TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - द्वितीयः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


द्वितीयः पटलः
अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः ।
शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥१॥
शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधितां ।
प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥२॥
भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि ।
भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥३॥
क्षालयेत यथान्यायं त्रिरन्तरितयोगतः ।
अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितं॥ ४॥
सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेथ् ।
शिरःप्रभृति पादान्तं आगुष्ठ्य स्नानमाचरेथ् ॥५॥
उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमं ।
संध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥६॥
मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे ।
भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥७॥
वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमाथ् ।
पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेथ् ॥८॥
दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने ।
उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥९॥
पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेथ् ।
उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेथ् ॥१०॥
बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् ।
आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥११॥
स्नायाद्राजोपचारेण सुगन्धामलकादिभिः ।
प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥१२॥
उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेथ् ।
उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥१३॥
तीर्थं संगृह्य देवेशि आत्मनोऽग्रे निधापयेथ् ।
तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमाथ् ॥१४॥
अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे ।
जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥१५॥
मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह ।
सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेथ् ॥१६॥
मूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परं ।
मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥१७॥
परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेथ् ।
विधिस्नानं ततः कुर्याद्भैरवेशमनुस्मरन् ॥१८॥
शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः ।
भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमं ॥१९॥
अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् ।
संध्याया वन्दनं कुर्याद्यथापूर्वं वरानने ॥२०॥
ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेथ् ।
शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥२१॥
सकलीकृतदेहस्तु पुष्पमादाय सुव्रते ।
दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः ॥२२॥
शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेथ् ।
द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥२३॥
संपूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमाथ् ।
अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे ॥२४॥
नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे ।
कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः ॥२५॥
भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः ।
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलं ॥२६॥
नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः ।
निवारितं तेन सर्वं विघ्नजालमनन्तकं ॥२७॥
ततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेथ् ।
मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमाथ् ॥२८॥
दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः ।
उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितं ॥२९॥
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेथ् ।
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥३०॥
परां शक्तिं तु संक्षोभ्य ततोऽनन्तं प्रकल्पयेथ् ।
मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेथ् ॥३१॥
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकं ।
भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेथ् ॥३२॥
प्राणायामत्रयं कार्यं देहसंशुद्धिकारणं ।
अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुं ॥३३॥
कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेथ् ।
खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितं ॥३४॥
कार्येणैव विहीनं च मायाप्रध्वस्तगोचरं ।
शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥३५॥
परं भावं तु संगृह्य ततः शोष्या तनुः प्रिये ।
संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥३६॥
तेनैव दहनं कार्यं ऊर्ध्वाधोऽग्नियुतेन च ।
अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥३७॥
उत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः ।
बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेथ् ॥३८॥
आनयेत्तं यथानीतं प्लावयेदमृतेन तु ।
मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितं ॥३९॥
रागेण रञ्जितात्मान कालेन कलितं तथा ।
नियत्या यमितं भूयः पुंभावेनोपबृंहितं॥ ४०॥
प्रधानाशयसंपन्नं गुणत्रयसमन्वितं ।
बुद्धितत्त्वसमासीनं अहङ्कारसमावृतं॥ ४१॥
मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः ।
प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणं॥ ४२॥
न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ।
षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने ॥४३॥
प्रधानावनिपर्यन्तं शरीरं च विनिर्मितं ।
चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु ॥४४॥
द्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु ।
सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥४५॥
पञ्चविंशकमेतच्च प्राकृतं समुदाहृतं ।
ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितं॥ ४६॥
सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने ।
मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि ॥४७॥
वक्त्राणि कल्पयेत्पश्चादूर्ध्वं पूर्वं च दक्षिणं ।
उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥४८॥
कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेथ् ।
नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयं॥ ४९॥
वर्गातीतेन क्षुरिकां ऊर्ध्वाधोऽग्निप्रदीपितां ।
षोडशान्तर्हता सा तु रक्षि"का विघ्ननाशिका ॥५०॥
नवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके ।
हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥५१॥
पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतं ।
क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥५२॥
विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः ।
निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमं ॥५३॥
गन्धैर्धूपैस्तथा पुष्पैर्विविधैर्भक्ष्यभोजनैः ।
पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः ॥५४॥
आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेथ् ।
नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलं ॥५५॥
हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेथ् ।
अष्टपत्रं महादीप्तं केसरालं सकर्णिकं ॥५६॥
कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये ।
भुवनानि च तान्येव रुद्राणां वरवर्णिनि ॥५७॥
मायात्मको भवेद्ग्रन्थिरशुद्धाध्वव्यवस्थितः ।
विद्यापद्मं महादीप्तं कर्णिकाबीजराजितं ॥५८॥
पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः ।
एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभं ॥५९॥
शक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरं ।
अङ्कुरं नालविन्यासं अनन्तं परिकल्पयेथ् ॥६०॥
तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरं ।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च क्रमान्न्यसेथ् ॥६१॥
सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः ।
पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥६२॥
शिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते ।
अधर्माज्ञानावैराग्यं अनैश्वर्यं च प्राग्दिशः ॥६३॥
उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः ।
संधानकीलकाश्चैव अतसीपुष्पसंनिभाः ॥६४॥
वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये ।
अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेथ् ॥६५॥
मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ।
सितं पद्मं विजानीयात्केसराणि विचिन्तयेथ् ॥६६॥
सितरक्तप्रपीतानि मूलमध्याग्रदेशतः ।
कर्णिका हेमसंकाशा बीजानि हरितानि तु ॥६७॥
वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रितां ।
रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥६८॥
कलविकरणीं देवीं विन्यस्येद्वारुणे दले ।
बलविकरणीं देवीं वायव्यदलमाश्रितां ॥९॥
बलप्रमथनीं देवीं उत्तरे विनियोजयेथ् ।
सर्वभूतदमनीं च ऐशान्यां विनियोजयेथ् ॥७०॥
मध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेथ् ।
शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलं ॥७१॥
मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीं ।
सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥७२॥
वह्निमण्डलकं देवि कर्णिकायां निवेशयेथ् ।
ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥७३॥
ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः ।
कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥७४॥
कमण्डलुधरो देवि दण्डहस्तस्तथैव च ।
अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥७५॥
ध्यात्वा पत्रेषु तं न्यस्येत्सर्वकिल्विषनाशनं ।
अतसीपुष्पसंकाशं शङ्खचक्रगदाधरं ॥७६॥
पीताम्बरधरं देवं वनमालाविभूषितं ।
स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितं ॥७७॥
दिव्यकुण्डलधर्तारं गरुडासनसंस्थितं ।
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेथ् ॥७८॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनं ।
दशबाहुं विशालाक्षं नागयज्ञोपवीतिनं ॥७९॥
सिंहचर्मपरीधानं शशाङ्ककृतभूषणं ।
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥८०॥
निवेशयेत्कर्णिकायां महापातकनाशनं ।
महाप्रेतं न्यसेत्पश्चात्प्रहसन्तं सचेतनं ॥८१॥
रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितं ।
प्रणवेन न्यसेत्सर्वं आसनं भैरवस्य तु ॥८२॥
गन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेथ् ।
कदम्बकुसुमाकारां तुषारकिरणत्विषं ॥८३॥
मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेथ् ।
द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलं ॥८४॥
वक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि ।
मूर्धादिचरणं यावत्प्रणवादिनमोन्ततः ॥८५॥
अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेथ् ।
नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधं ॥८६॥
विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेथ् ।
शक्तित्रयं ततो न्यस्येद्दक्षदिग्वामगोचरे ॥८७॥
मध्यप्रदेशे देवेशि ततो रूपमनुस्मरेथ् ।
त्रिपञ्चनयनं देवं जटामुकुटमण्डितं ॥८८॥
चन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरं ।
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितं ॥८९॥
वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितं ।
कपालमालाभरणं खड्गखेटकधारिणं ॥९०॥
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनं ।
वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणं ॥९१॥
वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनं ।
वज्रदण्डकृताटोपं परश्वायुधहस्तकं ॥९२॥
मुद्गरेण विचित्रेण वर्तुलेन विराजितं ।
सिंहचर्मपरीधानं गजचर्मोत्तरीयकं ॥९३॥
अष्टादशभुजं देवं नीलकण्ठं सुतेजसं ।
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेथ् ॥९४॥
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभं ।
दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेथ् ॥९५॥
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभं ।
चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेथ् ॥९६॥
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदं ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥९७॥
ततः परमबीजेन परं परमकारणं ।
सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनं ॥९८॥
आवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहं ।
हृत्कण्ठतालुभ्रूमध्य- नादान्तान्तसमाश्रितं ॥९९॥
निष्कम्पं कारणातीतं आवाह्य परमेश्वरं ।
संस्थाप्य विधिवद्देवं अङ्गषट्कं ततो न्यसेथ् ॥१००॥
पाद्यमाचमनं चार्घं स्वागतं तदनन्तरं ।
संनिधानं च देवेशि निष्ठुरया निरोधयेथ् ॥१०१॥
गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेथ् ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१०२॥
ततः स्नानादिकं कर्म कृत्वा चैव वरानने ।
परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥१०३॥
विलिप्यागुरुकर्पूरैर्मुकुटाद्यैर्विभूषयेथ् ।
पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत्पुनः ॥१०४॥
अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेथ् ।
प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकं ॥१०५॥
ततो ह्याभरणं बाह्ये विनिवेश्यं वरानने ।
ऐशान्यां पूर्वतो याम्यां उत्तराप्यावसानकं ॥१०६॥
विन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च ।
बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥१०७॥
ध्यातव्यानि स्वरूपाणि वराभयकराणि तु ।
अग्नीशरक्षोवायव्य- चतुर्दिक्षु च तं न्यसेथ् ॥१०८॥
हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः ।
हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभं ॥१०९॥
तडिद्वलयसंकाशां शिखां देवीं विचिन्तयेथ् ।
आधूम्रं कवचं विद्यात्कपिशं चास्त्रमेव च ॥११०॥
ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितं ।
पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥१११॥
नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः ।
नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥११२॥
रत्नमालावनद्धाश्च हारकेयूरभूषिताः ।
द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥११३॥
भैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः ।
या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥११४॥
भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेथ् ।
यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥११५॥
ईषत्करालवदनां गम्भीरविपुलस्वनां ।
प्रसन्नास्यां सदा ध्यायेद्भैरवीं विस्मितेक्षणां ॥११६॥
द्वितीयावरणे देवि विन्यसेद्भैरवाष्टकं ।
कपालीशं तु पूर्वायां आग्नेय्यां शिखिवाहनं ॥११७॥
दक्षिणे क्रोधराजं तु विकरालं तु नैरृते ।
मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥११८॥
वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे ।
विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥११९॥
पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः ।
कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥१२०॥
पूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे ।
दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभं ॥१२१॥
श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे ।
चन्द्रबिम्बप्रभं स्ॐये ईशाने स्फटिकप्रभं ॥१२२॥
तृतीये चैव लोकेशान्सास्त्रान्संपरिकल्पयेथ् ।
नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥१२३॥
इन्द्राग्नियमनिरृति- वरुणाश्च समीरणः ।
सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥१२४॥
भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने ।
वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च ॥१२५॥
ध्वजो गदा त्रिशूलं च लोकपालयुधानि वै ।
वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभां ॥१२६॥
दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभं ।
किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेथ् ॥१२७॥
गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभं ।
संपूज्यावरणं सर्वं संधानं मन्त्रनायके ॥१२८॥
अस्त्राणि लोकपालाश्च भैरवाष्टकमेव च ।
पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु ॥१२९॥
क्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरं ।
मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च ॥१३०॥
परान्तं यावदाभाव्य नैवेद्यानि निवेदयेथ् ।
घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा ॥१३१॥
खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च ।
शाल्योदनं मुद्गसूपं आज्याक्तं संप्रकल्पयेथ् ॥१३२॥
कौशल्यां मण्डकापूपांस्तथा क्षौद्रशिरांसि च ।
घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेथ् ॥१३३॥
अवदंशान्यनेकानि कटूनि मधुराणि च ।
रसालां च दधि क्षीरं आसवं विविधं तथा ॥१३४॥
मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च ।
अग्रमापूरयेच्छंभोर्वित्तशाठ्यविवर्जितः ॥१३५॥
पश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१३६॥
प्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेथ् ।
अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चितां ॥१३७॥
वाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः ।
मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेथ् ॥१३८॥
उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेथ् ।
अक्षराक्षरसन्तानं न द्रुतं न विलम्बितं ॥१३९॥
जपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः ।
संहारः स तु विज्ञेयः शिवधामफलप्रदः ॥१४०॥
व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते ।
शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥१४१॥
सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया ।
आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥१४२॥
तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेथ् ।
जप्त्वा निवेदयेद्देवि भैरवाय वरानने ॥१४३॥
पूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितं ।
त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतं ॥१४४॥
शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः ।
सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः ॥१४५॥
आत्मा न शृणुते यं तु मानसोऽसौ प्रकीर्तितः ।
आत्मना श्रूयते यस्तु तमुपांशुं विजानते ॥१४६॥
परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ।
अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥१४७॥
रुद्राक्षशङ्खपद्माक्ष- पुत्रजीवकमौक्तिकैः ।
स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥१४८॥
दशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः ।
सूत्रं ध्यात्वा परां शक्तिं अध्वभागांस्ततो मणीन् ॥१४९॥
व्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेथ् ।
सप्तविंशतिभिः कुर्याद्द्विगुणैर्वा चतुर्गुणैः ॥१५०॥
समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे ।
न तं विलङ्घयेद्विद्वान्सृष्टिसंहारकारणं ॥१५१॥
वीरस्थानरतानां हि वीराणां वरवर्णिनि ।
महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदं ॥१५२॥
गृहस्थेन न कर्तव्यं उद्वेगजननं परं ।
तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥१५३॥
साधयेद्विविधान्कामानधमान्मध्यमोत्तमान् ।
एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥१५४॥
सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेथ् ।
तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥१५५॥
शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा ।
पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा ॥१५६॥
अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः ।
मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः ॥१५७॥
वस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन् ।
वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेथ् ॥१५८॥
पूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः ।
यागार्थो द्रव्यसंघातः ततो यजनमारभेथ् ॥१५९॥
शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलां ।
सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगां ॥१६०॥
ओंकारदीपितां देवीं नमस्कारावसानिकां ।
अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥१६१॥
वैराग्यं च तथैश्वर्यं आग्नेय्यादिक्रमेण तु ।
अधर्मं च तथाज्ञानं अवैराग्यमनैश्वरं ॥१६२॥
संधानकीलकांश्चैव अधश्छादनमूर्ध्वगं ।
पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च ॥१६३॥
मण्डलत्रितयं देवाञ्शक्तीश्चापि शिवान्तकं ।
मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकं ॥१६४॥
भैरवाष्टकविद्याङ्ग- लोचनं क्षुरिकां तथा ।
शक्तित्रयं परं देवं अङ्गषट्कसमन्वितं ॥१६५॥
विन्यस्य भावयेद्देवि सततं विधिपूर्वकं ।
निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥१६६॥
स्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च ।
रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् ॥१६७॥
पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१६८॥
तत आवरणं बाह्ये विनिवेश्यं वरानने ।
ईशपूर्वयाम्यस्ॐय- वरुणान्तं प्रकल्पयेथ् ॥१६९॥
वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतं ।
आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥१७०॥
उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा ।
नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितं ॥१७१॥
स्वमन्त्रेण तु सर्वेषां अर्ध्यं पाद्यं समाहितः ।
मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा ॥१७२॥
न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेथ् ।
परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचिथ् ॥१७३॥
स्वमुद्रामन्त्रसंयुक्तान्युगपत्परिकल्पयेथ् ।
अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेथ् ॥१७४॥
सर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः ।
भैरवाष्टकलोकेशान्सास्त्रान्संपरिकल्पयेथ् ॥१७५॥
बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगं ।
पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥१७६॥
आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुं ।
श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥१७७॥
चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः ।
अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥१७८॥
एकपादं तथा स्ॐये आग्नेय्यां त्रिपुरान्तकं ।
नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनं ॥१७९॥
ऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः ।
तर्पयेन्मत्स्यमांसाद्यैरासवैर्विविधैस्तथा ॥१८०॥
गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेथ् ।
प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥१८१॥
रेचकेन प्रयोगेन निवेद्य विधिपूर्वकं ।
हुड्डुङ्कारनमस्कारान्कृत्वा चैव ततो व्रजेथ् ॥१८२॥
अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः ।
कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥१८३॥
कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेथ् ।
उद्धृत्य प्रोक्षयेत्पश्चादस्त्रमन्त्रेण भामिनि ॥१८४॥
पूरणं तेन कर्तव्यं समीकरणमेव च ।
सेचनं कुट्टनं चैव लेपनं तेन कारयेथ् ॥१८५॥
प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेथ् ।
पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणं ॥१८६॥
वज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः ।
याम्यस्ॐयमुखी चैका वज्रमेतत्प्रकीर्तितं ॥१८७॥
वज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः ।
याम्यस्ॐयमुखा त्वेका वज्रमेतत्प्रकीर्तितं ॥१८७॥
असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः ।
सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥१८८॥
कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनं ।
दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेथ् ॥१८९॥
स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगं ।
आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेथ् ॥१९०॥
पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमं ।
चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥१९१॥
पूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि ।
पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेथ् ॥१९२॥
वागीशीं च समाहूय प्रणवादिनमोन्तगां ।
नीलोत्पलदलश्यामां ऋतुमच्चारुलोचनां ॥१९३॥
सर्वलक्षणसंपूर्णां सर्वावयवभूषितां ।
ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः ॥१९४॥
ऋतुकाल इवोत्तानां शिरसैशानसंस्थितां ।
पूजयेद्गंधपुष्पाद्यैर्भवमन्त्रमनुस्मरन् ॥१९५॥
ततो मुद्रां दर्शयेत संनिधानाय मन्त्रविथ् ।
ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ॥१९६॥
कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेथ् ।
अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥१९७॥
अग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु ।
षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु ॥१९८॥
आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवथ् ।
ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेथ् ॥१९९॥
योनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा ।
अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः ॥२००॥
दर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेथ् ।
अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेथ् ॥२०१॥
सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणं ।
दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् ॥२०२॥
रक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेथ् ।
यदुक्तं श्रीमत्स्वतन्त्रे---
सप्तवारास्त्रजप्तेन दर्बेणैवास्त्रकङ्कणं ।
बध्नीयाद्दक्षिणे हस्ते मन्त्रमस्त्रमनुस्मरन् ।
रक्षार्थमस्त्रगर्भस्य इति
अपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥२०३॥
हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेथ् ।
हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेथ् ॥२०४॥
गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः ।
त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिं ॥२०५॥
पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते ।
सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेथ् ॥२०६॥
ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेथ् ।
प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेथ् ॥२०७॥
गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयाथ् ।
पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेथ् ॥२०८॥
मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकं ।
यथोक्तं श्रीमत्स्वतन्त्रे---
पूर्वमध्यापरे वह्नेस्त्रीन्भागान्सम्प्रकल्पयेथ् ।
मुखहृत्पाददेशे तु त्रितत्त्वाहुतिभिः क्रमाथ् ।
शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥२०९॥
पञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यस्ॐयकं ।
अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया ॥२१०॥
वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसंख्यया ।
नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयं ॥२११॥
आहुतित्रितयेनैव तिलैः सर्वं तु कारयेथ् ।
ततः कलासमूहं च पञ्च चाथ चतुष्टयं ॥२१२॥
अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमाथ् ।
शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेथ् ॥२१३॥
अङ्गानि विन्यसेत्पश्चात्हृदाद्यानि यथाक्रमं ।
त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयं ॥२१४॥
सीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते ।
अस्त्रेण वीजयेदग्निं अस्त्रेणैव तु पूजयेथ् ॥२१५॥
त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयं ।
एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेथ् ॥२१६॥
यदुक्तं तत्रैव---
अस्त्रेण वीजयेद्वह्निं अस्त्रेणैव तु पूजयेथ् ।
त्रिराहुतिप्रयोगेण जातकर्म कृतं भवेथ् ।
अस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये ।
वक्त्राण्युद्धाटयेत्पश्चाद्वक्त्रेणैवाहुतित्रयाथ् ।
वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥२१७॥
वक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयं ।
प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥२१८॥
दर्भानास्तीर्य पूर्वाग्रान्दक्षिणोत्तरसंस्थितान् ।
स्ॐयाग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा ॥२१९॥
अस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे ।
रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥२२०॥
सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितं ।
आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेथ् ॥२२१॥
गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेथ् ।
मेखलोपरि लोकेशान्पूजयेत्प्रणवेन तु ॥२२२॥
रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये ।
ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितं ॥२२३॥
पुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेथ् ।
कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥२२४॥
ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः ।
शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥२२५॥
विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु ।
पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥२२६॥
धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः ।
चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु ॥२२७॥
स्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ।
कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा ॥२२८॥
अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेथ् ।
पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥२२९॥
दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेथ् ।
शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेथ् ॥२३०॥
स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ ।
दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः ॥२३१॥
आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकं ।
आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेथ् ॥२३२॥
शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु ।
कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेथ् ॥२३३॥
योनिसंस्थं चाज्यपात्रं उद्प्लवं संप्लवं ततः ।
दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितं ॥२३४॥
पवैत्रमेतद्विहितं उत्प्लवं तेन संप्लवं ।
अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकं ॥२३५॥
पराङ्मुखं तु त्रीन्वारान्संमुखं त्रींस्तथैव च ।
अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना ॥२३६॥
दर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेथ् ।
नीराजनं ततः कुर्यात्पर्यग्निकरणं ततः ॥२३७॥
धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेथ् ।
धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा ॥२३८॥
अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु ।
सकृदुच्चारयोगेन पूजयेद्भैरवेण तु ॥२३९॥
वक्त्रसंधानकं वक्त्रैराहुतित्रितयेन तु ।
अपरास्येन तद्वक्त्र- संधानं तु समाचरेथ् ॥२४०॥
एवं स्ॐयस्य वक्त्रस्य संधानं तु कृतं भवेथ् ।
त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥२४१॥
पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितं ।
त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः ॥२४२॥
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु ।
मुक्तिकामस्य दीक्षायां ऊर्ध्ववक्त्रस्य मुख्यता ॥२४३॥
पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः ।
सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेथ् ॥२४४॥
मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा ।
दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेथ् ॥२४५॥
शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च ।
सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा ॥२४६॥
पश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः ।
आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥२४७॥
आज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु ।
न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥२४८॥
उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना ।
नाडीत्रयेण युगपत्पात्रे भागत्रयं न्यसेथ् ॥२४९॥
सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेथ् ।
इडाभागे तु यत्तेजो वामे स्ॐयं प्रकल्पयेथ् ॥२५०॥
एवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेथ् ।
भैरवेणैव मन्त्रेणा- ग्नये स्वाहान्तमेव च ॥२५१॥
अग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेथ् ।
सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥२५२॥
धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेथ् ।
अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः ॥२५३॥
प्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेथ् ।
शुक्लपक्षे विधिर्ह्येष कृष्णपक्षेऽन्यथा भवेथ् ॥२५४॥
सोमभागे भवेत्सूर्यो ह्यग्निसंज्ञा तु पूर्ववथ् ।
अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेथ् ॥२५५॥
यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी ।
प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥२५६॥
चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः ।
प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेथ् ॥२५७॥
भैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः ।
अग्निं तु प्रोद्धरेत्पश्चात्पात्रे संस्थाप्य रक्षयेथ् ॥२५८॥
कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः ।
प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितं ॥२५९॥
पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेथ् ।
प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥२६०॥
आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेथ् ।
स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तं ॥२६१॥
पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः ।
भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः ॥२६२॥
ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेथ् ।
स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेथ् ॥२६३॥
ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितं ।
तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः ॥२६४॥
भावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः ।
प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः ॥२६५॥
राज्यार्था दाहजननी मृत्युदा शत्रुकारिका ।
वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका ॥२६६॥
सर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेथ् ।
पूणा तु भैरवेणैव जिह्वानां कल्पनाय च ॥२६७॥
पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेथ् ।
ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितं ॥२६८॥
आत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेथ् ।
मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकं ॥२६९॥
नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेथ् ।
पत्राष्टकसमोपेतं सितवर्णं सुतेजसं ॥२७०॥
अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकं ।
ओंकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेथ् ॥२७१॥
शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः ।
रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका ॥२७२॥
मूर्तिभूतं प्रकल्प्यैवं अष्टात्रिंशत्कलायुतं ।
शोध्याध्वानं तु विन्यस्येद्दीक्षाकाले वरानने ॥२७३॥
भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा ।
वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः ॥२७४॥
संधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेथ् ।
मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतं ॥२७५॥
स्थण्डिलस्थशिवालीनं एकार्थं चैव संधयेथ् ।
शुद्धाज्येनाहुतिशतं अष्टोत्कृष्टं वरानने ॥२७६॥
भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकं ।
भैरवाष्टकलोकेशान्दशमांशेन होमयेथ् ॥२७७॥
मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेथ् ।
भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेथ् ॥२७८॥
पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च ।
पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥२७९॥
सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः ।
धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः ॥२८०॥
जायते विपुला सिद्धिरधमा मध्यमोत्तमा ।
श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयाथ् ॥२८१॥
क्शीराक्ततिलहोमेन शान्तिकर्म वरानने ।
सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकं ॥२८२॥
मारणं च वरारोहे क्रमेण परिकल्पयेथ् ।
कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः ॥२८३॥
जातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः ।
नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥२८४॥
चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु ।
घृताक्तेन वरारोहे समन्त्री सपुरोहितः ॥२८५॥
राज्ञी पुत्रसमोपेता वशं याति वरानने ।
यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥२८६॥
विद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः ।
मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितं ॥२८७॥
भक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः ।
एवं होमानुसारेण साधको विधिसंस्थितः ॥२८८॥
पूजाहोमरतो नित्यं यान्यान्कामान्समीहते ।
तांस्तान्स साधयत्येव भैरवस्य वचो यथा ॥२८९॥


इति श्रीस्वच्छन्दतन्त्रे द्वितीयः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:40:34.0300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

focusing

  • न. Acous. Cathode Ray Tubes, Light etc. नाभीयन 
  • केंद्रीकरण, संकेंद्रण, संकेंद्रीकरण 
  • संकेंद्रीभवन 
  • न. नाभीयन 
More meanings
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site