॥
चतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः ।
सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते ॥७१५॥
आसने सुप्रभे देवी जात्यञ्जनसमप्रभा ।
शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता ॥७१६॥
सर्वरत्नमयी दिव्या रशनास्या विराजते ।
पीतमाल्यांशुकवती शर्वरीवारुणोदये ॥७१७॥
तृतीयं नयनं तस्या ललाटस्थं विराजते ।
उदयस्थ इवादित्यो रश्मिजालविभूषितः ॥७१८॥
उच्छ्रितेनातपत्रेण सा श्वेतेन विराजते ।
कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी ॥७१९॥
कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता ।
आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले ॥७२०॥
कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः ।
प्रियङ्गुकलिकाश्यामाश्चन्द्रगौर्यः सयौवनाः ॥७२१॥
पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः ।
हावभावविधिज्ञास्तु नृत्तगीतविशारदाः ॥७२२॥
वीणावेणुमृदङ्गाद्यैर्वंशवादित्रनिःस्वनैः ।
उपासीनास्तु तां देवीं रमन्ते तत्र योषितः ॥७२३॥
एवं विद्धि जयं नाम भुवनं तु वरानने ।
या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी ॥७२४॥
विष्णुना तपसा पूर्वं आराध्य परमेश्वरं ।
अवतारिता वधार्ताय महिषस्य महात्मनः ॥७२५॥
येन चैकेन शृङ्गेण भगवान्हिमवान्गिरिः ।
शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः ॥७२६॥
सा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः ।
सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति ॥७२७॥
योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी ।
अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते ॥७२८॥
विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः ।
भगिनीत्वेन चायाति नामरूपविपर्ययैः ॥७२९॥
मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे ।
रक्षणार्थं हि लोकानां मातेव हितकारिणी ॥७३०॥
इत्याख्यातं तु भुवनं जयं नाम वरानने ।
तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः ॥७३१॥
नचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः ।
न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने ॥७३२॥
प्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः ।
दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनां ॥७३३॥
निर्बीजदीक्षया मोक्षं ददाति खलु देहिनां ।
सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता ॥७३४॥
विद्येशावरणे दीक्षा यवती क्रियते नृणां ।
तावतीं गतिमाप्नोति भुवनेऽत्र वरानने ॥७३५॥
भुवनानि तदीशांश्च संस्थानानि यथाक्रमं ।
कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये ॥७३६॥
भद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः ।
कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः ॥७३७॥
युगान्ताम्बुदवृन्दोत्थ- गर्जितध्वनिनिःस्वनः ।
शतबाहुर्महातेजा दिव्याभरणभूषितः ॥७३८॥
शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः ।
शिखिकण्ठनिभः किञ्चित्किञ्चिदापाण्डुलोहितः ॥७३९॥
चाषजीमूतवर्णश्च अतसीपुष्पसंनिभः ।
इन्द्रनीलनिभः किञ्चित्किञ्चिद्भृङ्गनिभाकृतिः ॥७४०॥
जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः ।
युतं कोटिसहस्रेण रुद्राणां च महात्मनां ॥७४१॥
भुवनं तस्य देवस्य विजयं नाम विश्रुतं ।
इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महथ् ॥७४२॥
दशकोटिसहस्राणि रुद्राणां वरवर्णिनि ।
अन्तर्भुवनसंघातैरन्यैश्च परिवारितं ॥७४३॥
नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा ।
रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितं ॥७४४॥
स्तुतिभिर्मङ्गलैर्गीतैर्नृत्तावादित्रवादितैः ।
पणवैर्वेणुवीणाभिर्भेरीझल्लरि गोमुखैः ॥७४५॥
पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः ।
मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा ॥७४६॥
मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः ।
वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः ॥७४७॥
भूतैर्भूतगणै रुद्रैर्जल्पितैः पठितैस्तथा ।
ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा ॥७४८॥
मयूरकोकिलारावान्मुञ्चद्भिश्च तथापरैः ।
नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः ॥७४९॥
आवृतस्तैर्महातेजा मयूखैरिव भास्करः ।
गजवक्त्रैः सिंहवक्त्रैरश्ववक्त्रैः शुभाननैः ॥७५०॥
गोकर्णैर्गोमुखैश्चान्यैर्द्वीपिऋक्षमुखैस्तथा ।
व्याघ्रवानरवकैश्च भगवान्पर्युपास्यते ॥७५१॥
वीरभद्रो महातेजा युगान्ताग्निसमप्रभः ।
आसनं तस्य देवस्य सर्ववज्रमयं महथ् ॥७५२॥
दशयोजनविस्तीर्णं चतुरस्रानलप्रभं ।
राजतेऽत्राष्टभिः सिंहैर्वृतं भीमपराक्रमैः ॥७५३॥
अत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरं ।
जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः ॥७५४॥
ते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिं ।
भुवनस्यास्य देवेशि ह्युपर्यावरणं महथ् ॥७५५॥
अम्मयं तु घनं चापि शक्रचापमिव स्थितं ।
वितानमिव तद्भद्रं अन्तरे समवस्थितं ॥७५६॥
तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः ।
तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते ॥७५७॥
तिर्यक्त्रिगुणविस्तारं आप्यमावरणं प्रिये ।
आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा ॥७५८॥
रुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये ।
वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा ॥७५९॥
त्रयोदशभिरन्यैश्च भुवानैरुपशोभितं ।
नानारुद्रगणैर्दिव्यैर्निरन्तरमलंकृतं ॥७६०॥
अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये ।
अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महथ् ॥७६१॥
धात्री यस्मिन्भगवती धरालोके सनातनी ।
हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता ॥७६२॥
चक्रवर्तिविमानैश्च बहुभिः परिवारितं ।
आवृतं भूतसंघातैराचार्यैस्तत्परायणैः ॥७६३॥
दिव्यगीतनिनादाढ्यैर्वादित्रशतनिःस्वनैः ।
अन्तर्भुवनसंघातै रुद्राणां परिवारितं ॥७६४॥
भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः ।
रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः ॥७६५॥
पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः ।
तस्य मध्ये भगवती धरित्री लोकधारिणी ॥७६६॥
मालया रक्तपुष्पस्य लम्बया नित्यभूषिता ।
चन्द्रार्कमण्डलाकार- कपोलतलभूषिता ॥७६७॥
पीतहेमांशुकवती महाहारविभूषिता ।
शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता ॥७६८॥
चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता ।
रूपयौवनसंपन्ना नृत्तगीतविशारदाः ॥७६९॥
परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः ।
त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः ॥७७०॥
उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता ।
तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः ॥७७१॥
उच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः ।
पुरःस्थितो महातेजा योऽसौ मेरुर्महागिरिः ॥७७२॥
उपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः ।
नीलोत्पलदलश्यामो नीलजीमूतसंनिभः ॥७७३॥
नीलो नाम महाशैलः पीतवासा महाद्युतिः ।
अतिकान्तेन रूपेण कैटभारिरिवापरः ॥७७४॥
उपास्यमानो दिव्याभिर्नगरीभिर्नगाधिपः ।
तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः ॥७७५॥
श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः ।
तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः ॥७७६॥
पीताम्बरधरः श्रीमान्शृङ्गवानिति विश्रुतः ।
अतिकान्तेन रूपेण कुसुमास्त्र इवापरः ॥७७७॥
दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये ।
चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः ॥७७८॥
शुक्लाम्बरधरः श्रीमान्निषधो नाम विश्रुतः ।
तप्तहेमप्रतीकाशो दिव्याभरणभूषितः ॥७७९॥
अतिशुभ्रेण देहेन पितामह इवापरः ।
पीताम्बरधरः श्रीमान्पीतमाल्यानुलेपनः ॥७८०॥
हेमकूटो महातेजास्तेजसामिव सङ्ग्रहः ।
राजते भगवान्शैलः सन्ध्यावृत इवांशुमान् ॥७८१॥
पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः ।
शुक्लाम्बरधरः श्रीमान्दिव्यकुण्डलभूषितः ॥७८२॥
आतपत्रेण महता ध्रियमाणेन मूर्धनि ।
हिमवानिति विख्यातो द्वितीय इव भास्करः ॥७८३॥
इन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः ।
रक्ताम्बरधरः श्रीमानस्ताद्रिस्थ इवांशुमान् ॥७८४॥
शुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः ।
किरीटी कुण्डली श्रीमान्माल्यवान्नाम पर्वतः ॥७८५॥
इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता ।
लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः ॥७८६॥
दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी ।
धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ॥७८७॥
ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुं ।
अतः परतरं देवि सामुद्रं भुवनं महथ् ॥७८८॥
सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितं ।
नीलोत्पलसमच्छायं सर्वतः परिमण्डलं ॥७८९॥
मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभं ।
शतयोजनसाहस्रं समन्तात्परिमण्डलं ॥७९०॥
तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः ।
किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः ॥७९१॥
अपां निधेर्भगवतो वरुणस्य परा तनुः ।
तं तु देवं महात्मानं परिवार्य समन्ततः ॥७९२॥
रूपयौवनसंपन्नाः सततं पर्युपासते ।
शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना ॥७९३॥
शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता ।
शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि ॥७९४॥
गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः ।
नीलाम्बरधरा देवी नीलगन्धानुलेपना ॥७९५॥
नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे ।
एवमाद्या महानद्यः परिवार्य महाद्युतिं ॥७९६॥
समुद्राष्टकं च देवेशि स्वनदीभिः समावृतं ।
उपासते सदा भक्त्या वारुणीं परमां तनुं ॥७९७॥
नानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः ।
रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणां ॥७९८॥
अपां योनिं परां प्राप्ताः वारुणी सा परा तनुः ।
अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥७९९॥
श्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतं ।
विमानशतसंघातैर्निरन्तरमवस्थितैः ॥८००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:44:18.9670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

होवी

  • स्त्री. ( गो . ) १ ओंवी . २ स्तुति . ( क्रि० गाणें ). 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site