TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - द्वादशः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


द्वादशः पटलः
सृष्टिः स्थितिश्च संहारस्तत्त्वानां कथितस्त्वया ।
जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया ॥१॥
तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेथ् ।
पृथिव्यादि शिवान्तं च कथयामि समासतः ॥२॥
पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता ।
मांसेऽस्थिषु तथा चैव स्नायुलोमनखेषु च ॥३॥
मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा ।
कफासृगाममूत्रेषु रसस्वेदवसासु च ॥४॥
शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः ।
पचने दहने चैव तेजस्यूष्मणि संस्थितं ॥५॥
तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणं ।
वायुरुच्छ्वासनिःश्वास- स्पर्शनव्यूहलक्षणः ॥६॥
मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने ।
वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥७॥
एकलक्षणमाकाशं कथयामि यथा स्थितं ।
सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणं ॥८॥
शब्दात्मकं गुणं ह्येतत्कथितं तव सुव्रते ।
वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा ॥९॥
संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका ।
छेदनं भेदनं दानं व्यधनं शिल्पयोजनं ॥१०॥
ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितं ।
समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः ॥११॥
कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः ।
पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे ॥१२॥
उत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा ।
आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः ॥१३॥
कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु ।
बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः ॥१४॥
षड्जाख्यर्षभगान्धार- मध्यमाः पञ्चमः प्रिये ।
धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः ॥१५॥
गान्धारो मध्यमः षड्जस्त्रयो ग्रामाश्च पार्वति ।
सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ॥१६॥
तान एकोनपञ्चाशदित्येतत्सुरमण्डलं ।
सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥१७॥
स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे ।
भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥१८॥
वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः ।
तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥१९॥
संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः ।
अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥२०॥
सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि ।
उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥२१॥
शब्दोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ।
मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥२२॥
उष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा ।
शरकुन्तासिघातादि ताडनं छेदनं तथा ॥२३॥
एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियं ।
स्पर्शोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ॥२४॥
चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु ।
सितं रक्तं च पीतं च कृष्णं हरितधूम्रकं ॥२५॥
कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः ।
नरनारीपशुमृगाञ्ज्योतिः स्थावरजङ्गमं ॥२६॥
रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा ।
रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते ॥२७॥
मधुराम्लरसं चैव लवणं कटु तिक्तकं ।
कषायमिश्रं स्वादुं च जिह्वा वेदयते रसं ॥२८॥
रसोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः ।
सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा ॥२९॥
उभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः ।
येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः ॥३०॥
संकल्पे च विकल्पे च दशधाक्षेषु धावति ।
अनिवारितसन्देहं अजय्यं सर्वदेहिनां ॥३१॥
मनश्च कथितं ह्येतद्धर्माधर्मनिबन्धकं ।
स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥३२॥
गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति ।
जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितं ॥३३॥
चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतं ।
गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतं ॥३४॥
शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु ।
सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमाथ् ॥३५॥
वैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः ।
अहं विद्वानहं भोगी त्वहं जातो महाकुले ॥३६॥
अहं दाता च भोक्ता च तेजस्वी बलवानहं ।
अहं योद्धा च संग्रामे शत्रवश्च मया जिताः ॥३७॥
धर्मशीलश्च गुणवान्श्रेयस्कर्ता ह्यहं परं ।
अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥३८॥
न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः ।
इत्यहङ्कारचित्तानां ममत्ववशवर्तिनां ॥३९॥
अहङ्कारो निबध्नाति संसारे दृढबन्धनैः ।
त्रिविधस्याप्ययं धर्मोऽहङ्कारस्य प्रकीर्तितः ॥४०॥
बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते ।
धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयं॥ ४१॥
अधर्मश्च तथाज्ञानं अवैराग्यमनैश्वरं ।
बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेथ् ॥४२॥
बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि ।
धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥४३॥
उपवासो जपो मौनं अक्रोधोऽस्तेयमार्जवं ।
सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥४४॥
विद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः ।
इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणं॥ ४५॥
अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणं ।
धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते ॥४६॥
धर्मकर्मनिबद्धानां संसारमनुवर्तिनां ।
पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक्त्वं च पुनः पुनः ॥४७॥
धर्मभावः समाख्यातः ज्ञानभावं च मे शृणु ।
चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः ॥४८॥
प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः ।
अकर्ता निर्गुणश्चाहं न मे बन्धोऽस्ति प्राकृतः ॥४९॥
प्रकृत्या कारितं मन्ये वासनादेव मुच्यते ।
साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥५०॥
मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।
बद्धः संसरते भूयो यावद्देवं न विन्दति ॥५१॥
ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकं ।
वैराग्यात्सन्त्यजेत्पुत्रान्दारानिष्टान्सुसंमतान् ॥५२॥
हस्त्यश्वरथयानानि सुहृद्भोगधनानि च ।
उपवासं जपं तीर्थं पञ्चाग्निं जलशायितां ॥५३॥
उपास्यैतानि घोराणि देहं सन्त्यजति क्षणाथ् ।
गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः ॥५४॥
वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि ।
ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥५५॥
न दारैर्न धनैर्भागैः परिवारैर्न वाहनैः ।
तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेथ् ॥५६॥
युद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनं ।
अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातितां ॥५७॥
ऐश्वर्यभावमापन्नः करोति च बहून्यपि ।
प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् ॥५८॥
याचको दुःखदाता च भवेच्चाधर्मचेष्टितं ।
नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः ॥५९॥
अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते ।
नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि ॥६०॥
कृच्छ्रजीवी च सततं अवैराग्ये न खिद्यते ।
राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेथ् ॥६१॥
ग्रामाद्भ्रष्टस्तदर्धेन वर्ततेऽसावनीश्वरः ।
न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवथ् ॥६२॥
अनैश्वर्यस्य भावोऽयं एवं ते समुदाहृतः ।
अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकं ॥३॥
यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते ।
अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमोऽभिधं ॥४॥
प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः ।
संविभागी च सततं नित्यं सत्त्वोपकारकः ॥६५॥
क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः ।
प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा ॥६६॥
ऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनं ।
यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे ॥६७॥
स सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु ।
निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा ॥६८॥
कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा ।
मानी दम्भसमायुक्तोऽप्यहङ्कारे व्यवस्थितः ॥६९॥
नित्यं युद्धरतः शूरः राजसं गुणलक्षणं ।
कामक्रोधाभिभूतत्वं लोभेन च समन्वयः ॥७०॥
ईर्श्या दम्भो विषादश्च मद उन्माद एव च ।
निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥७१॥
अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता ।
तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे ॥७२॥
तामसः स तु विज्ञेयः पुरुषः कलुषाशयः ।
एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतं ॥७३॥
एतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः ।
गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि ॥७४॥
करणेन्द्रियहीनश्च भूततन्मात्रवर्जितः ।
अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः ॥७५॥
मानसं वाचिकं चैव शारीरं कर्म यत्कृतं ।
प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः ॥७६॥
एवं संन्यस्य कर्माणि वर्तते नच नित्यशः ।
नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥७७॥
प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः ।
साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते ॥७८॥
न हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता ।
तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः ॥७९॥
यावत्करोत्यसौ सृष्टिं ईश्वरः परमेश्वरः ।
तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः ॥८०॥
क्षिप्तः संसरते भूयः संसारे घोरसागरे ।
धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः ॥८१॥
अहं कर्ता च भोक्ता च ईश्वरोबलवानहं ।
ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवथ् ॥८२॥
साङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतं ।
पृथ्वीं कठिनरूपेण चतुः सागरमेखलां ॥८३॥
सपर्वतवनाकीर्णां मृगपक्षिसमाकुलां ।
सुस्थितां पीतवर्णाभां ऊबीजेन समन्वितां ॥८४॥
ध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेथ् ।
अचाल्यः सर्वभूतानां यथैव वसुधा भवेथ् ॥८५॥
जलापूरितसर्वाङ्गो जलध्यानेन पूरयेथ् ।
एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेथ् ॥८६॥
तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः ।
जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥८७॥
कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः ।
कृष्णरेण्वात्मको वायुर्ध्येयो बीजेन संयुतः ॥८८॥
पूरयेद्वै जगद्देहान्सिद्धश्चाश्चर्यकारकः ।
सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकं ॥८९॥
ध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेथ् ।
वागिन्द्रिये तथा वह्निर्ध्यातो वाक्सिद्धिदायकः ॥९०॥
इन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः ।
पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति ॥९१॥
पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः ।
शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा ॥९२॥
जितेन्द्रियश्च भवति त्विच्छया रमते शतं ।
श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः ॥९३॥
सकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति ।
मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितं ॥९४॥
यः स दंष्ट्राद्यभेद्यः स्यात्न क्वचिञ्जायते व्यथा ।
आदित्यं चक्षुषि ध्यायेज्जिह्वायां वरुणं तथा ॥९५॥
नासायां पृथिवीं पीतां मनसीन्दुं तथैव च ।
पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितं ॥९६॥
रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितं ।
अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च ॥९७॥
विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितं ।
वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता ॥९८॥
ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनां ।
ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥९९॥
स्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते ।
दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका ॥१००॥
भूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते ।
प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते ॥१०१॥
रक्तं च हृदयं तस्याः बहुपादभुजानना ।
ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः ॥१०२॥
सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते ।
षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥१०३॥
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ।
एष ते प्राकृतो योग उक्तः मोक्षकरः परः ॥१०४॥
अतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः ।
चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः ॥१०५॥
स जीव इति विख्यातो येन जीवति तत्पुरं ।
निर्गतेन मृता येन अचेताः शीर्यते तनुः ॥१०६॥
बध्यते मुच्यतेऽसौ वै सुखदुःखानि वेत्ति च ।
न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचिथ् ॥१०७॥
न शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः ।
वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥१०८॥
तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते ।
आदित्यवर्णं रुक्माभं अब्बिन्दुमिव पुष्करे ॥१०९॥
पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा ।
रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥११०॥
श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता ।
दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥१११॥
तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः ।
कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति ॥११२॥
नियतिं च विजानीयादनिवार्यां सुरासुरैः ।
पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥११३॥
ध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते ।
त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजं ॥११४॥
संहरन्तं दुराधर्षं अनन्तं कालमीश्वरं ।
स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥११५॥
चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः ।
एवं कालं सदा ध्यायेत्ध्येयसिद्धिश्च जायते ॥११६॥
रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनां ।
सितवर्णां कलां ध्यायेच्चेतन्योन्मीलिनीं तु तां ॥११७॥
कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना ।
कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी ॥११८॥
या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः ।
निर्वैरपरिपन्थित्वान्माया ग्रन्थिर्दुरुत्तरा ॥११९॥
साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये ।
न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ॥१२०॥
क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया ।
स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥१२१॥
दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययं ।
चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता ॥१२२॥
सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका ।
आकाशवायुमारूढा रूपयौवनशालिनी ॥१२३॥
स्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते ।
दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते ॥१२४॥
वेद लोकांस्ततः सर्वान्कामरूपी स गच्छति ।
कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरं ॥१२५॥
पूर्वाननमभिध्यायेत्वायुभक्षस्य यत्फलं ।
तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च ॥१२६॥
जगच्च वशमायाति क्रमते सिद्धिमेति च ।
षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि ॥१२७॥
नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनं ।
भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितं ॥१२८॥
बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेथ् ।
सुखदुःखविनाशाय ईतिज्वरविनाशनं ॥१२९॥
विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणाथ् ।
अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥१३०॥
क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेथ् ।
सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु ॥१३१॥
पश्चिमं वदनं ध्यायेद्दिव्यसिद्धिप्रदायकं ।
हत्वा प्राणिसहस्राणि परदारशतानि च ॥१३२॥
अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेथ् ।
त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति ॥१३३॥
ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः ।
तपते वर्षते चैव सृजते संहरत्यपि ॥१३४॥
ईप्सितां लभते सिद्धिं योऽब्दमेकं तु चिन्तयेथ् ।
सितमूर्ध्वं सदा ध्यायेच्छूलहस्तं जटाधरं ॥१३५॥
व्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु ।
वीणाडमरुहस्तं च नागयज्ञोपवीतकं ॥१३६॥
चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरं ।
अनेनैव तु देहेन सर्वज्ञः कामरूपवान् ॥१३७॥
घण्टानादस्य वा ध्यानात्सिद्धिः षाण्मासिकी भवेथ् ।
ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥१३८॥
लिङ्गध्यानं तु यः कुर्यात्पूर्वबीजेन संयुतं ।
मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि ॥१३९॥
शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते ।
सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥१४०॥
त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते ।
आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेथ् ॥१४१॥
सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु ।
तन्मात्राणि हयास्तस्य मनः सारथि चोदितः ॥१४२॥
अहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः ।
इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः ॥१४३॥
एवं स क्रीडते योगी परमात्मनि हृत्स्थिते ।
पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥१४४॥
नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणं ।
मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेथ् ॥१४५॥
धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः ।
तमहं शरणं प्राप्तो न मे बन्धोऽस्ति कऋतृता ॥१४६॥
सदाशिवोऽष्टभेदेन पूर्वबीजसमन्वितः ।
ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता ॥१४७॥
नादं वै व्यापकं ध्यायेदहोरात्रायनेषु च ।
दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः ॥१४८॥
वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः ।
सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु ॥१४९॥
मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके ।
तृतीये पश्यते सिद्धान्दिव्यदृष्टिश्चतुर्थके ॥१५०॥
सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः ।
दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥१५१॥
षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवं ।
अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमाथ् ॥१५२॥
शेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः ।
दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥१५३॥
सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलं ।
नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमं ॥१५४॥
दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः ।
एकमेव तु गृह्णीयादन्ये तु गुणरूपकाः ॥१५५॥
चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणं ।
तारकाचलिताकारं बिन्दुमेवं विलक्षयेथ् ॥१५६॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः ॥१५७॥
बिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे ।
खं वीक्ष्य मीलिताक्षो यदुद्यद्भास्करसन्निभं ॥१५८॥
ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता ।
पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥१५९॥
द्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेथ् ।
व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेथ् ॥१६०॥
कारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेथ् ।
समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा ॥१६१॥
ध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः ।
ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया ॥१६२॥
चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः ।
मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥१६३॥
अहंकृतानि यान्येव यच्च वेद्यतया स्थितं ।
यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥१६४॥
यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः ।
सुखासीनः संयतात्मा एकचित्तः समाहितः ॥१६५॥
स्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा ।
भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते ॥१६६॥
ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि ।
तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये ॥१६७॥
स्वरूपरूपकध्यानं तत्त्वानां कथितं मया ।
एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यतेऽपि च ॥१६८॥

इति स्वच्छन्दतन्त्रे द्वादशः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:53:25.9370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खूडूत

  • खेडूत थकली म्‍हणून जमीन थकली आहे काय? 
  • कूळ दमले म्‍हणून जमीन दमत नाही. कुळानें जमीन टाकली म्‍हणून जमीन काही निरुपयोगी होत नाही व मालक ती टाकून देत नाही. 
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site