TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - नवमः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


नवमः पटलः
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमं ।
यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥१॥
महाभैरवदेवस्य क्रीडमानस्य भामिनि ।
सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥२॥
कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनं ।
तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभं ॥३॥
चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणं ।
बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनं॥ ४॥
स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितं ।
सर्पहारकृताटोपं सर्पकङ्कणनूपुरं ॥५॥
सिंहचर्मपरीधानं सर्पमेखलमण्डितं ।
गजचर्मावृतपटं शशाङ्ककृतशेखरं ॥॥
पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनं ।
कपालमालाभरणं खड्गखेटकधारिणं ॥७॥
पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितं ।
कपालखट्वाङ्गधरं वरदाभयपाणिकं ॥८॥
भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरं ।
ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभं ॥९॥
एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेथ् ।
स्मरणान्नाशयेद्देवः पापसंघातमुल्बणं ॥१०॥
अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः ।
पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुं ॥११॥
तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तराथ् ।
पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे ॥१२॥
पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते ।
तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥१३॥
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकं ।
सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः ॥१४॥
पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने ।
चतुर्द्वारसमोपेतं अष्टपत्रं सकर्णिकं ।
मध्ये पद्मं समालिख्य केसरैरुपलक्षितं ॥१५॥
द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनं ।
एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलं ॥१६॥
चतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेथ् ।
मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववथ् ॥१७॥
भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।
केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः ॥१८॥
शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः ।
परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥१९॥
प्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु ।
तमेव सकलं देवं स्वच्छन्दं परमेश्वरं ॥२०॥
यत्तत्परमनिर्भासं अनामयमरूपकं ।
तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा ॥२१॥
वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेथ् ।
स्थापनं संनिधानं च निरोधार्धादिपूजनं ॥२२॥
सर्वं तेनैव कर्तव्यं उक्तानुक्तं वरानने ।
मध्यस्थं भैरवं पूज्यं अङ्गषट्कसमन्वितं ॥२३॥
ततः पत्रस्थिता देवीर्द्वात्रिंशार्णैर्निवेशयेथ् ।
पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः ॥२४॥
तासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया ।
अरुणा घोषा देवी च रेवती भोगदायिका ॥२५॥
स्थापनी घोरसंज्ञा च रक्षा भारभरेति च ।
घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥२६॥
भयहानिस्तु चण्डा वै सर्वदा च तथा वरा ।
तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥२७॥
रौद्री च भ्रामणी चैव नागिनी च मनोहरा ।
स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥२८॥
भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमाथ् ।
प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥२९॥
सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना ।
हेमाभं प्राक्चतुष्कं तदिन्द्रचापसमप्रभं ॥३०॥
चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितं ।
कपालमालाभरणं प्रहसत्तु विचिन्तयेथ् ॥३१॥
आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेथ् ।
दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणं ॥३२॥
नीलमिन्दीवराभासं नैरृतं खड्गहस्तकं ।
श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेथ् ॥३३॥
धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलं ।
उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥३४॥
स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकं ।
एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेथ् ॥३५॥
वत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेथ् ।
महेन्द्रे मलये सह्ये पारियात्रेऽर्बुदे तथा ॥३६॥
विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये ।
गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने ॥३७॥
गङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः ।
अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥३८॥
सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे ।
येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः ॥३९॥
तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः ।
वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः ॥४०॥
शाकभक्षः फलाहारी नीवाराद्यशने रातः ।
त्रिकालपूजानिरतोऽथाग्निकार्यपरायणः ॥४१॥
भावितात्मा महासत्त्वो रक्षायाश्च विधानवीथ् ।
तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरं॥ ४२॥
कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ।
सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परं॥ ४३॥
देवयोन्यष्टकं चैव प्रधानपुरुषान्तकं ।
नियतिः कालतत्त्वं च रागो विद्या कला तथा ॥४४॥
माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरं ।
सर्वं सिद्ध्यत्यनायासान्मन्त्रराजप्रब्भावतः ॥४५॥
पूर्वोक्तं कर्म वै क्षिप्रं अधमं मध्यमोत्तमं ।
साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥४६॥
अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितं ।
जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥४७॥
पूजयेत्पूर्वविधिना जपहोमार्चने रतः ।
ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरं॥ ४८॥
प्राप्नोति चिन्तितान्कामान्देवि नास्त्यत्र संशयः ।
अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥४९॥
तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु ।
द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥५०॥
नाभिकेसरसंयुक्तं सुसमं तु वरानने ।
गोरोचनां तु संगृह्य सिद्धालक्तकसंयुतां ॥५१॥
दूर्वाकाण्डेन देवेशि हरितेन समालिखेथ् ।
विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितं ॥५२॥
शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेथ् ।
कषमध्ये वरारोहे नयनाद्यन्तरोधितं ॥५३॥
ईकारवेष्टितं कृत्वा अरकस्था निवेशयेथ् ।
पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेथ् ॥५४॥
भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेथ् ।
त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥५५॥
ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने ।
इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेथ् ॥५६॥
वेष्टयेच्चैव तद्भूर्जं अरन्ध्रं निर्व्रणं समं ।
पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने ॥५७॥
सिक्थेन मुटयेत्पश्चात्क्षौद्रमध्ये निधापयेथ् ।
यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये ॥५८॥
अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेथ् ।
तस्य मृत्युर्न जायेत इत्येवं भैरवोऽब्रवीथ् ॥५९॥
कपालीशस्य गर्भे तु नाम यस्य समालिखेथ् ।
भूर्जपत्रे वरारोहे रोचनाया रसेन तु ॥६०॥
ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः ।
वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते ॥६१॥
शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेथ् ।
अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेथ् ॥६२॥
तस्य वै जायते दाहः फट्काराद्यन्तरोधितं ।
ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि ॥६३॥
तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा ।
क्रोधराजनिरुद्धं तु श्मशानपटमध्यगं ॥४॥
श्मशानादलिना लेख्यं विषरक्तान्वितेन तु ।
यस्य नाम वरारोहे हुंफट्कारविदर्भितं ॥५॥
मारयेतिसमायोगात्क्रूरजातिसमन्वितं ।
म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः ॥६६॥
विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः ।
साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः ॥६७॥
न क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेथ् ।
मन्मथेन युतं कृत्वा साध्यनाम वरानने ॥६८॥
ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितं ।
अमुकोऽत्र वरारोहे तद्दिशोऽभिमुखः स्थितः ॥६९॥
अमुकस्य वशं यातु जपहोमौ समाचरेथ् ।
सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः ॥७०॥
मेघनादावसाने तु नाम यस्य समालिखेथ् ।
यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितं ॥७१॥
प्रेतस्थाने निधाप्यैतद्भैरवं तत्र पूजयेथ् ।
अक्षपुष्पैर्वरारोहे तद्दिशोऽभिमुखः स्थितः ॥७२॥
तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः ।
सोमराजेन देवेशि आदिमध्यान्तसंयुतं ॥७३॥
नाम यस्य समालिख्य वषड्जातिसमन्वितं ।
संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥७४॥
सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च ।
असाध्यं साधयत्याशु धनं च विपुलं लभेथ् ॥७५॥
पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकां ।
संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्वितां ॥७६॥
उन्मत्तो जायते साद्यो होमेन च जपेन च ।
मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥७७॥
भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समं ।
तस्मिन्समालिखेत्पद्मं अष्टपत्रं सकर्णिकं ॥७८॥
तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेथ् ।
संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि ॥७९॥
प्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेथ् ।
पत्राष्टकेऽप्यघोरस्य नामाधस्तात्समालिखेथ् ॥८०॥
वक्तव्यं देव संरक्ष शरणं त्वामुपागतं ।
आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरं ॥८१॥
जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेथ् ।
पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेथ् ॥८२॥
मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेथ् ।
जायते परमा शान्तिः पुनरन्यन्निबोध मे ॥८३॥
जुंसः संपुटमध्यस्थं प्रणवोभयसंयुतं ।
नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये ॥८४॥
परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते ।
भूर्जपत्रं समादाय रोचनाया वरानने ॥८५॥
मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेथ् ।
तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु ॥८६॥
पुनर्गर्भे समालिख्य साध्यनाम वरानने ।
ध्रुवेण वेष्टयेत्पश्चाद्वकारेण ततः प्रिये ॥८७॥
सकारं च क्षकारं च लिखेच्च तदनन्तरं ।
पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते ॥८८॥
अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीं ।
स्वच्छन्दसहितां देवि प्रणवेनादियोजितां ॥८९॥
वषड्जातिसमोपेतां कर्पूरक्षोदचर्चितां ।
गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥९०॥
जायते परमा शान्तिर्नात्र कार्या विचारणा ।
अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेथ् ॥९१॥
तस्य व्याधिर्न जायेत इत्येवं भैरवोऽब्रवीथ् ।
त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितं ॥९२॥
भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा ।
न तस्य जायते मृत्युर्भैरवस्य वचो यथा ॥९३॥
अथा हिना महादेवि दूषितः साधको यदा ।
मूलमन्त्रसमोपेतं अघोरं तत्र योजयेथ् ॥९४॥
आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणं ।
दंष्ट्राकरालविकटं ज्वालामालोपशोभितं ॥९५॥
सर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणं ।
पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभं ॥९६॥
तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेथ् ।
तज्ज्वालाभिः सुदीप्ताभिर्दग्धं संचिन्तयेद्विषं ॥९७॥
तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते ।
ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणाथ् ॥९८॥
अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेथ् ।
तदागदैर्महादेवि निर्विषं कुरुते क्षणाथ् ॥९९॥
कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः ।
गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतं ॥१००॥
आमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेथ् ।
गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते ॥१०१॥
अश्वमारस्य मूलं तु उदकेन तु पेषयेथ् ।
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०२॥
आरग्वधस्य मूलं तु उदकेन च पेषयेथ् ।
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०३॥
मधुकस्य तु सारं यन्नस्ये पाने प्रयोजयेथ् ।
निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥१०४॥
जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेथ् ।
निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा ॥१०५॥
षड्बिन्दुपटखर्जूर- सूक्ष्मचूर्णं तु कारयेथ् ।
मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये ॥१०६॥
त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेथ् ।
न विषं क्रमते तस्य यश्च दष्टो महोरगैः ॥१०७॥
अगदान्घृतसंयुक्तान्पिबेद्वै विषदूषितः ।
न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः ॥१०८॥
एवमन्येऽपि ये योगाः स्वच्छन्देन विनिर्मिताः ।
कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥१०९॥
[प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः ।
स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] ॥११०॥

इति स्वच्छन्दतन्त्रे नवमः पटलः समाप्तः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:51:13.7970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धाकी

  • वि. कुण . लडिवाळपणाचे नांव . [ सं . धाक = बैल , आधारखांब ] 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.