TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः १

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः १
अध्वायं तु महादेव सूचितो न तु वर्णितः ।
कथयस्व प्रसादेन साधकानां हिताय तं ॥१॥
अध्वानं संप्रवक्ष्यामि साधकानां हिताय वै ।
अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः ॥२॥
कोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु ।
नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकं ॥३॥
कोटीनां सप्ततिर्लक्षाण्ययुतानां सहस्रकं ।
अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च ॥४॥
पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः ।
तेषां वै नायको ह्यत्र त्वनन्तः परमेश्वरः ॥५॥
तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह ।
शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया ॥६॥
कोटिकोटिपरीवारास्त्वनौपम्यगुणान्विताः ।
दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः ॥७॥
सूर्यायुतप्रतीकाशास्तोरणाट्टालमण्डिताः ।
न तत्र दिःखितः कश्चिन्मुक्त्वा दिःखमनङ्गजं ॥८॥
रमन्ते तत्र वै वीरा नारीभिः सह लीलया ।
भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ॥९॥
भुवनान्येवमुक्तानि भुवनान्तरवासिनां ।
सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते ॥१०॥
अथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः ।
अधिकारं प्रकुरुते तदाज्ञानुविधायकः ॥११॥
अनेकरुद्रकोटीभिरुपेतस्तिष्ठति प्रिये ।
अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितं ॥१२॥
योजनानां वरारोहे यथा भवति तच्छृणु ।
अव्यक्ताद्दशभिर्भागैर्महान्स्थूलो विभाव्यते ॥१३॥
द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते ।
भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषं ॥१४॥
भूतादेर्यद्दशगुणं अणीयो दृश्यते रजः ।
जालान्तरगते भानौ परमाणुः स उच्यते ॥१५॥
अष्टानां परमाणूनां समवायस्तु यो भवेथ् ।
त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते ॥१६॥
त्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते ।
वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता ॥१७॥
लिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेथ् ।
अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलं ॥१८॥
द्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते ।
तालद्वयं भवेद्धस्तश्चतुर्विंशतिकाङ्गुलः ॥१९॥
चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च ।
धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते ॥२०॥
क्रोशद्वयेन गव्यूतिर्गव्यूती द्वे तु योजनं ।
अनेन परिमाणेन योजनानां यशस्विनि ॥२१॥
सिंहासनं महादीप्तं सहस्रद्वयविस्तृतं ।
सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते ॥२२॥
तिष्ठते तत्र देवेशः कालो द्वादशलोचनः ।
सितरक्तपीतकृष्णश्चतुर्वक्त्रो महाबलः ॥२३॥
रक्ताङ्गोऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः ।
वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः ॥२४॥
ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः ।
ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः ॥२५॥
दशबाहुर्महात्मा वै खड्गखेटकधारकः ।
शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा ॥२६॥
कपालखट्वाङ्गधरो वरदाभयपाणिभृथ् ।
दशयोजनलक्षाणि शरीरं भाति भास्वरं ॥२७॥
कोटियोजनमानेन भुवनं चास्य जाज्वलं ।
संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः ॥२८॥
नानारूपविमानैश्च प्रज्वलद्भिः समावृतं ।
ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः ॥२९॥
तस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने ।
न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः ॥३०॥
अतः परं वरारोहे नरकाः परिकीर्तिताः ।
पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः ॥३१॥
प्रधानं संप्रवक्ष्यामि शतं तत्र वरानने ।
चत्वारिंशत्समोपेतं कथितं नामतः शृणु ॥३२॥
अवीची रौरवश्चैव महारौरव एव च ।
तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ ॥३३॥
पद्मश्चैव महापद्मः कालसूत्रस्तथैव च ।
सूचीमुखः महाकायः क्षुरधारोऽसिपर्वतः ॥३४॥
असिस्तालो द्रुमश्चैव द्रुममस्तक एव च ।
द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च ॥३५॥
अम्बरेषोऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च ।
वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ ॥३६॥
सन्दंशः वज्रकायश्च मेदकश्च वरानने ।
उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः ॥३७॥
असृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा ।
संग्रहश्च कपालश्च तप्तकवच एव च ॥३८॥
गजपादो महावक्त्रः कूर्माख्योनकुलस्तथा ।
पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च ॥३९॥
अनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा ।
पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः ॥४०॥
सुतप्तो जतुपङ्कश्च घोररूपोऽतिदारुणः ।
अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः ॥४१॥
उलूकः परशुर्दण्डः काकाख्यश्च तथैव च ।
सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च ॥४२॥
अश्वास्यो गोपलादश्च अलोको दहनस्तथा ।
श्ववक्त्रोऽथ दवाग्निश्च क्षारकूपस्तथा तमः ॥४३॥
अहीनां निचयश्चैव तप्तपाषाण एव च ।
विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा ॥४४॥
कृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा ।
कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ ॥४५॥
मुसलः अनातपश्चैव यमलाद्रिस्तथैव च ।
क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा ॥४६॥
निगडो लोहरज्जुश्च लोहपञ्जर एव च ।
तनुभेदश्चोरगश्च वृश्चिकः काल एव च ॥४७॥
वज्रकणः कटाहश्च पट्टः संकुल एव च ।
घोरश्चाजगरश्चैव महावैतरणी तथा ॥४८॥
गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः ।
कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः ॥४९॥
चिपिटः खञ्जरीटश्च शवलो नील एव च ।
काकः कङ्कुममुखश्चैव शिवारावस्ततः परः ॥५०॥
गजनादो महानादः सिंहनादस्तथैव च ।
महाग्राहस्तथा नक्रो मूषिकाकीटसागरः ॥५१॥
अवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा ।
त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता ॥५२॥
कटङ्कटश्चविख्यातः तप्तवालुक एव च ।
एतेऽतिघोरा नरकास्त्रिकोणाः परिकीर्तिताः ॥५३॥
असत्कर्मरतानां च प्राणिनां पातनाय तु ।
निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा ॥५४॥
निर्दयाधमजातीनां परहिंसारतात्मनां ।
परदाररतानां च शिवशास्त्रस्य दूषिणां ॥५५॥
देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनां ।
गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनां ॥५६॥
सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनां ।
दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसां ॥५७॥
नरकास्तु समाख्यातास्त्वकर्मपथवर्तिनां ।
शुभकर्मरता लोका नरके न पतन्ति हि ॥५८॥
तत्समासेन वक्ष्यामि यथावदनुपूर्वशः ।
सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता ॥५९॥
दयालौल्यं च यस्यासौ नरकान्नाधिगच्छति ।
शान्तो दान्तः सुहृष्टात्मा त्वनहंकारवान्समः ॥६०॥
अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः ।
अमात्सर्यममानित्वं शिवभक्तिरचापलं ॥१॥
जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनं ।
व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता ॥६२॥
सर्वत्र श्रद्दधानत्वं आर्जवं ह्रीर्मनस्विता ।
तेजः प्रशान्तिः संतोषोऽप्रियवाक्यविवर्जनं ॥३॥
समीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः ।
अदम्भित्वममायित्वं अकल्को ज्ञानशीलता ॥६४॥
पितृदेवार्चने भक्तिर्गोब्राह्मण शरण्यता ।
अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनं ॥५॥
एकान्ते च रतिर्ध्यानं आत्मन्येव च तुष्टता ।
अव्यापारः परार्थेषु औदासीन्यमनागसः ॥६६॥
अक्रोधित्वमनालस्यां एते धर्माः प्रकीर्तिताः ।
यस्त्वेतान्भजते भावान्सोऽमृतत्वाय कल्पते ॥६७॥
नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीर्तिताः ।
शिवाचाररतानां तु धार्मिकाणां हि देहिनां ॥८॥
तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेथ् ।
यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषं ॥९॥
स याति परमांल्लोकान्नरकांश्च न पश्यति ।
यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी ॥७०॥
अकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति ।
जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितं ॥७१॥
तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरं ।
स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेथ् ॥७२॥
एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः ।
इत्येष तान्त्रिको न्यायः कथितस्तु समासतः ॥७३॥
अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते ।
शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः ॥७४॥
परतत्त्वविदो ये तु न तेषां दुरितं भवेथ् ।
एतेषां नरकाणां तु प्रधानानि निबोध मे ॥७५॥
पञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः ।
चत्वारिंशच्छतंह्येतत्समासात्परिकीर्तितं ॥७६॥
तैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः ।
पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः ॥७७॥
चत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने ।
त्रिभिः शुद्धैस्तु द्वात्रिंशच्छुद्धा एव भवन्ति हि ॥७८॥
तेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि ।
अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः ॥७९॥
महारौरवराजश्च स्थानं तेषां निबोध मे ।
अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमं ॥८०॥
व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः ।
नरकैकादशगतं अवीचिं शोधयेत्प्रिये ॥८१॥
आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेथ् ।
महारौरवसंज्ञं चाप्येवमेव न संशयः ॥८२॥
पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने ।
अवीचिः क्रिमिनिचयो नदी वैतरणी तथा ॥८३॥
लोहश्च शल्मलिश्चैवाप्यसिपर्वत एव च ।
सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा ॥८४॥
तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च ।
अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयतां ॥८५॥
अस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः ।
वसामिश्रोह्ययस्तुण्डस्त्रपुलेपः प्रकीर्तितः ॥८६॥
कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च ।
तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा ॥८७॥
अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः ।
एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः ॥८८॥
महारौरवराजे च अत ऊर्ध्वं निबोध मे ।
कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ ॥८९॥
पाशोऽम्बरेषकश्चैव अयःपट्टस्तथैव च ।
दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः ॥९०॥
महारौरव एतेषां उपरिष्टाद्व्यवस्थितः ।
अवीचौ कृमिनरकान्कुम्भीपाके सुदारुणान् ॥९१॥
महारौरवकेऽमेध्यानन्तर्भूतान्विचिन्तयेथ् ।
द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे ॥९२॥
नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः ।
लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमाथ् ॥९३॥
एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने ।
योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः ॥९४॥
नवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितं ।
तस्योपरिष्टात्पातालान्कथयामि समासतः ॥९५॥
आभासं वरतालं च शर्करं च गभस्तिमथ् ।
महातलं च सुतलं रसातलमतः परं ॥९६॥
सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितं ।
आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते ॥९७॥
सहस्रनवकोत्सेधं एकैकं तु पुरोत्तमं ।
एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया ॥९८॥
छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु ।
सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु ॥९९॥
हेमप्राकारशिखरैश्छत्रध्वजसमाकुलैः ।
किङ्किणीजालमुखरैस्तोरणाट्टालमण्डितैः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:56:09.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टचका

  • m  A prick or puncture. A lightsounding rap or touch with a finger,&c. A jolt to a cart. 
  • पु. १ एक लांकडी खेळणें ( हें लांकडी गोटयांच्या घडाचें असतें ). २ टोंच ; टोंचणी ; टोंचा . ३ बोटानें किंवा गोटीनें हळूच मारलेली टिचकी , धक्का इ० ; टच शब्द होईल असा प्रहार . ( क्रि० मारणें ). ४ ( खडकाळ रस्त्यांतून जातांना ) गाडीला बसलेला आंचका , धक्का . ५ एकदम भळभळां स्त्राव ( रक्त , पू , रस , अश्रू यांचा टच अशा टिचकणें , मारणें याच्या आवाजावरून ) ६ तुणतुण्यावरील लावण्या म्हणण्यांतील झोंक . ७ खटका . [ घ्व . टच ] 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site