TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः १०

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः १०
तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः ।
तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलं ॥९०१॥
स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभं ।
रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते ॥९०२॥
तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया ।
तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि ॥९०३॥
तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलं ।
सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये ॥९०४॥
वितानाकारसदृशं समन्तात्परिमण्डलं ।
तत्रैव मण्डले देवि त्वीशानः संव्यवस्थितः ॥९०५॥
तस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये ।
तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः ॥९०६॥
सप्तधा सप्तधा सोऽपि स एको बहुधा गतः ।
तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलं ॥९०७॥
नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभं ।
वितानसदृशाकारं समन्तात्परिमण्डलं ॥९०८॥
भीमस्तत्राधिपत्येन एक एवावतिष्ठते ।
तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महथ् ॥९०९॥
व्यापकं सर्वलोकानां परापरगतं प्रिये ।
तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते ॥९१०॥
सहस्रादित्यसंकाशं दीप्यमानं समन्ततः ।
वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलं ॥९११॥
रुद्रो ह्यधिपतिस्तत्र त्वेक एवावतिष्ठते ।
सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने ॥९१२॥
तस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते ।
चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलं ॥९१३॥
अधिपतिस्तु महादेव एक एवावतिष्ठते ।
तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः ॥९१४॥
असंख्याताः सहस्राणि कल्पे कल्पी विनिर्गताः ।
तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते ॥९१५॥
चन्द्रकोटिसमच्छायं समन्तात्परिमण्डलं ।
वितानवत्स्थितं दिव्यं उग्रेशसमधिष्ठितं ॥९१६॥
संरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु ।
यजमानसहस्राणि कल्पे कल्पे स्थितानि हि ॥९१७॥
ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदिताथ् ।
वेदयज्ञाश्च विविधा ब्रह्मणोऽनन्तवर्त्मनः ॥९१८॥
तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च ।
तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः ॥९१९॥
इत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः ।
अपरा ब्रह्मणोऽण्डं वै व्याप्य सर्वं व्यवस्थिताः ॥९२०॥
एभ्यः परतरं चापि मण्डलं करणात्मकं ।
शुक्लरक्तासितं पीतं हरितं चापि वर्णतः ॥९२१॥
पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके ।
कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनां ॥९२२॥
वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः ।
एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभं ॥९२३॥
तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमं ॥९२४॥
विषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः ।
स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः ॥९२५॥
एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभं ।
विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलं ॥९२६॥
तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनां ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥९२७॥
एभ्यः परतरं चापि स्ॐयं सोमस्य मण्डलं ।
तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः ॥९२८॥
चित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकं ।
तस्याधिपो महातेजाश्चन्द्रमाः स्ॐयतेजसा ॥९२९॥
तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महथ् ।
जपाकुसुमसंकाशं अरुणादित्यसंनिभं ॥९३०॥
पूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलं ।
तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः ॥९३१॥
सधूमोऽग्निरिवासौ वै अहंकारः प्रवर्तते ।
अन्तःकरणमात्मस्थं येनेदं रंजितं जगथ् ॥९३२॥
मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति ।
तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा ॥९३३॥
छगलाण्डादयो देवि पूर्वं ते कथिता मया ।
अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते ॥९३४॥
सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसं ।
अष्टानां देवयोनीनां अत्रैव भुवनं शृणु ॥९३५॥
ककुभं नाम भुवनं सन्ध्यारुणसमप्रभं ।
मानसीभिस्तु तत्स्त्रीभिर्मुदिताभिः समाकुलं ॥९३६॥
स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः ।
दशकोटिसहस्राणि तेषां तत्र निवासिनां ॥९३७॥
स्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान् ।
सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः ॥९३८॥
कुण्डलाभरणोपेतो हारकेयूरभूषितः ।
किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः ॥९३९॥
परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा ।
नानारूपधरैर्दिव्यैर्दिव्याभरणभूषितैः ॥९४०॥
दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः ।
परिवृतो महातेजा गणैरिव महागणः ॥९४१॥
अतः परं प्रवक्ष्यामि राक्षासं भुवनं महथ् ।
कोकिलाकण्ठसदृशं नीलजीमुतसंनिभं ॥९४२॥
तस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते ।
करालो राक्षसेशो वै जात्यञ्जननिभो महान् ॥९४३॥
किरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः ।
जात्यञ्जननिभः श्रीमान्दावाग्निरिव पर्वते ॥९४४॥
दशकोटिसहस्राणि मुदिता नाम राक्षसाः ।
भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः ॥९४५॥
अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महथ् ।
जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलं ॥९४६॥
भोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलं ।
तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराठ् ॥९४७॥
तप्तकाञ्चनवर्णाभो मकुटादिविभूषितः ।
शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः ॥९४८॥
तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव ।
अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महथ् ॥९४९॥
पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि ।
तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये ॥९५०॥
गन्धर्वदेवाधिपति गन्धमादनसन्निभः ।
तप्तजाम्बूनदनिभस्तरुणादित्यसप्रभः ॥९५१॥
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ।
दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः ॥९५२॥
मनः शिलाभङ्गनिभैर्हरितालनिभैस्तथा ।
स्वकान्ता नाम गन्धर्वाश्चित्रमाल्यानुलेपनाः ॥९५३॥
चित्राम्बरधराः सर्वे चित्राभरणभूषिताः ।
तस्मात्परतरं वक्ष्ये स्थानं ऐन्द्रं च पार्वति ॥९५४॥
बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदं ।
शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभं ॥९५५॥
तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।
विभूतिर्नाम भगवान्महेन्द्रो भुवनेश्वरः ॥९५६॥
चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः ।
शुक्लाम्बरधरः श्रीमाञ्च्छुक्लमाल्यानुलेपनः ॥९५७॥
ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः ।
हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः ॥९५८॥
भूतिजा नाम वै देवा विभूत्या परया युताः ।
किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः ॥९५९॥
दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः ।
तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः ॥९६०॥
मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभं ।
शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसं ॥९६१॥
अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः ।
शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः ॥९६२॥
कुण्डलैर्दीप्तिसंकाशैर्भूषितस्तु विराजते ।
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ॥९६३॥
तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः ।
दिव्याः स्ॐयास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः ॥९६४॥
दशकोटिसहस्राणि तेषां वै स्ॐयतेजसां ।
अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महथ् ॥९६५॥
तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः ।
विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः ॥९६६॥
विश्वरूपपरैर्देवैर्विश्वात्मा परिवारितः ।
दशकोटिसहस्राणि विश्वानां भूरितेजसां ॥९६७॥
परिवार्य महात्मानं शोभने पर्युपासते ।
ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभं ॥९६८॥
पितामहो यत्र देवः शुक्लपद्मस्थस्ॐयदृक् ।
शुक्लाम्बरधरः श्रीमाञ्छुक्लमाल्यानुलेपनः ॥९६९॥
शुक्लयज्ञोपवीती च महाहारविभूषितः ।
दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः ॥९७०॥
ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् ।
पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च ॥९७१॥
स्ॐयं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये ।
एतानि सुरयोनीनां स्थानान्येव पुराणि तु ॥९७२॥
अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि ।
परमेशनियोगाच्च चोद्यमानाश्च मायया ॥९७३॥
नियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः ।
व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा ॥९७४॥
अंशेनैव वरारोहे न त्यजन्ति निकेतनं ।
पुर्यष्टकेन्द्रियैः सार्धं आत्मा मन्त्रैर्विशोधयेथ् ॥९७५॥
पञ्चाष्टकं मूर्तयोऽष्टौ बुद्धितत्त्वमनुक्रमाथ् ।
विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परं ॥९७६॥
संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः ।
मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ॥९७७॥
नीलोत्पलदलाभानि तेषां वै भुवनानि तु ।
एकैकस्य परीवारः कोटिर्दशसहस्रकं ॥९७८॥
क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महथ् ।
बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः ॥९७९॥
सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च ।
सहस्रैः पञ्चदशभिः परिवारोऽभिधीयते ॥७८०॥
अग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः ।
कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु ॥९८१॥
अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमं ।
अकृतं च कृतं चैव रैभवं ब्राह्ममेव च ॥९८२॥
वैष्णवं त्वथ क्ॐआरं ॐअं श्रैकण्ठमेव च ।
क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः ॥९८३॥
ततः साक्षाद्भगवती जगन्माता व्यवस्थिता ।
उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा ॥९८४॥
तप्तजाम्बूनदनिभा ह्युदयादित्यसप्रभा ।
महापीठे मणिमये सिंहाष्टकयुते शुभे ॥९८५॥
शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते ।
दिव्यकुण्डलिनी देवी महाहारविभूषिता ॥९८६॥
विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी ।
जया च पद्मगर्भाभा सर्वालंकारभूषिता ॥९८७॥
नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता ।
सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा ॥९८८॥
परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः ।
त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥९८९॥
मानस्यो दिव्यनार्यस्तास्तां सदा पर्युपासते ।
विमानकोटिरेका च रुद्राणां भूरितेजसां ॥९९०॥
ॐआ इति समाख्याताः वैमाना इति तेऽन्यथा ।
उपासते तु तां देवीं मातरं तनया इव ॥९९१॥
सावतीर्याण्डमध्ये तु मया सार्धं वरानने ।
अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी ॥९९२॥
कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके ।
तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ॥९९३॥
पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका ।
विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा ॥९९४॥
आनन्दा नवमे कल्पे दशमे वामलोचना ।
एकादशे वरारोहा द्वादशे च सुमङ्गला ॥९९५॥
कल्पे त्रयोदशे देवि महातनुरुदाहृता ।
कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता ॥९९६॥
भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता ।
सहस्रधारा सप्तदशे सती चाष्टदशे पुरा ॥९९७॥
चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा ।
अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा ॥९९८॥
अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता ।
पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता ॥९९९॥
त्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरं ।
मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये ॥१०००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:46:29.0470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कक्षीवत् II.

  • n. भीष्म से मिलने आया हुआ ऋषि [भा.१.९] 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.