TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - प्रथमः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


प्रथमः पटलः
कैलासशिखरासीनं भैरवं विगतामयं ।
चण्डनन्दिमहाकाल- गणेशवृषभृङ्गिभिः ॥१॥
कुमारेन्द्रयमादित्य- ब्रह्मविष्णुपुरःसरैः ।
स्तूयमानं महेशानं गणमातृनिषेवितं ॥२॥
सृष्टिसंहारकर्तारं विलयस्थितकारकं ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनं ॥३॥
मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीथ् ।

श्रीदेव्युवाच
यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर ॥४॥
शतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितं ।
चतुष्पीठं महातन्त्र चतुष्टयफलोदयं ॥५॥
न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः ।
अल्पायुषोऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर ॥६॥
तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरं ।
भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः ॥७॥
कीदृशं वै गुरुं विद्यात्साधकं च महेश्वर ।
भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीं ॥८॥
मन्त्रांश्चैव समासेन कालं चैव समासतः ।
यजनं हवनं चैव अधिवासं रजांसि च ॥९॥
पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलं ।
दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च ॥१०॥
कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर ।

श्रीभैरव उवाच
साधु साधु महाभागे यत्त्वया परिचोदितं ॥११॥
अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते ।
आदौ तावत्परीक्षेत आचार्यं शुभलक्षणं ॥१२॥
आर्यदेशसमुत्पन्नं सर्वावयवभूषितं ।
शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदं ॥१३॥
देवकर्मरतं शान्तं सत्यवादिदृढव्रतं ।
सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतं ॥१४॥
त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितं ।
ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः ॥१५॥
क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः ।
केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः ॥१६॥
अतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः ।
तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः ॥१७॥
अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः ।
शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः ॥१८॥
देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः ।
गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः ॥१९॥
ईदृशो वै भवेच्छिष्.यः सोऽत्रानुग्रहभाजनं ।
मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः ॥२०॥
कामी च लोभसम्पन्नः शिवभक्तिविवर्जितः ।
दूषको गुरुशास्त्राणां दीक्षितोऽपि न मुक्तिभाक् ॥२१॥
सन्तापं क्रोधने विन्द्याच्चपले चपलाः श्रियः ।
मन्त्रसिद्धिं हरेत्क्षुद्र आचार्यस्तु वरानने ॥२२॥
दयाहीनेन दौर्भाग्यं अदक्षे दस्युपीडनं ।
केकरेण भवेद्व्याधिर्दन्तुरः कलिकारकः ॥२३॥
काणो विद्वेषजननः खल्वाटश्चार्थनाशनः ।
शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ॥२४॥
दीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः ।
कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः ॥२५॥
क्षयान्वितेन मृत्युः स्यात्तार्किके वधबन्धनं ।
दाम्भिकः पापजनको वेदितव्यो वरानने ॥२६॥
मन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः ।
सर्वे ते न शुभा देवि इह लोके परत्र च ॥२७॥
सितरक्तपीतकृष्णां भूमिं प्लवविशोधितां ।
विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकां ॥२८॥
सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालितां ।
सुधूपामोदबहलां वितानोपरिशोभितं ॥२९॥
आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः ।
सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः ॥३०॥
प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः ।
मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमाथ् ॥३१॥
आदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः ।
कवर्गश्चटवर्गौ च तपयाः शस्तथैव च ॥३२॥
संहारेण समोपेतौ योनिर्वै भैरवी स्मृता ।
मातृकाभैरवं देवं अवर्गेण प्रपूजयेथ् ॥३३॥
भैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेथ् ।
अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा ॥३४॥
चवर्गे तु महेशानी टवर्गे तु कुमारिका ।
नारायणी तवर्गे तु वाराही तु पवर्गिका ॥३५॥
ऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका ।
एताः सप्त महामातृः सप्तलोकव्यवस्थिताः ॥३६॥
सर्वान्कामानवाप्नोति देव्येवं भैरवोऽब्रवीथ् ।
अन्तेऽस्य उद्धरेन्मन्त्रान्यथाक्रमनियोगतः ॥३७॥
त्रयोदशं बिन्दुयुतं अनन्तासनमुत्तमं ।
अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगं ॥३८॥
ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेथ् ।
मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेथ् ॥३९॥
अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभां ।
तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेथ् ॥४०॥
ओंकारमुच्चरेत्पूर्वं अघोरेभ्यो अनन्तरं ।
थ घोरेभ्यो समालिख्य ततोऽन्यत्तु समालिखेथ् ॥४१॥
घोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेथ् ।
सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च ॥४२॥
रूपेभ्यश्च समालिख्य नमस्कारावसानकं ।
मन्त्रराजः समाख्यातः अघोरः सुरपूजितः ॥४३॥
सकृदुच्चारितो देवि नाशयेत्सर्वकिल्बिषं ।
जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितं॥ ४४॥
स्मरणान्नाशयेद्देवि तमः सूर्योदये यथा ।
यकारादिवकारान्ताः संहारेण समायुताः ॥४५॥
बिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च ।
ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि ॥४६॥
पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरं ।
अपरं कल्पयित्वा तु कलाभेदेन विन्यसेथ् ॥४७॥
पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा ।
ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणं॥ ४८॥
एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेथ् ।
पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेथ् ॥४९॥
हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा ।
पृष्ठे चोरसि विन्यसेदघोरेण यथाक्रमं ॥५०॥
गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि ।
जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि ॥५१॥
विन्यसेच्चैव वामेन शरीरे तु यथाक्रमं ।
पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ ॥५२॥
सद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमं ।
तासां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥५३॥
तारा सुतारा तरणी तारयन्ती सुतारणी ।
ईशानस्य कला पञ्च निरञ्जनपदानुगा ॥५४॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
पुरुषस्य कला ह्येताश्चतस्रः परिकीर्तिताः ॥५५॥
तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा ।
अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि ॥५६॥
रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया ।
ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा ॥५७॥
मनोन्मनी कला ह्येता वामदेवे त्रयोदश ।
सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः ॥५८॥
सद्योजातकलास्त्वेवं अष्टौ सम्परिकीर्तिताः ।
पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमं ॥५९॥
नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेथ् ।
विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान्शृणु प्रिये ॥६०॥
अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकं ।
घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेथ् ॥६१॥
सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेथ् ।
नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः ॥६२॥
ओंकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरं ।
नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि ॥६३॥
विद्याङ्गानि विजानीयात्नामानि च निबोध मे ।
सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा ॥६४॥
दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च ।
क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे ॥६५॥
चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितं ।
क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका ॥६६॥
शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकं ।
ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा ॥६७॥
क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितं ।
इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका ॥६८॥
हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः ।
बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः ॥६९॥
अस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः ।
शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयं ॥७०॥
सान्तं दीर्घस्वरैः षड्भिर्भिन्नजातिविभेदितं ।
हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेथ् ॥७१॥
ओंकारो दीपनस्तेषां अन्ते जातिं प्रकल्पयेथ् ।
नमः स्वाहा तथा वौषतुं वषट्फट्क्रमेण तु ॥७२॥
एष भैरवराजस्तु सर्वकामार्थसाधकः ।
हर ईम अकारश्च ङादिरोस्वरसंयुतः ॥७३॥
यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः ।
लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः ॥७४॥
षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः ।
अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी ॥७५॥
भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता ।
हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः ॥७६॥
बिन्दुनादसमायोगात्कपालेशः प्रकीर्तितः ।
सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः ॥७७॥
शिखिवाहनसंज्ञस्तु ज्ञातव्योऽसौ वरानने ।
संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः ॥७८॥
क्रोधराजः समाख्यातः - - - - - - - - ।
- - - - - - - - तथान्यं कथयामि ते ।
ञादिः षष्ठस्वरोपेतस्त्रिपदेन समायुतः ॥७९॥
बिन्दुमस्तकसम्भिन्नो विकरालो वरानने ।
सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतोऽप्यधः ॥८०॥
चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः ।
मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः ॥८१॥
येनेदं तु निजं सर्वं जगत्स्थावरजङ्गमं ।
हररादिसमायुक्तः ऊकाराधः सबिन्दुकः ॥८२॥
मेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः ।
क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः ॥८३॥
सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः ।
क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः ॥८४॥
भान्तो वादिर्लकारान्तो राद्योऽधो रुद्रयोजितः ।
बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः ॥८५॥
विद्याराजः समाख्यातो महापातकनाशनः ।
भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः ॥८६॥
लोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् ।
नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेथ् ॥८७॥

इति स्वच्छन्दतन्त्रे मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:38:35.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कैकड

  • कीकट पहा . ' आणि देश कैकट फताकाळा । ' - यथादी १७ . २३५ . - वि . १ भयंकर ; वाईट ; किड्यांचा ( देश ) २ मगधदेशासंबंधी ( मगधामध्यें म्लेंच्छाचें ठाणें बसलुयामुळें तो धर्मकृत्यास अयोग्य असा मानला गेला आहे .) ' मग म्लेंच्छांचें वसौटे । दांगाणे हन कैकटे । - ज्ञा . १७ . २९४ . ( सं . कीकट ) 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site