TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - तृतीयः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


तृतीयः पटलः
अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः ।
वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः ॥१॥
भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।
जिह्मजेनोपवीतेन सवासा वा दिगम्बरः ॥२॥
सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः ।
दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः ॥३॥
सुधूपितः सुताम्बूलश्चन्दनागुरुचर्चितः ।
महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः ॥४॥
द्वाराध्यक्षान्पूजयित्वा पुष्पप्रक्षेपणं ततः ।
हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च ॥५॥
पार्ष्ण्यधोहस्तसंयोगाद्विघ्नप्रोच्चाटनाय वै ।
पार्ष्ण्या भूमिगतान्हन्यात्तालया चान्तरिक्षगान् ॥॥
मन्त्रैर्दिव्यान्विशोध्यैवं यागहर्म्यं विशेत्ततः ।
रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेथ् ॥७॥
वर्मणा मायारूपेणाच्छाद्यैव तु मखालयं ।
ततो दक्षिणदिग्भागे उपविश्य वरानने ॥८॥
करन्यासं यथापूर्वं दहनोत्पूयने तथा ।
प्लावनाप्यायने चैव सकलीकरणं तथा ॥९॥
पूर्ववन्मानसं यागं अन्तर्देहे समाचरेथ् ।
शक्त्याधारमनन्तं च धर्मादिचरणावधि ॥१०॥
गात्रकाणि त्वधर्माद्यस्तथा सन्धानकीलकान् ।
अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः ॥११॥
पुष्कराणि च शक्तीश्च मण्डलान्मण्डलाधिपान् ।
शिवान्तमासनं दद्यात्पूर्वरूपं ध्रुवेण तु ॥१२॥
मूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकं ।
द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च ॥१३॥
विद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयं ।
शक्तित्रयं परं देवं अङ्गषट्कसमन्वितं ॥१४॥
मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेथ् ।
संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेथ् ॥१५॥
सद्योजातं च वामं च अघोरं च यदुक्तवान् ।
पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेथ् ॥१६॥
हृदयादींस्ततः पञ्च दिशासु विदिशासु च ।
पूर्वतो यावदीशान्तं भैरवावरणं बहिः ॥१७॥
लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि ।
अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ॥१८॥
पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि ।
क्रमेणोच्चारयेत्सर्वान्यावत्तद्गर्भमैश्वरं ॥१९॥
मन्त्रसन्धानमेतद्धि परमीकरणं शृणु ।
उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितं ॥२०॥
तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरं ।
अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा ॥२१॥
पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु ।
देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने ॥२२॥
भेदयित्वा क्रमात्सर्वं यावद्वै निधनान्तिकं ।
निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनं ॥२३॥
तदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेथ् ।
सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेथ् ॥२४॥
तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः ।
यथा स्वरूपसंस्थान- वर्णा ये कथिता मया ॥२५॥
तथा ते विनियोक्तव्या मानसे मानसेन तु ।
कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवं ॥२६॥
शुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतं ।
तत्रापि परितो ज्ञेयं अनिर्देश्यमनामयं ॥२७॥
यत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना ।
ओंकारबिन्दुनादानां विलयं तं विनिर्दिशेथ् ॥२८॥
तत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन ।
यस्य नाग्रं च मूलं च दिशो विदिशस्तथा ॥२९॥
न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते ।
प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितं ॥३०॥
य एवं सततं कुर्याद्दैशिको यागतत्परः ।
स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा ॥३१॥
जले चाग्नौ च सम्पूज्य सम्यग्दीक्षाफलं लभेथ् ।
अकृत्वा मानसं यागं योऽन्यं यागं समारभेथ् ॥३२॥
अशिवः स तु विज्ञेयो न मोक्षाय विधीयते ।
आत्मयागे कृते चैव देहशुद्धिः प्रजायते ॥३३॥
अधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेथ् ।
आत्मनिर्दहनं चैव मानसं च यदुक्तवान् ॥३४॥
विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः ।
यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेथ् ॥३५॥
ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः ।
सर्वावस्थागतश्चैव विषयैरनुरञ्जितः ॥३६॥
सकृत्सम्पूज्य मुच्येत किं पुनर्यो दिने दिने ।
एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकं ॥३७॥
इज्यादि चान्यतन्त्रेऽपि तद्वैतत्कामिकं भवेथ् ।
नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदं ॥३८॥
योगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवं ।
सदाशिवोऽपि जानाति देवाश्चैवासुरादयः ॥३९॥
एवं तु मानसं यागं कृत्वा बाह्यं समाचरेथ् ।
परां वृत्तिमनुध्यायन्द्रव्याण्यादौ विलोकयेथ् ॥४०॥
सितचन्दनकर्पूरं सुधूपं सितवाससी ।
पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकं॥ ४१॥
चूतपल्लवदर्भांस्तु सिद्धार्थान्खटिकां तथा ।
करणीं कर्तरीं चैव पाशबन्धनसूत्रकं॥ ४२॥
वार्धानीं शिवकुम्भं च तथेध्मान्परिधीनपि ।
समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवं॥ ४३॥
तण्डुलांश्च तथा क्षीरं एवमादीन्यनेकशः ।
ततोऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा ॥४४॥
कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेथ् ।
उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने ॥४५॥
उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः ।
प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत्प्रिये ॥४६॥
भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमं ।
गन्धैः पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकं॥ ४७॥
मन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेथ् ।
पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा ॥४८॥
पश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेथ् ।
मन्त्रसन्धानकं प्राग्वन्नाडीसन्धानमेव च ॥४९॥
मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगं ।
भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेथ् ॥५०॥
वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेथ् ।
द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः ॥५१॥
तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि ।
आत्मनो रेचकेनैव पूरकेण विशेद्धृदि ॥५२॥
नाडीसन्धानमेतद्धि शिवेन परिकीर्तितं ।
व्यापकं तु शिवं ध्यायेन्मन्त्रमूर्तिमधिष्ठितं ॥५३॥
दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितं ।
पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा ॥५४॥
अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेथ् ।
दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेथ् ॥५५॥
तस्योपरि न्यसेत्पात्रं गोमयादीनि चाहरेथ् ।
पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा ॥५६॥
गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि ।
शिखया वर्मणा क्षीरं अस्त्रेणाज्यं कुशोदकं ॥५७॥
धाम्ना च मन्त्रयेत्पश्चाद्गोमयादीनि योजयेथ् ।
पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकं ॥५८॥
संयोज्य मन्त्रयेत्पश्चात्तैरेव हृदयादिभिः ।
प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहं ॥५९॥
धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिं ।
मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा ॥६०॥
शिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः ।
अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु ॥६१॥
यावद्भूमौ समन्तात्तु स्ॐयास्यो दक्षिणे स्थितः ।
ततश्चैवोद्धरेच्छल्यं आजलान्तं व्यवस्थितं ॥६२॥
रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेथ् ।
समीकरणमस्त्रेण कवचेन तु सेचनं ॥६३॥
आकोटनमथास्त्रेण ततो मार्जनलेपने ।
अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि ॥६४॥
शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेथ् ।
सप्तकृत्वोऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः ॥६५॥
ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेथ् ।
चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेथ् ॥६६॥
ऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरं ।
पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा ॥६७॥
ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनां ।
शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुतां ॥६८॥
नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीं ।
ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदां ॥६९॥
गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेथ् ।
ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलं ॥७०॥
गन्धोदकेन संलिप्य शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ।
अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि ॥७१॥
सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितं ।
स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः ॥७२॥
सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा ।
सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः ॥७३॥
रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः ।
प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितं ॥७४॥
आसनस्योपरि न्यस्येन्मूलमन्त्रमनुस्मरन् ।
कलाध्वभैरवादीनि न्यस्यार्घादीन्प्रकल्पयेथ् ॥७५॥
मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु ।
गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेथ् ॥७६॥
वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलं ।
शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेथ् ॥७७॥
सम्प्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्वितां ।
कुम्भवच्चार्चयित्वा तां आसनस्योपरि न्यसेथ् ॥७८॥
गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीं ।
उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेथ् ॥७९॥
अच्छिन्नामनुलोमेन जलधारां तु पातयन् ।
तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करं ॥८०॥
आचार्यः कलशं पश्चाद्भैरवेण समुद्धरेथ् ।
नयेद्वार्धानिमार्गेण तस्मिन्संस्थापयेत्पुनः ॥८१॥
वार्धानीं स्थापयेत्पश्चादस्त्रमन्त्रमनुस्मरन् ।
विशेषपूजामुभयोर्गन्धपुष्पपवित्रकैः ॥८२॥
मन्त्रसन्धानकं कुर्यान्नाडीसन्धिमथोभयोः ।
विकिरान्संहितान्पूर्वं वार्धान्याः कल्पयेदधः ॥८३॥
अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः ।
चक्रपट्टिसवज्रादि- त्रिशूलान्तान्यनेकशः ॥८४॥
योगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः ।
वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः ॥८५॥
शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितं ।
तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेथ् ॥८६॥
नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुं ।
भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहं ॥८७॥
सन्निधानं सदा तुभ्यं अविघ्नार्थं सदा भव ।
अनुज्ञातोत्थितो यायादर्घहस्तो दिगीश्वरान् ॥८८॥
स्वनामपदविन्यासानोंकारादिनमोन्तगान् ।
गन्धपुष्पपवित्राद्यैः पूजयेत्तान्प्रयत्नतः ॥८९॥
इन्द्राद्यनन्तपर्यन्तांल्लोकपालान्प्रपूजयेथ् ।
ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेथ् ॥९०॥
पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि ।
शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेथ् ॥९१॥
ब्रह्मस्थानस्य पूर्वेण गुरून्पूज्य विनायकं ।
वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमाथ् ॥९२॥
अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेथ् ।
ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेथ् ॥९३॥
पूर्वोक्तेन विधानेन भैरवेशं वरानने ।
पूजयित्वा पवित्राद्यैस्त्रिरावरणसंयुतं ॥९४॥
स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितं ।
मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च ॥९५॥
परमीकरणं कुर्याद्व्यापकेन परेण तु ।
नैवेद्यान्विविधाकारान्दत्त्वा मुद्रां प्रदर्शयेथ् ॥९६॥
प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकं ।
पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते ॥९७॥
भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः ।
ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते ॥९८॥
ततोऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा ।
भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा ॥९९॥
अग्नेः सन्तर्पणं कुर्यात्सहस्रेण शतेन वा ।
ततश्चरुं च श्रपयेत्स्थालीं संगृह्य निर्व्रणां ॥१००॥
शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेथ् ।
चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेथ् ॥१०१॥
सूत्रेण वेष्टयेत्कण्ठे वर्मभूतेन सुव्रते ।
दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये ॥१०२॥
प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेथ् ।
आसनं तत्र विन्यस्येदनन्तादिशिवान्तकं ॥१०३॥
मूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेथ् ।
त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमाथ् ॥१०४॥
मानसेन प्रयोगेण भावपुष्पैर्वरानने ।
चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः ॥१०५॥
तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः ।
क्षीरं प्रोक्ष्य शिवाम्भोभिस्तण्डुलांश्च समासतः ॥१०६॥
मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः ।
मूलमन्त्रेण देवेशि एकचित्तः समाहितः ॥१०७॥
चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेथ् ।
तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेथ् ॥१०८॥
त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात्प्रिये ।
भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेथ् ॥१०९॥
स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेथ् ।
भैरवेण षडङ्गेन वषड्जातियुतेन च ॥११०॥
मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेथ् ।
स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहितां ॥१११॥
ढ्wइवेदि प्रिन्त्स्स्था(ल्यां लीं) तस्योपरि
जपन्नेकैकयाहुत्या पातयेद्भैरवेण तु ।
अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् ॥११२॥
रजस्यादौ ततो देवि कर्तर्यां करणौ तथा ।
खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेथ् ॥११३॥
त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितं ।
शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेथ् ॥११४॥
द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकं ।
चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु ॥११५॥
पुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेथ् ।
हृदाद्यावरणस्थानां दशमांशं निवेदयेथ् ॥११६॥
कलशेऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा ।
भैरवस्य शतं होम्यं अङ्गानां तु दशांशकं ॥११७॥
साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत्प्रिये ।
विनायके शतं होम्यं भूपरिग्रहणे तथा ॥११८॥
अधिवासे तथैवेह अष्टोत्तरशतं हुतिः ।
प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके ॥११९॥
न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः ।
भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने ॥१२०॥
शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु ।
द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेथ् ॥१२१॥
प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेथ् ।
समपादं स्तब्धकायं स्ॐयाननकृताञ्जलिं ॥१२२॥
गुरुः पूर्वमुखोऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा ।
भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेथ् ॥१२३॥
नाभ्यूर्ध्वं त्रींस्तथा वारान्नभ्यधस्त्रीन्प्रकल्पयेथ् ।
शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु ॥१२४॥
वस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेथ् ।
पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा ॥१२५॥
हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरं ।
देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेथ् ॥१२६॥
प्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेथ् ।
विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवं ॥१२७॥
अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते ।
दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः ॥१२८॥
कृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुं ।
उत्थाप्य हस्तान्संगृह्य दक्षिणां मूर्तिमानयेथ् ॥१२९॥
तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनं ।
तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखं ॥१३०॥
गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेथ् ।
उपवेश्य ततः कृत्वा सकलीकरणे विधिं ॥१३१॥
विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा ।
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेथ् ॥१३२॥
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ।
अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेथ् ॥१३३॥
व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये ।
आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुं ॥१३४॥
धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेथ् ।
भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु ॥१३५॥
व्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवथ् ।
शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु ॥१३६॥
तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभं ।
मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेथ् ॥१३७॥
पूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु ।
मन्त्रन्यासो यथापूर्वं अष्टात्रिंशत्कलावधि ॥१३८॥
कलाध्वानं न्यसेत्पश्चाच्छान्त्यतीताद्यनुक्रमाथ् ।
स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका ॥१३९॥
शान्त्यतीतादिका ज्ञेयास्तत्त्वभूतास्तु ताः कलाः ।
धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेथ् ॥१४०॥
आत्मान्तःकरणे यद्वत्तद्वत्पूजां समारभेथ् ।
धाम प्रोच्चार्य सन्दध्यात्सबाह्याभ्यन्तरं पुनः ॥१४१॥
शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलं ।
धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेथ् ॥१४२॥
अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेथ् ।
उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु ॥१४३॥
प्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेथ् ।
निर्गत्य वन्दयेद्देवं दण्डवत्त्रिः प्रदक्षिणं ॥१४४॥
शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन् ।
शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः ॥१४५॥
नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः ।
नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः ॥१४६॥
आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु ।
प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेथ् ॥१४७॥
उपवेश्य करे दर्भं भैरवेण समर्पयेथ् ।
मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः ॥१४८॥
पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता ।
सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता ॥१४९॥
नाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयं ।
तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृथ् ॥१५०॥
ग्रहणाकर्षणार्थं तु गृह्णन्मुञ्चन्पुनः पुनः ।
दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः ॥१५१॥
शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु ।
सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेथ् ॥१५२॥
मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेथ् ।
हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः ॥१५३॥
शिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः ।
कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः ॥१५४॥
युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः ।
एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु ॥१५५॥
उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणं ।
भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः ॥१५६॥
धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेथ् ।
मन्त्राणां दीपनं कुर्याद्धामाद्यस्त्रावधि क्रमाथ् ॥१५७॥
हुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् ।
प्रणवादिफडन्तेन आहुतीः प्रतिपादयेथ् ॥१५८॥
हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने ।
पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतं ॥१५९॥
मन्त्राः करणभूतास्तु पशुकार्यस्य साधने ।
आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥१६०॥
क्रूरकार्ये तु कर्तव्ये मन्त्रान्सन्दीप्य योजयेथ् ।
क्रूरजात्यनुरूपेण वाचकान्योजयेत्सदा ॥१६१॥
भ्रुकुटीकरालवदनान्वाच्यरूपान्विचिन्तयेथ् ।
स्ॐयजातियुतान्स्ॐये स्ॐयरूपान्विचिन्तयेथ् ॥१६२॥
पाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकं ।
त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकं ॥१६३॥
शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेथ् ।
पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः ॥१६४॥
प्रसारयेद्गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि ।
शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेथ् ॥१६५॥
सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता ।
ओंकारादि स्वनाम्ना तु नमस्कारावसानकं ॥१६६॥
शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेथ् ।
गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेथ् ॥१६७॥
सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः ।
शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः ॥१६८॥
ताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेथ् ।
हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि ॥१६९॥
नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः ।
कदम्बगोलकाकारं स्फुरत्तारकसन्निभं ॥१७०॥
हृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना ।
धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमाथ् ॥१७१॥
द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु ।
संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते ॥१७२॥
व्यापकं भावयित्वा तु कवचेनावगुण्ठयेथ् ।
भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ॥१७३॥
द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे ।
बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ॥१७४॥
पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः ।
चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः ॥१७५॥
मलः कर्म निमित्तं तु नैमित्तिकमतः परं ।
आधाररूपं नैमित्तं शरीरभुवनादिकं ॥१७६॥
निमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः ।
तांश्चावलोकयेत्सूत्रे बन्ध्यबन्धनहेतुतः ॥१७७॥
पाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना ।
स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमाथ् ॥१७८॥
पुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेथ् ।
हुंफ.कारान्तयोगेना- गृह्य संहारमुद्रया ॥१७९॥
धाम्ना तु योजयेत्सूत्रे नमस्कारान्तयोगिना ।
एवं शान्त्यादिकान्पाशान्स्थानात्संगृह्य योजयेथ् ॥१८०॥
भावयेत्त्रिविधान्पाशान्पञ्चतत्त्वाध्वव्यापकान् ।
त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी ॥१८१॥
शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता ।
आधेयग्रह आधारं गृहीतं भावयेत्पशोः ॥१८२॥
गन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेथ् ।
शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयं ॥१८३॥
सन्निधानाय पाशानां अतः पाशांस्तु दीपयेथ् ।
स्वनामजातिफट्कार- धामभिश्च त्रयं त्रयं ॥१८४॥
विश्लेषकरणार्थं तु पाशानां दीपनं भवेथ् ।
दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना ॥१८५॥
सूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमाथ् ।
धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृथ् ॥१८६॥
बन्धने तु प्रयोगोऽयं सूत्रे ग्रन्थीन्प्रदापयेथ् ।
बन्धने परिमाणं च कर्मणो विषयस्य च ॥१८७॥
षट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा ।
पाशान्संस्थाप्य पात्रे तु संपातं जुहुयात्सकृथ् ॥१८८॥
पात्रसम्पुटमध्यस्थान्स्थण्डिले विनिवेदयेथ् ।
नीत्वा समर्पयेत्कुम्भे पाशान्संरक्ष हे विभो ॥१८९॥
दर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेथ् ।
श्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेथ् ॥१९०॥
ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि ।
उत्थाप्य पञ्चगव्यादीन्दद्याद्वै भैरवेण तु ॥१९१॥
गोमयेन शुचौ देशे कार्यं मण्डलकत्रयं ।
एकस्मिन्मण्डले विष्टः पञ्चगव्यं शिशुः पिबेथ् ॥१९२॥
उपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः ।
आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः ॥१९३॥
भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेथ् ।
पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनं ॥१९४॥
अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेथ् ।
आचार्यो जुहुयात्पश्चात्प्रायश्चित्तं शिवेन तु ॥१९५॥
विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि ।
अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद्विशुद्ध्यति ॥१९६॥
पश्चात्सन्तर्पयेद्धोम- सहस्रेण शतेन वा ।
मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनं ॥१९७॥
विशेषपूजनं चार्घं मुद्राबन्धं वरानने ।
स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेथ् ॥१९८॥
निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने ।
रेचकेन तु संगृह्य भैरवं तमनुस्मरन् ॥१९९॥
मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने ।
अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत्पुनः ॥२००॥
तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेथ् ।
कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवं ॥२०१॥
प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत्प्रिये ।
शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेथ् ॥२०२॥
गृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये ।
पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः ॥२०३॥
तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने ।
सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् ॥२०४॥
भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनं ।
कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः ॥२०५॥
ततश्चैव तु निर्गत्य बलिकर्म समारभेथ् ।
बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादराथ् ॥२०६॥
तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेथ् ।
भूता ये विविधाकारा दिव्यभ्ॐआन्तरिक्षगाः ॥२०७॥
पातालतलसंस्थाश्च शिवयागे सुभाविताः ।
ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥२०८॥
स्वाहाकारसमायोगात्तृप्यन्तूच्चारयन्क्षिपेथ् ।
नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमाथ् ॥२०९॥
पूर्वादीशानपर्यन्तं अधश्चोर्ध्वं समन्ततः ।
कोणस्थान्क्षेत्रपालांश्च पतिताञ्छ्वपचानपि ॥२१०॥
बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने ।
सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुं ॥२११॥
सहायैः सहितो वीर एकचित्तः समाहितः ।
प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् ॥२१२॥
पञ्चगव्यं पिबेत्पूर्वं चरुकं दन्तधावनं ।
प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च ॥२१३॥
यागबूमौ स्वपेत्पाश्चाच्छिष्यैः सह वरानने ।
भैरवध्यानयोगेन समाधौ जाग्रदेव वा ॥२१४॥


स्वच्छन्दतन्त्रेऽधिवासपटलस्तृतीयः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:41:55.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भलता-भलताच पसारा आणि झाला म्हातारा

  • आवांक्या बाहेर खटाटोप मांडला म्हणजे तो आवरतां येत नाहीं आणि त्यामुळें वाजवीपेक्षां अधिक कष्ट होऊन अकालीं बार्धक्य येतें. 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.