TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - चतुर्थः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


चतुर्थः पटलः
अधिवासानन्तरभाविनीं दीक्षां प्रस्तावयितुं श्रीभैरव उवाच
प्रत्यूषे विमले कृत्वा शौचाद्यान्पुर्र्ववत्क्रमाथ् ।
सकलीकरणं कृत्वा पूर्ववत्प्रविशेद्गृहं ॥१॥
शिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः ।
प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेथ् ॥२॥
शुभान्स्वप्नान्प्रवक्ष्यामि अशुभांश्च वरानने ।
स्वप्नेषु मदिरापानं आममांसस्य भक्षणं ॥३॥
क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनं ।
भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनं॥४॥
श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणं ।
सिंहासनं रथं यानं ध्वजं राज्याभिषेचनं ॥५॥
रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च ।
दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनं ॥६॥
नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः ।
आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति ॥७॥
नदीसमुद्रतरणं आकाशगमनं तथा ।
भास्करोदयनं चैव प्रज्वलन्तं हुताशनं ॥८॥
ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनं ।
हर्म्यस्यारोहणं चैव प्रासादशिखरेऽपि वा ॥९॥
नराश्ववृषपोतेभ- तरुशैलाग्ररोहणं ।
विमानगमनं चैव सिद्धमन्त्रस्य दर्शनं ॥१०॥
लाभः सिद्धचरोश्चैव देवादीनां च दर्शनं ।
गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः ॥११॥
उप्वीताञ्जनं चैव अमृतं पारतौषधीः ।
शक्तिं कमण्डलुं पद्मं अक्षसूत्रं मनःशिलां ॥१२॥
प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च ।
दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा ॥१३॥
क्षतजार्णवसांग्राम- तरणं विजयं रणे ।
ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतं ॥१४॥
वीरवेतालसिद्धैश्च महामांसस्य विक्रयं ।
महापाशोः संविभागं लब्ध्वा देवेभ्य आदराथ् ॥१५॥
आत्मना पूजयन्देवं जपन्ध्यायन्स्तुवन्नपि ।
सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति ॥१६॥
हंससारसचक्राह्व- मयूरशवरोहणं ।
मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह ॥१७॥
भैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः ।
शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे ॥१८॥
तैलाभ्यङ्गस्तथा पानं विशनं च रसातले ।
अन्धकूपे च पतनं अथ पङ्के निमज्जनं ॥१९॥
वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वताथ् ।
कर्तनं कर्णनासाभ्यां अथ वा हस्तपादयोः ॥२०॥
पतनं दन्तकोशानां ऋक्षवानरदर्शनं ।
वेतालक्रूरसत्वानां तथैव कालपूरुषाः ॥२१॥
कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः ।
रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेथ् ॥२२॥
म्रियते नात्र संदेहो यदि शान्तिं न कारयेथ् ।
गृहप्रसादभेदं च शय्यावस्त्रासनेषु च ॥२३॥
आत्मनोऽभिभवं संख्य आत्मद्रव्यापहारणं ।
खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च ॥२४॥
महिषोलूककाकेषु रोहणं च प्रवर्तनं ।
भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनं ॥२५॥
कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति ।
हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणं ॥२६॥
स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणं ।
उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति ॥२७॥
अशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः ।
शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेथ् ॥२८॥
अष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति ।
पूर्ववत्सकलीकृत्य विघ्नोच्चाटनरक्षणं ॥२९॥
वेष्टनं पूर्ववत्कुर्याच्छिवम्भः शिवहस्तकं ।
लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलं ॥३०॥
अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनं ।
प्रायश्चित्तं ततः पश्चाद्दुस्वप्नार्थं यदुक्तवान् ॥३१॥
एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवं ।
निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववथ् ॥३२॥
नित्यकर्म ततः कुर्यात्पूजाहोमजपादिकं ।
नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेथ् ॥३३॥
उपलिप्य शिवाम्भोभिर्ब्रम्ह्मस्थानं प्रपूजयेथ् ।
भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेथ् ॥३४॥
करणीं खटिकां चैव भैरवेण प्रपूजयेथ् ।
धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः ॥३५॥
निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेथ् ।
नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः ॥३६॥
स्नानादि पूर्वमन्त्रैः सकलीकरणादिकं ।
आत्मरक्षास्त्रप्राकार- द्वारपालादिपूजनं ॥३७॥
विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनां ।
अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनं ॥३८॥
उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववथ् ।
शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनं ॥३९॥
लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेथ् ।
मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना ॥४०॥
वर्मणा वेष्टयेत्पश्चात्प्रणवेनाभिमन्त्रयेथ् ।
अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥४१॥
चतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमाथ् ।
प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत्ततः ॥४२॥
गुरून्संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु ।
अनन्तमासनं प्राग्वच्छिवान्तं प्रणवेन तु ॥४३॥
मूर्त्यादि पूर्वन्न्यस्येद्धृदाद्यावरणान्तगं ।
पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेथ् ॥४४॥
निरोधार्घेण चार्धं तु दत्वा चैव निरोधयेथ् ।
जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेथ् ॥४५॥
नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुं ।
आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेथ् ॥४६॥
कलशस्थस्य वामेन रोचयेत्पूरयेत्ततः ।
मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेथ् ॥४७॥
अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन्स्मरेथ् ।
एवं साधनकं कृत्वा ततस्तर्पणमारभेथ् ॥४८॥
दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेथ् ।
प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतं ॥४९॥
विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः ।
आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः ॥५०॥
संपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमं ।
मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः ॥५१॥
विज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः ।
स्नानाधिवासनाद्यं यन्मण्डलेऽग्नौ च यत्कृतं ॥५२॥
विधानं पुष्कलं सम्यक्त्वत्प्रसादादिहास्तु तथ् ।
इदानीं शिष्यदेहे तु सकलीकरणादिका ॥५३॥
योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात्प्रसिद्ध्यतु ।
एवमस्त्वित्यनुज्ञातः परमेशेन वीरराठ् ॥५४॥
लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः ।
पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकं ॥५५॥
धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः ।
प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेथ् ॥५६॥
शिवाम्भोऽस्त्रेण संताड्य भस्मना च कुशैः क्रमाथ् ।
मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेथ् ॥५७॥
उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकं ।
सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥५८॥
शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलं ।
मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनं ॥५९॥
उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेथ् ।
वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेथ् ॥६०॥
पूजयेद्गन्धपुष्पाद्यैर्भैरवेणाभिमन्त्रयेथ् ।
नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेथ् ॥६१॥
अकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः ।
पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च ॥६२॥
मुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा ।
मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेथ् ॥६३॥
प्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च ।
अग्निकुण्डसमीपे तु आचार्यः पशुना सह ॥६४॥
आत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु ।
पूर्वन्नाडिसंधानं तदर्थं चाहुतित्रयं ॥६५॥
संपाताभिहुतिं कृत्वा अणुतर्पणमेव च ।
पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेथ् ॥६६॥
धाम्ना चाष्टशतं पश्चात्पातयेदाहुतित्रयं ।
जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥६७॥
बीजाहारे तथा देश- भावशुद्धौ द्विजो भवेथ् ।
प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा ॥६८॥
अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेथ् ।
रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि ॥६९॥
ओंकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगं ।
विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः ॥७०॥
छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेथ् ।
अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेथ् ॥७१॥
तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु ।
संहारमुद्रया सम्यक्पूरकेण विशेद्धृदि ॥७२॥
संस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः ।
त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदं ॥७३॥
तत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु ।
संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेथ् ॥७४॥
भैरवेणाभिमन्त्र्य एवं उपवीतं शिशोर्ददेथ् ।
आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेथ् ॥७५॥
पिण्डस्यापादनं जातेः  आहुतित्रितयेन तु ।
चैतन्यस्यापि संस्कारं आधानान्त्येष्टितः परं ॥७६॥
सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेथ् ।
शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः ॥७७॥
समयी संस्कृतो ह्येवं वचनेष्यार्हता भवेथ् ।
श्रवणेऽध्ययने होमे पूजनादौ तथैव च ॥७८॥
चर्याध्यानविशुद्धात्मा लभते पदमैश्वरं ।
अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनां ॥७९॥
विधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकं ।
गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणं ॥८०॥
फलमाकाङ्क्षसे यादृक्तादृक्साधनमारभे ।
वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥८१॥
मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः ।
वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥८२॥
साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः ।
शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः ॥८३॥
ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः ।
त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः ॥८४॥
द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः ।
कर्मकृत्फलमाकाङ्क्षञ्शुभैकस्थोऽशुभोज्झितः ॥८५॥
तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनं ।
गृहस्थो वा यतिर्वासावाश्रमैकतमस्थितः ॥८६॥
मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः ।
बालबालिशवृद्धस्त्री- भोगभुग्व्याधितात्मनां ॥८७॥
एषां निर्बीजिका दीक्षा समयदिविवर्जिता ।
विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये ॥८८॥
दीक्षानुग्राहिका तेषां समयाचारसंयुता ।
विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः ॥८९॥
तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता ।
सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता ॥९०॥
गृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेथ् ।
पाशसूत्रकमादाय शिष्यदेहेऽवलम्बयेथ् ॥९१॥
अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः ।
कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः ॥९२॥
सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः ।
षड्विधस्याध्वमार्गस्य साधारणगतस्य तु ॥९३॥
कुण्डे संकल्प्य संशोध्य- मध्वसंधौ तु होमयेथ् ।
मूलमन्त्राष्टशतिक- मध्वसंधानहेतुतः ॥९४॥
अध्वावलोकनं पश्चाद्व्याप्यव्यापकभेदतः ।
भुवनव्याप्तिता तत्त्वेष्वनन्तादिशिवान्तके ॥९५॥
व्यापकानि च षट्त्रिंशत्मन्त्रवर्णपदात्मकाः ।
तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः ॥९६॥
कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः ।
हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः ॥९७॥
एकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेथ् ।
पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते ॥९८॥
एवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेथ् ।
त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेथ् ॥९९॥
अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति ।
तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेथ् ॥१००॥
धामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः ।
उपस्थापनमन्त्रोऽयं व्याप्तिं ध्यात्वाध्वसंस्थितां ॥१०१॥
निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा ।
तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥१०२॥
अष्टाविंशतिः पदानि वर्ण एकोऽत्र संस्थितः ।
मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेथ् ॥१०३॥
पुष्पगन्धादिना पूज्य संनिधावाहुतित्रयं ।
मायीया भुवनाकारा मलाः कर्म च संस्थिताः ॥१०४॥
शरीरभुवनाकारा मायीयाः परिकीर्तिताः ।
भोगहेतुश्च कर्म स्यादभिलाषो मलोऽत्र तु ॥१०५॥
एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितं ।
तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि ॥१०६॥
आदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्वितां ।
हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु ॥१०७॥
शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः ।
समकालमृतुत्वेन वागीशीं संनिधापयेथ् ॥१०८॥
ध्रुवेण पूजयेत्पुष्पैर्गन्धधूपैरनुक्रमाथ् ।
ओंकारेणाहुतिस्तिस्रो वागीशीसंनिधापने ॥१०९॥
शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् ।
रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥११०॥
धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेथ् ।
ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि ॥१११॥
पूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः ।
द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया ॥११२॥
आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि ।
संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेथ् ॥११३॥
प्राक्कर्मवासनाशेष- फलभोगत्वहेतवे ।
युगपद्भिन्नभोगानि देशकालशरीरतः ॥११४॥
मन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः ।
भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥११५॥
धाम्ना च योजयित्वा च जुहुयादाहुतित्रयं ।
युगपत्सर्वगर्भेषु देहा विविधरूपकाः ॥११६॥
भैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः ।
गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयं ॥११७॥
हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयाथ् ।
सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः ॥११८॥
भोगनिष्पत्तये कर्म व्यापरसहकारणं ।
तदभावान्न भोगः स्यात्तदर्थं मार्जनं स्मृतं ॥११९॥
अर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः ।
लयः परमया प्रीत्या सुखदुःखादिकेऽप्यलं ॥१२०॥
तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेथ् ।
आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः ॥१२१॥
यत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणं ।
निष्कृत्यन्ते विशुद्ध्येत्तद्भूलोकसमवस्थितं ॥१२२॥
संसारा दशचत्वारः संस्कारा अष्टभिः सह ।
चत्वारिंशद्द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥१२३॥
योनिर्बीजं तथा भाव आहारो देश एव च ।
एतेषां शोधनं देवि रुद्रांशापादनं तथा ॥१२४॥
अत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति ।
विषया भुवनाकारा ये केचिद्भोग्यरूपिणः ॥१२५॥
भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता ।
विश्लेषो निष्कृतेर्भोगात्भोगाभावे स हि स्मृतः ॥१२६॥
भोक्तृत्वं विषयासक्तिर्मलकार्यं प्रकीर्तितं ।
भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतं ॥१२७॥
विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया ।
धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च ॥१२८॥
आहुतित्रितयं धाम्ना पाशच्छेदेऽपि दापयेथ् ।
पाशा देहे तु मायीयाः कलाद्या भूतकावधि ॥१२९॥
शरीरकरणाकाराः पुरुषार्थप्रसिद्धये ।
भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा ॥१३०॥
पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः ।
एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते ॥१३१॥
शरीरशेषभङ्गेन एकचैतन्यभावना ।
पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च ॥१३२॥
शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभं ।
उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेथ् ॥१३३॥
तस्मात्तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतं ।
मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि ॥१३४॥
कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद्ध्रुवेण तु ।
शिष्यदेहे निवेश्यैतन्नाडीरन्ध्रेण पूर्ववथ् ॥१३५॥
तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयं ।
कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपं ॥१३६॥
स्वनामप्रणवाह्वान- पूर्वं संतर्प्य चार्पयेथ् ।
शब्दस्पर्शो त्यजेत्तस्मिन्ध्रुवाद्यौ नामसंयुतौ ॥१३७॥
स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेथ् ।
तिसृभिस्तिसृभिर्होमात्पुर्यष्टांशं निवेदयेथ् ॥१३८॥
आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेथ् ।
ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेथ् ॥१३९॥
ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेथ् ।
हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकं ॥१४०॥
प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा ।
मुमुक्षोर्निरपेक्षत्वात्प्रारब्ध्रेकं न शोधयेथ् ॥१४१॥
साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेथ् ।
प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेथ् ॥१४२॥
शिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतोऽन्यथा ।
प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी ॥१४३॥
लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता ।
प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् ॥१४४॥
भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः ।
सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् ॥१४५॥
निर्वाणेऽपि सबीजायां कर्माभावाद्विपद्यते ।
समयाचारपाशं हि दीक्षितः पालयेत्तु यः ॥१४६॥
तं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता ।
समयाचारपाशं तु निर्बीजायां विशोधयेथ् ॥१४७॥
दीक्षामात्रेण मुक्तिः स्याद्भक्रिमात्राद्गुरोः सदा ।
सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका ॥१४८॥
अतीतनागतारब्ध- पाशत्रयवियोजिका ।
दीक्षावसाने शुद्धिः स्याद्देहत्यागे परं पदं ॥१४९॥
एवं भावानुसारेण शिष्याणां गुरुणा सदा ।
फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ॥१५०॥
अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा ।
क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥१५१॥
विषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवं ।
करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणाथ् ॥१५२॥
कलासंधानकं कुर्याच्छुद्धाशुद्धद्विरूपगं ।
शुद्धमुच्चारयेध्रस्वं अशुद्धं दीर्घमेव च ॥१५३॥
एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेथ् ।
प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरं ॥१५४॥
नमस्कारस्तदन्ते तु कलासंधानकं स्मृतं ।
आवाह्य स्थाप्य संपूज्या- हुतीस्तिस्रः प्रपातयेथ् ॥१५५॥
कलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेथ् ।
गुल्फादारभ्य नाभ्यन्तं शिष्यदेहेऽध्वकल्पनं ॥१५६॥
प्रतिष्ठाया भवेद्व्याप्तिश्चतुर्विंशतितत्त्विका ।
षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका ॥१५७॥
ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते ।
मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेथ् ॥१५८॥
अन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनं ।
षट्कोशान्विषयान्पञ्च तदन्तर्भावयेत्सदा ॥१५९॥
विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः ।
भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना ॥१६०॥
स्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववथ् ।
प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥१६१॥
धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः ।
योजनं गर्भधारित्वं जननं पूर्ववत्क्रमाथ् ॥१६२॥
ऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेथ् ।
अधिकारस्थथा भोगो लयो निष्कृतिरेव च ॥१६३॥
शिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः ।
विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना ॥१६४॥
पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु ।
सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेथ् ॥१६५॥
आत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः ।
स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेथ् ॥१६६॥
पूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयं ।
रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा ॥१६७॥
विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेथ् ।
कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः ॥१६८॥
अभावं भावयेत्तस्मिन्पाशजाले त्वनन्तके ।
कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः ॥१६९॥
तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेथ् ।
स्थापयित्वा संपूज्य जुहुयादाहुतित्रयं ॥१७०॥
एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनं ।
पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते ॥१७१॥
सप्त तत्त्वानि भुवन- सप्तविंशतिरेव च ।
पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः ॥१७२॥
मन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनं ।
प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥१७३॥
समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेथ् ।
ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेथ् ॥१७४॥
तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु ।
आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि ॥१७५॥
अस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेथ् ।
द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु ॥१७६॥
पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेथ् ।
पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु ॥१७७॥
योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववथ् ।
शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेथ् ॥१७८॥
प्रणवादि ततो रुद्रं आवाह्य स्थाप्य पूजयेथ् ।
ततोऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती ॥१७९॥
पुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवतां ।
वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववथ् ॥१८०॥
ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेथ् ।
संधानार्थं तु मूलेन जुहुयादाहुतित्रयं ॥१८१॥
स्वनाम्नावाहनं शान्तेर्विधिपूर्वं निवेदनं ।
प्रमेयभावनां कृत्वा पूजयेत्कुसुमादिभिः ॥१८२॥
त्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवं ।
तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च ॥१८३॥
पदैकादशिका ज्ञेया पुराणि दश सप्त च ।
मन्त्रौ द्वौ षड्विधोऽध्वैवं मुख्याः पाशा इमे स्मृताः ॥१८४॥
सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा ।
वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः ॥१८५॥
पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनं ।
छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥१८६॥
अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेथ् ।
सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु ॥१८७॥
निष्कृतौ शतहोमं तु कवचेन तु कारयेथ् ।
विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः ॥१८८॥
उद्धारकरणात्मस्थ- तत्स्थीकारान्भवेन तु ।
स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेथ् ॥१८९॥
संपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकं ।
स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेथ् ॥१९०॥
अहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः ।
वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेथ् ॥१९१॥
कलासंधानकं पूर्वं शान्त्यतीते तु योजयेथ् ।
ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयं ॥१९२॥
ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना ।
कलोपस्थापनं पश्चाद्ध्रुवेण जुहुयात्प्रिये ॥१९३॥
त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् ।
शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥१९४॥
व्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये ।
बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥१९५॥
पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः ।
भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेथ् ॥१९६॥
शोधनीया वरारोहे यावत्ते शिवरश्मयः ।
शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते ॥१९७॥
षडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु ।
कलाश्च पञ्च विज्ञेयास्तत्त्वषट्त्रिशदेव तु ॥१९८॥
सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयं ।
एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता ॥१९९॥
मन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलं ।
एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः ॥२००॥
ध्रुवेणावाह्य वागीशीं विन्यसेत्पूर्ववद्धुतिः ।
संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुं ॥२०१॥
ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकं ।
निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेथ् ॥२०२॥
विश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु ।
ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतं ॥२०३॥
सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् ।
नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेथ् ॥२०४॥
मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे ।
प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा ॥२०५॥
विन्यस्य पूजयेत्पश्चात्संज्ञास्वाहान्तमेव च ।
आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति ॥२०६॥
ततो विसर्जयेद्देवं कारणं च सदाशिवं ।
पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरं ॥२०७॥
ता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता ।
क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया ॥२०८॥
इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपं ।
विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता ॥२०९॥
स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते ।
आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतं ॥२१०॥
सशबोच्चारयोगेन आत्मतत्त्वे तु होमयेथ् ।
मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे ॥२११॥
विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये ।
विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥२१२॥
उपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेथ् ।
सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेथ् ॥२१३॥
मन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेथ् ।
तद्विशुद्ध्यै स होमः स्याद्विद्यातत्त्वे तु यः कृतः ॥२१४॥
मनोविज्ञानवैकल्यात्प्रायश्चित्तं तु यद्भवेथ् ।
तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेथ् ॥२१५॥
मानसेन प्रयोगेन शक्त्यन्तेऽध्वनि संस्थितं ।
तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेथ् ॥२१६॥
अध्वान्तस्थां परां शान्तां अनौपम्यामनामयां ।
व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणं ॥२१७॥
ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवथ् ।
कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखां ॥२१८॥
शिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः ।
स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेथ् ॥२१९॥
स्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः ।
प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखां ॥२२०॥
हुत्वा निर्गम्य चाचम्या- क्षाल्य स्रुक्स्रुवकर्तरीः ।
प्रविश्य सकलीकृत्य शिवहस्तानुपूजनं ॥२२१॥
ततस्तु मण्डले पश्चात्पूजयेत्परमेश्वरं ।
पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवं ॥२२२॥
भगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितं ।
पशुं संगृह्य संशोध्य शिखाच्छेदावसानकं ॥२२३॥
त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया ।
त्वच्छक्त्यैव तु गन्तव्यं आशु ध्रुवपदं शिवं ॥२२४॥
इदानीं योजने कर्म तवाज्ञानुविधायिनः ।
आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहं ॥२२५॥
लब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुराथ् ।
अर्धहस्तो व्रजेदग्निं शिष्यमाहूय प्रोक्षयेथ् ॥२२६॥
पूर्ववच्चासनस्थस्य सकलीकरणादिकं ।
अन्तःकरणविन्यासं नाडीसंधानपूर्वकं ॥२२७॥
पूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च ।
दशभागविभागेन यथा द्रव्यानुसारतः ॥२२८॥
मन्त्रान्संशोधयेत्पश्चात्सकलीकरणे स्थितान् ।
सकृदाहुतियोगेन अधिकारो विवर्ज्यतां ॥२२९॥
सकलीकरणत्वेन न कदाचित्पशोः पुनः ।
योजनीयं प्रयोगं तु अधुना कथयामि ते ॥२३०॥
ज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च ।
षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितं ॥२३१॥
हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च ।
शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवं ॥२३२॥
भेदनं च पदार्थानां भावप्राप्तिवशात्पुनः ।
आत्मविद्याशिवव्याप्तिं एवं ज्ञात्वा तु योजयेथ् ॥२३३॥
तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः ।
षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः ॥२३४॥
तुटिषोडशमानेन कालेन कलितः प्रिये ।
संचरन्तं विभागेन यथावत्तं शृणुष्व मे ॥२३५॥
हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः ।
नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकं ॥२३६॥
तत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे तत्रस्थोऽपि न बाध्यते ॥२३७॥
शक्त्या चाधो यदा गच्छेदबुधस्तु तदा भवेथ् ।
हृद्गतः पुनरुत्तिष्ठेद्बुध्यमानः स उच्यते ॥२३८॥
शक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता ।
अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेथ् ॥२३९॥
न कालो न कला चारो न तत्त्वं नच कारणं ।
सुनिर्वाणं परं शुद्धं गुरुपारम्परागतं ॥२४०॥
तद्वोदित्वा विमुच्येत गत्वा भूयो न जायते ।
अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते ॥२४१॥
आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यथ् ।
भुवनाध्वा स विज्ञेयस्तत्त्वाध्वा च तथैव हि ॥२४२॥
कलाकलितसंतानः प्राणः संचरते सदा ।
निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके ॥२४३॥
विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका ।
तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययं ॥२४४॥
एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः ।
व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः ॥२४५॥
प्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः ।
कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे ॥२४६॥
वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे ।
स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु ॥२४७॥
शब्दात्प्राणः समाख्यातस्तस्माद्वर्णास्तु प्राणतः ।
उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥२४८॥
शब्दातीतो वरारोहे तत्त्वेन सह युज्यते ।
युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥२४९॥
नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा ।
अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः ॥२५०॥
विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह ।
वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यतेऽधुना ॥२५१॥
एकाशीतिपदान्येव विद्याराजस्थितान्यपि ।
वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः ॥२५२॥
तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु ।
पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे ॥२५३॥
मन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता ।
पदिकादशिका सा च प्राणे चरति नित्यशः ॥२५४॥
अकारश्च उकारश्च मकारो बिन्दुरेव च ।
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥२५५॥
शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ।
उन्मना च ततोऽतीता तदतीतं निरामयं ॥२५६॥
मन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते ।
हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः ॥२५७॥
अकारेण यदा युक्त उकारचरणेन तु ।
मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥२५८॥
बिन्दुः शिरःसमायोगात्सुस्वरत्वं प्रपद्यते ।
नादोऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेथ् ॥२५९॥
अनेनैव च योगेन हंसः पुरुष उच्यते ।
ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु ॥२६०॥
शक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेथ् ।
व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवं ॥२६१॥
शिवतत्त्वगतो हंसो न चरेत्व्यापको भवेथ् ।
हंसोच्चारः समाख्यातः कारणैश्च समन्वितः ॥२६२॥
हकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः ।
हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः ॥२६३॥
कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः ।
तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयं ॥२६४॥
त्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः ।
ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥२६५॥
शक्तिव्यापिनीसमनास्तासां वाच्यः शिवोऽव्ययः ।
मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेथ् ॥२६६॥
समनां उन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः ।
सूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत्प्रिये ॥२६७॥
स्थूलस्थूलतरैर्भावैर्नानासिद्धिफलप्रदैः ।
सूक्ष्मोऽत्यन्तं परो भावस्त्वभावः स विधीयते ॥२६८॥
उन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः ।
तस्यापरं पुनः शून्यं संस्पर्शं च ततोऽपरं ॥२६९॥
शब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च ।
पञ्चभूतात्मभुवनं कारणैः समधिष्ठितं ॥२७०॥
भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकं ।
भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः ॥२७१॥
ब्रह्मादिकारणानां च साधने विग्रहं स्मरन् ।
पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयाथ् ॥२७२॥
मन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेथ् ।
पूर्वोक्तरूपकध्यानात्सिद्ध्यन्त्यत्र न संशयः ॥२७३॥
ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयाथ् ।
तन्मयत्वं यदाप्नोति योगिनामधिपो भवेथ् ॥२७४॥
शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेथ् ।
स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेथ् ॥२७५॥
शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेथ् ।
समनध्यानयोगेन योगी सर्वज्ञतां व्रजेथ् ॥२७६॥
उन्मन्या तु परं सूक्ष्मं अभावं भावयेत्सदा ।
सर्वेन्द्रियमनोतीतस्त्वलक्ष्योऽभाव उच्यते ॥२७७॥
अभावं भाव्यं भावेन भावं कृत्वा निराश्रयं ।
सर्वोपाधिविनिर्मुक्तं अभावं लभते पदं ॥२७८॥
एष ते कारणत्यागः कालत्यागं निबोध मे ।
तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥२७९॥
तुटद्वयं समाश्रित्य एकैको भैरवः स्थितः ।
अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥२८०॥
नवमस्तु परो देवः तेजसस्तूदयन्ति ते ।
सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥२८१॥
तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः ।
तदादिः संस्थितः कालः सर्वं चरति वाङ्मयं ॥२८२॥
तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा ।
मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥२८३॥
अयनं वत्सरश्चैव युगं मन्वन्तरं तथा ।
कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेथ् ॥२८४॥
व्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तं ।
स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः ॥२८५ ॥
सोऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेथ् ।
सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः ॥२८६॥
उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते ।
नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेथ् ॥२८७॥
तं च नित्योदितं प्राप्य तन्मयो जायते सदा ।
कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते ॥२८८॥
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकं ।
शून्यत्रयं चलं ह्येतत्तदधो मध्य ऊर्ध्वतः ॥२८९॥
चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमं ।
उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः ॥२९०॥
तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः ।
षट्शून्यानि परित्यज्य सप्तमे तु लयं कुरु ॥२९१॥
तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितं ।
अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ॥२९२॥
अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ।
सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितं ॥२९३॥
यत्र यत्र च नादादि- स्थूला अन्येऽपि संस्थिताः ।
तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितं ॥२९४॥
तदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये ।
स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितं ॥२९५॥
तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः ।
शून्यभावः समाख्यातः सामरस्यं निबोध मे ॥२९६॥
आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः ।
तृतीयं नाडिगं कुर्याच्छक्तौ कुर्याच्चतुर्थकं ॥२९७॥
व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकं ।
तात्वः समरसो देवि सप्तमस्तु विधीयते ॥२९८॥
शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमाथ् ।
पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेथ् ॥२९९॥
पूरकं कुम्भकं कृत्वा समानेन निरोधयेथ् ।
यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः ॥३००॥
समानेन समाकृष्टा एकीभूता भवन्ति ताः ।
तासु ये वायवस्तेऽपि प्राणे समरसीगताः ॥३०१॥
नाडयस्तु सुषुम्नायां एकीभूता व्यवस्थिताः ।
ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेथ् ॥३०२॥
मन्त्र आत्मा तथा नाडी एवं समरसीभवेथ् ।
वामदक्षिणमध्ये तु ततो नादं प्रमोचयेथ् ॥३०३॥
सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥३०४॥
एतेऽत्र समतां यान्ति अन्यथा तु पृथक्पृथक् ।
तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः ॥३०५॥
शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते ।
सर्वं शक्तिमयं तत्र सर्वं समरसीभवेथ् ॥३०६॥
तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेथ् ।
समन्ताद्व्याप्नुयाद्यस्माद्व्यापिनीत्यभिधीयते ॥३०७॥
तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः ।
सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ॥३०८॥
षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेथ् ।
तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा ॥३०९॥
स च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च ।
स्थावरं जङ्गमं चैव चेतनाचेतनस्थितं ॥३१०॥
अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः ।
प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः ॥३११॥
यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।
मनो न चलते तस्य सर्वावस्थागतस्य तु ॥३१२॥
यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेथ् ।
चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ॥३१३॥
विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः ।
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचिथ् ॥३१४॥
एवां समरसं ज्ञात्वा नासौ मुह्येत्कदाचन ।
यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेथ् ॥३१५॥
एवं समरसः प्रोक्तो विषुवत्तु निबोध मे ।
प्रथमं प्राणविषुवन्मात्रं ज्ञेयं द्वितीयकं ॥३१६॥
तृतीयं नाडिविषुवत्प्रशान्तं च चतुर्थकं ।
पञ्चमं शक्तिविषुवत्षष्ठं वै काल उच्यते ॥३१७॥
सप्तम तत्त्वविषुवत्प्रविभागस्त्वथोच्यते ।
आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेथ् ॥३१८॥
प्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते ।
मन्त्रमुच्चारयेत्तावद्यावन्नान्यमना भवेथ् ॥३१९॥
परापरविभागेन मन्त्रात्मा तु तदुच्यते ।
मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे ॥३२०॥
सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता ।
सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता ॥३२१॥
तत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते ।
प्रशान्तं विषुवच्चैवं अधुना कथयामि ते ॥३२२॥
अयने षडङ्गुलश्चारः कारणान्यङ्गुलेऽङ्गुले ।
तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥३२३॥
सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरं ।
प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः ॥३२४॥
निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः ।
एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः ॥३२५॥
एतत्प्रशान्तविषुवत्शक्त्युपाधिं निबोध मे ।
शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा ॥३२६॥
तावत्तु शक्तिविषुवत्कालाख्यं तु निबोध मे ।
तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता ॥३२७॥
कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया ।
तं परापरभागेन पुनरेव त्रिधा कुरु ॥३२८॥
अपरः षोडशो यावत्कालः सप्तदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥३२९॥
प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।
अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः ॥३३०॥
तृतीयः समनास्थाने तत्कालविषुवत्स्मृतं ।
एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते ॥३३१॥
उन्मना परतो देवि तत्रात्मानं नियोजयेथ् ।
तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥३३२॥
तत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितं ।
विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनाथ् ॥३३३॥
विषुवत्ते समाख्यातं पदार्थभेदनं शृणु ।
त्यागं चानुभवं चैव योजनं च परे पदे ॥३३४॥
पदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेथ् ।
भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकं ॥३३५॥
ज्ञापकं बोधमतुलं दीपवद्योतनं यतः ।
दीपहस्तो यथा कश्चिद्द्रव्यमालोक्य चाहरेथ् ॥३३६॥
एवं ज्ञानेन च ज्ञेयं तस्मिन्कुर्यात्तु संस्थितं ।
ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते ॥३३७॥
लक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा ।
न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥३३८॥
गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचिथ् ।
गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च ॥३३९॥
अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते ।
आगमो ज्ञानमियुक्तं अनन्ताः शास्त्रकोटयः ॥३४०॥
शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः ।
हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते ॥३४१॥
मात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ ।
नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले ॥३४२॥
हृदयं मध्यदेशे तु चतुरङ्गुलसंमितं ।
चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः ॥३४३॥
कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः ।
तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलं ॥३४४॥
मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः ।
अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितं ॥३४५॥
तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः ।
एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः ॥३४६॥
तत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः ।
तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः ॥३४७॥
त्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः ।
तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितं ॥३४८॥
मात्रासंख्या च योगश्चा- धुना हंसस्य कथ्यते ।
अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ॥३४९॥
विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ।
एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते ॥३५०॥
उकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेथ् ।
त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेथ् ॥३५१॥
बिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते ।
भ्रुवोर्मध्ये स उच्चारस्तस्य देवि विधीयते ॥३५२॥
तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेथ् ।
निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेथ् ॥३५३॥
नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेथ् ।
द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेथ् ॥३५४॥
व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता ।
समना चोन्मना चोर्ध्वं अमात्रः परमोऽव्ययः ॥३५५॥
मात्रासंख्या च योगश्च प्रमाणं परिकीर्तितं ।
एवं ज्ञात्वा वरारोहे पदार्थान्भेदयेत्ततः ॥३५६॥
भेदयेन्मत्रशूलेन मुद्राभावयुतेन च ।
मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका ॥३५७॥
भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकं ।
परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः ॥३५८॥
यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते ।
क्रियाकरणसंबन्धात्तत्त्वस्योच्चारणं भवेथ् ॥३५९॥
क्रियाकरणहीनस्य न चैवोच्चारणं भवेथ् ।
क्रिया करणभेदेन सा चैव त्रिविधा स्मृता ॥३६०॥
एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः ।
नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेथ् ॥३६१॥
तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेथ् ।
पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेथ् ॥३६२॥
गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि ।
द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेथ् ॥३६३॥
नाडयो ग्रन्थिपद्माश्च येऽधोमुखगताः प्रिये ।
ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः ॥३६४॥
करणं तु ततः कृत्वा लक्षणं तस्य वै शृणु ।
जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेथ् ॥३६५॥
ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेथ् ।
दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता ॥३६६॥
कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते ।
दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु ॥३६७॥
कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः ।
नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः ॥३६८॥
रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते ।
ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन्समुच्चरेथ् ॥३६९॥
भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते ।
यदाकाशसमायोगात्घोषशब्दोपमो भवेथ् ॥३७०॥
कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने ।
भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥३७१॥
तालुमध्यगतः प्राणो यदा भवति सुव्रते ।
बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते ॥३७२॥
एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते ।
त्रयस्तेऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमाथ् ॥३७३॥
तिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयाथ् ।
तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः ॥३७४॥
भ्रुवोर्मध्यं यदा गच्छेत्स्फोटशब्दस्तु जायते ।
बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ॥३७५॥
कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना ।
अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥३७६॥
भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेथ् ।
भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते ॥३७७॥
अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीं ।
तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ॥३७८॥
स्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितं ।
प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति ॥३७९॥
तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयाथ् ।
निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः ॥३८०॥
वंशशब्दसमः शब्दस्तत्र सूक्ष्मः प्रजायते ।
भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदं ॥३८१॥
भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते ।
शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः ॥३८२॥
तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनां ।
भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः ॥३८३॥
शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेथ् ।
अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका ॥३८४॥
स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितं ।
यत्र यत्र चरेत्प्राणस्तत्तद्रूपमवाप्नुयाथ् ॥३८५॥
यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयाथ् ।
तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिं ॥३८६॥
भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेथ् ।
मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेथ् ॥३८७॥
जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः ।
बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः ॥३८८॥
समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः ।
गृहाणाति नापरं भावं न परं च शिवात्मकं ॥३८९॥
परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः ।
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परं ॥३९०॥
बन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता ।
अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः ॥३९१॥
त आत्मोपासकाः शैवे न गच्छन्ति परं शिवं ।
आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥३९२॥
तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः ।
आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेथ् ॥३९३॥
उन्मना सा तु विज्ञेया मनः संकल्प उच्यते ।
संकल्पः क्रमतो ज्ञानं उन्मानं युगपत्स्थितं ॥३९४॥
तस्मात्सा तु परा विद्या यस्मादन्या न विद्यते ।
विन्दते ह्यत्र युगपत्सार्वज्ञ्यादिगुणान्परान् ॥३९५॥
वेदनानादिधर्मस्य परमात्मत्वबोधना ।
वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥३९६॥
तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणं ।
परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेथ् ॥३९७॥
सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे ।
देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे ॥३९८॥
तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः ।
अहमेव परो हंसः शिवः परमकारणं ॥३९९॥
मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः ।
मन्त्रकरणक्रियायोगाद्योजयामि परे शिवे ॥४००॥
एवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः ।
यद्वद्वह्निशिखातीता तद्वद्योजयते परे ॥४०१॥
तस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः ।
शिव एको भवेद्देवि अविभागेन सर्वतः ॥४०२॥
तत्त्वत्रयं परं ख्यातं अपरं चाध्वमध्यगं ।
भेदनं तु पदार्थानां त्यागानुभवयोजनं॥ ४०३॥
पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेथ् ।
संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥४०४॥
विद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः ।
नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥४०५॥
सर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा ।
त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥४०६॥
अपरा सा तनुः स्थूला षट्विंशत्तत्त्वकल्पिता ।
तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितं॥ ४०७॥
तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः ।
एवमाचरते यस्तु आचारं तु शिवात्मकं॥ ४०८॥
शिवेन सहचारित्वादाचार्यस्तेन चोच्यते ।
तस्य दर्शनसंभाषा- स्पर्शनात्स्मरणादपि ॥४०९॥
भवत्येवैश्वरी व्याप्तिर्न भवेत्तदधोगतिः ।
तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेथ् ॥४१०॥
ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे ।
शिव आचार्यरूपेण लोकानुग्रहकारकः ॥४११॥
तस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति ।
आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥४१२॥
नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते ॥४१३॥
आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः ।
अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥४१४॥
नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयं ।
न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥४१५॥
कृत्वा संभाषणं तेन नरकं सोऽपि गच्छति ।
तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥४१६॥
भुक्तिमुक्तिफलावाप्तिर्भवत्येव तदाज्ञया ।
आचार्यः स्वजानानां च कुलकोटिसहस्रशः ॥४१७॥
ज्ञानज्ञेयपरिज्ञानात्समस्तास्तारयिष्यति ।
एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः ॥४१८॥
पूर्णाहुत्यैकयैवासौ पशून्योजयते परे ।
पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव ॥४१९॥
ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः ।
नाभिस्थाने स्रुचो मूलं उत्तानाग्रमुखं समं॥ ४२०॥
स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखं ।
पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ ॥४२१॥
मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च ।
अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये ॥४२२॥
मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः ।
ततो घृतेन संप्लाव्य अभिमानं तु कारयेथ् ॥४२३॥
अहमेव परं तत्त्वं परापरविभागतः ।
तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेथ् ॥४२४॥
यत्कुम्भेऽध्वात्र विन्यस्तः षट्प्रकारो वरानने ।
मण्डलेऽग्नौ शिशोरन्तः साधारणविकल्पितः ॥४२५॥
स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगं ।
प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेथ् ॥४२६॥
वसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि ।
नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरं॥ ४२७॥
यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेथ् ।
प्राणोऽपि वर्णतां याति षड्विधाध्वमयस्तु सः ॥४२८॥
षड्विधेध्वनि नातोऽन्यः प्रमेयो विद्यते क्वचिथ् ।
तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः ॥४२९॥
वर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः ।
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥४३०॥
अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी ।
शक्तिश्च व्यापिनी ह्येताः समना च ततः परं॥ ४३१॥
समनान्तं वरारोहे पाशजालमनन्तकं ।
कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणं॥ ४३२॥
अत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः ।
शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः ॥४३३॥
पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यथ् ।
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततोऽन्यथा ॥४३४॥
सर्वज्ञ्यादिगुणा येऽर्था व्यापकान्भावयेद्यदा ।
शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी ॥४३५॥
अतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते ।
उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः ॥४३६॥
व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेथ् ।
तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवाथ् ॥४३७॥
परे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः ।
स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते ॥४३८॥
बहिस्थां कुम्भकं तावत्परे तत्त्वे तु भावयेथ् ।
बहिर्निरोधभावेन सामरस्यं शिवेन च ॥४३९॥
अन्यथा न भवेद्देवि नदीवेग इवार्णवे ।
स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेथ् ॥४४०॥
पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे ।
स्रुचस्तु पूरणं यावत्तावत्कालं समादिशेथ् ॥४४१॥
अनेनैव तु कालेन बहिः कुम्भकवृत्तिना ।
आत्मा समरसत्वेन शिवीभवति सर्वगः ॥४४२॥
गुणानापादयेत्पश्चात्षटङ्गपरिमाहुतीन् ।
यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते ॥४४३॥
वन्दिभिश्च गुणास्तेऽपि ख्याप्यन्ते वसुधातले ।
तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः ॥४४४॥
सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च ।
अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः ॥४४५॥
तथा त्वलुप्तशक्तिश्चा- नन्तशक्तिस्ततः पुनः ।
गुणानापाद्य सर्वांस्तान्मूलमन्त्रमनुस्मरेथ् ॥४४६॥
ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमं ।
स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेथ् ॥४४७॥
तिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा ।
दद्यात्ततोऽभिषेकं तु मूलमन्त्रेण सुव्रते ॥४४८॥
परं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेथ् ।
तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेथ् ॥४४९॥
मन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः ।
शरीरं शोष्यते ताभिस्तदर्थमभिषेचनं॥ ४५०॥
दीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेथ् ।
दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ ॥४५१॥
प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि ।
कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ॥४५२॥
प्रोत्फुल्लनयनः शान्तस्तृप्तात्मानं तु भावयेथ् ।
इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका ॥४५३॥
येषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनं ।
श्रुतशीलसमाचारान्देशकत्वे नियोजयेथ् ॥४५४॥
अथाभिषेक आचार्ये शिवयोगादनन्तरं ।
पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः ॥४५५॥
शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः ।
ऋद्धिवृद्ध्यादिभिः पूतैरोषध्यक्षतपूरितैः ॥४५६॥
सितपद्ममुखोद्गारैश्चूतपल्लवसंयुतैः ।
पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेथ् ॥४५७॥
कलशेषु महादेवि पुनश्चैव कला न्यसेथ् ।
निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेथ् ॥४५८॥
एकैककलशो व्याप्यो ह्यनन्तादिशिवान्तकः ।
पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमाथ् ॥४५९॥
षडङ्गावरणोपेतं मन्त्रसंधानसंयुतं ।
भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥४६०॥
अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् ।
वारुण्यां स्ॐययम्यायं एन्द्र्यामैश्यां तथैव च ॥४६१॥
संपूज्यैवं विधानेन अभिषेकं समाचरेथ् ।
यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः ॥४६२॥
तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितं ।
वितानोपरिसंछन्नं ध्वजैश्च परिशोभितं॥ ४६३॥
तत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवं ।
तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेथ् ॥४६४॥
पूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितं ।
गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः ॥४६५॥
मृद्भस्मगोमयैः पिण्डैर्दूर्वाङ्कुरसमाश्रितैः ।
सिद्धार्थदधितोयैश्च निराजनसमन्वितैः ॥४६६॥
निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेथ् ।
पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेथ् ॥४६७॥
क्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः ।
अभिषिक्तोऽन्यवासस्तु परिधाप्याचनेत्ततः ॥४६८॥
प्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेथ् ।
संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेथ् ॥४६९॥
उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनं ।
हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः ॥४७०॥
करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकं ।
अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः ॥४७१॥
दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा ।
अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ॥४७२॥
उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेथ् ।
जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥४७३॥
विज्ञाप्य भगवन्नेवं अभिषिक्तस्त्वदाज्ञया ।
आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥४७४॥
कर्तव्यं यत्तदायातं अधिकारं तु देशके ।
शिवतत्त्वार्थकथनं शिवस्य पुरतः शितः ॥४७५॥
निर्गत्य भवनादगनौ कलाध्वानं तु होमयेथ् ।
मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः ॥४७६॥
पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः ।
अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः ॥४७७॥
अभिषिक्तो मयाचार्यस्तदर्थं मन्त्रतर्पणं ।
हृदाद्यैः पञ्चभिश्चाङ्गैर्दक्षिणं लाञ्छयेत्करं॥ ४७८॥
दर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेथ् ।
पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेथ् ॥४७९॥
भैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवथ् ।
लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः ॥४८०॥
स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः ।
शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥४८१॥
शिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा ।
शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता ॥४८२॥
तेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेथ् ।
साधकस्याभिषेकोऽयं विद्यादीक्षात उत्तरः ॥४८३॥
विद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता ।
कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥४८४॥
कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु ।
तानि संशोध्य विधिवत्कलापञ्चस्थितानि तु ॥४८५॥
योजन्यवसरे भेदो विमर्शः साधकस्य तु ।
प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेथ् ॥४८६॥
साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेथ् ।
धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेथ् ॥४८७॥
विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवं ।
पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतं॥ ४८८॥
अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया ।
अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकं॥ ४८९॥
कलशैः पञ्चभिः कुर्यात्निवृत्याद्यास्त्रिषु न्यसेथ् ।
शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके ॥४९०॥
शान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः ।
एकैककलशे पश्चात्साध्यमन्त्रं तु विन्यसेथ् ॥४९१॥
विद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेथ् ।
संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः ॥४९२॥
बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु ।
साधकं तत्र संस्थाप्य सकलीकरणं ततः ॥४९३॥
निर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेथ् ।
निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखं॥ ४९४॥
शान्त्यतीतं घटं पश्चाद्गृहीत्वा सेचयेच्छिशुं ।
शान्तिं पश्चात्तु गृह्णीयात्संपुटेनाभिषेचयेथ् ॥४९५॥
साधकस्याभिषेकोऽयं अनुलोमविलोमतः ।
अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितं॥ ४९६॥
प्रणवेनासनं दत्त्वा सकलीकरणं भवेथ् ।
साधकस्याधिकारार्थं अक्षमालादि कल्पयेथ् ॥४९७॥
मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके ।
उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ ॥४९८॥
विज्ञाप्य परमेशानं साधकोऽयं मया कृतः ।
भूयात्सिद्धिस्त्वदाज्ञातस्त्रिप्रकारस्य भक्तितः ॥४९९॥
साध्यमन्त्रं ददेत्पश्चात्पुष्पोदकसमन्वितं ।
तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु ॥५००॥
प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेथ् ।
प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् ॥५०१॥
अग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहितां ।
सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणं ॥५०२॥
एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेथ् ।
त्रिस्थं संपूज्य देवं तु ततोऽपि त्रिःप्रदक्षिणं ॥५०३॥
प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेथ् ।
उत्थाप्य साधकं ब्रूयात्समयान्पाहि यत्नतः ॥५०४॥
दीक्षावसाने ते देवि श्रावणीया विपश्चिता ।
एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने ॥५०५॥
आत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु ।
वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया ॥५०६॥
वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेथ् ।
तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥५०७॥
कलाभिः पञ्चभिर्व्याप्तं अध्वानं युगपन्न्यसेथ् ।
पूजाहोमोपचाराद्यान्कृत्वात्मानं नियोजयेथ् ॥५०८॥
शिष्यचैतन्यवत्योगादध्वानं युगपन्न्यसेथ् ।
पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयं ॥५०९॥
गर्भधारित्वजनने अर्जने भोगतल्लये ।
युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः ॥५१०॥
आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने ।
होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु ॥५११॥
शतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता ।
विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः ॥५१२॥
उद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेथ् ।
आत्मानं योजयेत्तत्त्वे शिवे परमकारणे ॥५१३॥
गुणान्पूर्ववदापाद्य अमृतान्पूर्ववत्कुरु ।
आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये ॥५१४॥
अथ विज्ञानरूपेण सकृदुच्चारलक्षणा ।
हेयोपादेयपाशानां युगपद्भैरवेण तु ॥५१५॥
शाश्वती संस्थितिः पश्चात्सूक्ष्मदीक्षा प्रकीर्तिता ।
विशेषपूजनं होमं यथाशक्ति प्रकल्पयेथ् ॥५१६॥
वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरं ।
त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलं ॥५१७॥
अष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरं ।
भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् ॥५१८॥
तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो ।
विधिन्यूनमकामस्य पूजा शास्तोदिता यथा ॥५१९॥
न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः ।
अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया ॥५२०॥
तत्सर्वं सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि ।
प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेथ् ॥५२१॥
उपविश्य ततो यागं संहरेत क्रमात्प्रिये ।
अग्रं संप्रार्थ्य गृह्णीयात्स्थापयेच्चास्त्ररक्षितं ॥५२२॥
विशेषपूजनं चार्धं प्रणिपातं ततः पुनः ।
निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः ॥५२३॥
दत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन् ।
आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेथ् ॥५२४॥
संहारिण्या च संगृह्य मन्त्रान्पार्श्वव्यवस्थितान् ।
विद्युद्वच्चलितान्ध्यात्वा धामदेहे तु विन्यसेथ् ॥५२५॥
विद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे ।
बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेथ् ॥५२६॥
शक्तिरूपं व्यपकेन प्रणवोभयसंपुटं ।
संहारिण्या तु संगृह्य द्वादशाते तु योजयेथ् ॥५२७॥
पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेथ् ।
सकलं निष्कलं रूपं तथा सकलनिष्कलं ॥५२८॥
भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये ।
विसर्जनविधिर्ह्येवं अग्नावेवं प्रपूजयेथ् ॥५२९॥
अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेथ् ।
अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेथ् ॥५३०॥
मण्डलस्थप्रयोगेन रेचकापूरकेण तु ।
संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेथ् ॥५३१॥
जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः ।
निर्माल्यनयनं कुर्याद्रजांस्यपहरेत्प्रिये ॥५३२॥
ततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा ।
बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववथ् ॥५३३॥
आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः ।
गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः ॥५३४॥
देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकं ।
शतभुक्पञ्च वै दद्याद्ग्रामं विंशतिभुक्तथा ॥५३५॥
दद्यात्तु ग्रामभुक्क्षेत्रं क्षेत्रभोक्ता तु विंशतिं ।
येन येन गुरुस्तुष्येत्तत्सर्वं विनिवेदयेथ् ॥५३६॥
ततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः ।
ततस्तु समयाञ्श्राव्यस्तन्त्रे भैरवनिर्गते ॥५३७॥
चरुकं प्राशयेत्पश्चाच्चुम्बकः साधकैः सह ।
वाङ्निरुद्धः प्रसन्नात्मा पृथक्पात्रव्यवस्थितः ॥५३८॥
अनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयाथ् ।
अनेनैव विधानेन दीक्षिता ये वरानन्ते ॥५३९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्येऽथवा प्रिये ।
सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥५४०॥
सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः ।
एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने ॥५४१॥
पुत्रकाणां भवेदेका साधकानां तथा भवेथ् ।
चुम्बकानां भवेदेका न प्राग्जातिविभेदतः ॥५४२॥
एकैव सा स्मृता जातिर्भैरवीया शिवाव्यया ।
तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेथ् ॥५४३॥
पुत्रकाणां साधकानां तथा समयिनामपि ।
प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः ॥५४४॥
दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च ।
पितामहस्य पक्षैकं नरके पच्यते तु सः ॥५४५॥
अविवेकी भवेत्तस्माद्यदीच्छेदुत्तमां गतिं ।
अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेथ् ॥५४६॥

स्वच्छन्दतन्त्रे चतुर्थः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:44:31.8570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शख् ‍ स

  • पु. मनुष्य ; माणूस ; व्यक्ती . [ अर . शख् ‍ स् ‍ ] 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.