स्वच्छन्दभैरवतन्त्र - अष्टमः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः ।
भावांशकः स्वभावांशः पुष्पपातांश एव च ॥१॥
मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा ।
देवानुस्मरणं भावः सहजं तं विजानत ॥२॥
स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ।
ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥३॥
रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।
विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥४॥
सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही ।
लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः ॥५॥
सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाय्यथ ।
दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥६॥
गान्धर्वो गायनो नित्यं शिवभक्तो वरानने ।
विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥७॥
कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः ।
रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥८॥
पिशाचांशश्छलान्वेषी वासरे भीरुकातरः ।
अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥९॥
सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा ।
इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥१०॥
स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः ।
भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥११॥
भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः ।
स्वभावांशः समाख्यातः साधकानां हिताय वै ॥१२॥
पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि ।
स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि ॥१३॥
अंशकापादनं देवि कथयामि समासतः ।
वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥१४॥
स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते ।
अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥१५॥
तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेथ् ।
शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकं ॥१६॥
पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे ।
परतत्त्वमभिध्यायन्साधयेन्मनसेप्सितं ॥१७॥
मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितं ।
हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥१८॥
हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणं ।
सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितं ॥१९॥
मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितं ।
आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेथ् ॥२०॥
आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतं ।
यस्मिन्स निपतेद्देवि तमायं परिकल्पयेथ् ॥२१॥
रेखाङ्गुलिगतं तं तु कथयामि समासतः ।
पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥२२॥
तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके ।
अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥२३॥
सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः ।
यस्त्वंशकविशुद्धः स्याद्भैरवोऽत्र वरानने ॥२४॥
तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेथ् ।
यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥२५॥
तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः ।
कथितं सरहस्यं ते गुह्याद्गुह्यतरं परं ॥२६॥
अतस्तन्त्रावतारार्थं कथयामि समासतः ।
अदृष्टविग्रहायातं शिवात्परमकारणाथ् ॥२७॥
ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितं ।
यद्वक्ष्यति---
अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणाथ् ।
ध्वनिरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभं ।
तदेवापररूपेण शिवेन परमात्मना ॥२८॥
मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना ।
पुरुषार्थं विचार्याशु साधनानि पृथक्पृथक् ॥२९॥
लौकिकादिशिवान्तानि परापरविभूतये ।
तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥३०॥
अनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा ।
गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥३१॥
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः ।
तज्ज्ञानमीश्वरेऽदात्तदीश्वरेण शिवेच्छया ॥३२॥
विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादराथ् ।
मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तथ् ॥३३॥
श्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभं ।
तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥३४॥
प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः ।
ममापि च पुरा दीक्षा तथा चैवाभिषेचनं ॥३५॥
श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकं ।
मयापि तव देवेशि साधिकारं समर्पितं ॥३६॥
त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकं ।
ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृतां ॥३७॥
लोके संगृह्य नागानां यक्षाणां परमेश्वरि ।
कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि ॥३८॥
एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकं ।
त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचिथ् ॥३९॥


इति स्वच्छन्दतन्त्रेऽंशकाधिकारोऽष्टमः पटलः समाप्तः

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP