स्वच्छन्दभैरवतन्त्र - दशमः पटलः ११

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


कैलासनिलयश्चाहं त्वया सार्धं वरानने ।
त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे ॥१००१॥
दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः ।
एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता ॥१००२॥
इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह ।
महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला ॥१००३॥
कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ।
मनुष्याणां तु भक्तानां वरदा भक्तवत्सला ॥१००४॥
पूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि ।
अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥१००५॥
सुचार्विति तु विख्यातं सहस्रादित्यकान्तिमथ् ।
कैलासशिखराकारं शुद्धस्फटिकसप्रभं ॥१००६॥
महाविमानकोटीभिरावृतं चक्रवर्तिनां ।
तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः ॥१००७॥
सहस्रबाहुचरणः सहस्रवदनेक्षणः ।
उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः ॥१००८॥
भोगस्थानं समस्तं वै तत्रस्थं वामभागतः ।
शतयोजनविस्तीर्णे नानारत्नविभूषिते ॥१००९॥
दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे ।
आसने परमे दिव्ये रत्नपद्मविचित्रिते ॥१०१०॥
उपविष्टो महातेजा वृषभैरष्टभिर्वृतः ।
हेमचीनाम्बरधरो हारकेयूरभूषितः ॥१०११॥
धारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे ।
स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले ॥१०१२॥
धारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितं ।
देदीप्यमानमत्युग्रं कैलासशिखरोपमं ॥१०१३॥
प्रलम्बोऽस्य महाहारः प्रभवद्रश्मिसंकुलः ।
गाङ्गो हिमवतः शृङ्गात्पतितो निर्झरो यथा ॥१०१४॥
त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा ।
शूलिभिर्जटिभिस्त्र्यक्षैर्दिव्याभरणभूषितैः ॥१०१५॥
नानारूपधरैर्रुद्रैर्वृतो भूतगणैस्तथा ।
दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः ॥१०१६॥
विमानशतकोटीभिरावृतः सर्व एव तु ।
मातरः सप्त रूपिण्यो नानालंकारभूषिताः ॥१०१७॥
परिवार्य महात्मानं समन्तात्पर्यवस्थिताः ।
ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता ॥१०१८॥
आग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा ।
शङ्खगोक्षीरसंकाशा त्वैशान्यां तु वरानने ॥१०१९॥
माहेश्वरी महातेजास्तिष्ठते सुरपूजिता ।
क्ॐआरी पद्मगर्भाभा हारकेयूरभूषिता ॥१०२०॥
दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता ।
स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता ॥१०२१॥
दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरं ।
वैष्णवीति च विख्याता शिवेन परमात्मना ॥१०२२॥
नीलजीमूतसंकाशा सर्वाभरणभूषिता ।
वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता ॥१०२३॥
शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता ।
ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता ॥१०२४॥
करालवदना दीप्ता सर्वाभरणभूषिता ।
नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरं ॥१०२५॥
न त्यजन्ति हि ता देवं सर्वभावसमन्वितं ।
अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः ॥१०२६॥
असुराणां वधार्थाय मनुष्याणां हिताय च ।
तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा ॥१०२७॥
रुरोश्चैव वधार्थाय मयापि त्ववतारिताः ।
स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः ॥१०२८॥
स्वच्छन्दं पर्युपासीनाः परापरविभागतः ।
उमैव सप्तधा भूत्वा नामरूपविपर्ययैः ॥१०२९॥
एवं स भगवान्देवो मातृभिः परिवारितः ।
आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगथ् ॥१०३०॥
अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः ।
शर्वो भवश्च भगवान्रुद्रः पशुपतिस्तथा ॥१०३१॥
ईशानश्चैव भीमश्च महादेवोग्र एव च ।
एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमां ॥१०३२॥
भूमिरापोऽनलो वायुराकाशं सूर्य एव च ।
सोमश्च यजमानश्चेत्यष्टौ सृष्टिरियं स्मृता ॥१०३३॥
सर्वात्मना तु ते तस्मिन्नन्यत्रैकांशतः स्थिताः ।
एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा ॥१०३४॥
मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते ।
श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा ॥१०३५॥
शर्वाद्याभिश्च तनुभिरष्टाभिर्व्याप्य तिष्ठति ।
ये तु माहेश्वरं योगं सगुणं पर्युपासते ॥१०३६॥
भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च ।
दृष्ट्वा देहस्थमात्मानं तेऽत्र यान्ति मनीषिणः ॥१०३७॥
दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशं ।
मुक्तद्वैता यतात्मानस्तत्र यान्ति मनीषिणः ॥१०३८॥
तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः ।
वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च ॥१०३९॥
विद्यानामधिपश्चैव एकवीरः प्रचण्डधृथ् ।
ईशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च ॥१०४०॥
तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः ।
सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः ॥१०४१॥
भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः ।
अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ॥१०४२॥
तत्सायुज्यमनुप्राप्य तेनैव सह मोदते ।
अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः ॥१०४३॥
महादेवो महातेजा वामदेवभवोद्भवौ ।
एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः ॥१०४४॥
अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः ।
मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः ॥१०४५॥
बुद्धितत्त्वे समासने भुवनेशा मयोदिताः ।
अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितं ॥१०४६॥
गुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितं ।
प्रथमा तमसः पङ्क्तिरुपरिष्टाद्व्यवस्थिता ॥१०४७॥
तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः ।
शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् ॥१०४८॥
प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा ।
महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च ॥१०४९॥
कलेवरश्च विख्यातस्तथा चैव कटङ्कटः ।
अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च ॥१०५०॥
यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा ।
विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा ॥१०५१॥
गण्डो नरो यमो माली गहनेशश्च पीडनः ।
प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता ॥१०५२॥
रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते ।
शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च ॥१०५३॥
सुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः ।
गौतमश्चैव योगीशो दधिबाहुस्तथापरः ॥१०५४॥
ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः ।
गुह्येशानः शिखण्डी च जटी माली तथोग्रकः ॥१०५५॥
भृगुः शिखि तथा शूली सुगतिश्च सुपालनः ।
अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः ॥१०५६॥
भवनश्च तथा भव्यो लकुलेशस्तथैव च ।
त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा ॥१०५७॥
सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते ।
देवोऽरुणो दीर्घबाहुरतिभूतिश्च स्थाणुकः ॥१०५८॥
सद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः ।
चक्रपाणिश्च कूर्माख्यस्त्वर्धनारीश्वरस्तथा ॥१०५९॥
कपाली भूर्भुवश्चैव वषट्कारस्तथैव च ।
वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः ॥१०६०॥
संवर्तकश्च भस्मेशः कामनाशन एव च ।
एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका ॥१०६१॥
ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः ।
संसारपाशनिर्मुक्ताः महामोहविवर्जिताः ॥१०६२॥
त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः ।
सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः ॥१०६३॥
गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु ।
बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे ॥१०६४॥
शतद्वयं सप्तकं च भुवनानां वरानने ।
अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने ॥१०६५॥
गुणानामुपरिष्टात्तु प्रधानं परिकीर्तितं ।
तत्र ये संस्थिता रुद्राः कथयामि समासतः ॥१०६६॥
क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् ।
पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः ॥१०६७॥
तत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः ।
गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते ॥१०६८॥
अतः पुरुषतत्त्वे तु भुवनानि निबोध मे ।
अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया ॥१०६९॥
सुतारा च सुनेत्रा च कुमारी च ततः परं ।
उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः ॥१०७०॥
तारा चैव सुतारा च तारयन्ती प्रमोदिका ।
प्रमोदिता मोदमाना रम्यका च ततः परं ॥१०७१॥
सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतं ।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥१०७२॥
प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतं ।
यत्रकामावसायित्वं अणिमाद्यष्टकं स्मृतं ॥१०७३॥
अथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु ।
मस्करी पूरणः कृत्स्नः कपिलः काश एवच ॥१०७४॥
सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा ।
कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा ॥१०७५॥
शाकल्यश्च समाख्यातो दुर्वासाः परमस्त्वृषिः ।
वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः ॥१०७६॥
पिप्पलादाश्च स्ॐइत्रिर्वायुपुत्रो भदन्तकः ।
मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः ॥१०७७॥
द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते ।
जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च ॥१०७८॥
ध्यानाश्रयोऽथ दीर्घश्च होता जागर एव च ।
अगस्त्यो वसुभ्ॐअश्च उपाध्यायश्च कीर्तितः ॥१०७९॥
शुक्रो भृग्वगिरा रामो जमदग्निसुतोऽध्वगः ।
स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः ॥१०८०॥
वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः ।
जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते ॥१०८१॥
हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः ।
कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः ॥१०८२॥
यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः ।
भूतेश्वरः कपालीशः शङ्करश्च तथैव च ॥१०८३॥
अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः ।
महाकालश्च संवर्तो मण्डली त्वेकवीरकः ॥१०८४॥
तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः ।
जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः ॥१०८५॥
हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः ।
पङ्क्तित्रयं समाख्यातं ऋषीणां गुरुशिष्ययोः ॥१०८६॥
नाडीविद्याष्टकं देवि कथयामि त्वतः परं ।
इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा ॥१०८७॥
माला च मालिनी चैव स्वाहा चैव स्वधा तथा ।
अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते ॥१०८८॥
कार्यं च करणं चैव सुखदुःखकरं तथा ।
ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा ॥१०८९॥
देहपाशानतो वक्ष्ये धर्मं च दशधोदितं ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ॥१०९०॥
अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवं ।
एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः ॥१०९१॥
विकारान्षोडशाख्यास्ये परभावेन संस्थितान् ।
रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच ॥१०९२॥
तन्मात्रपञ्चकं ख्यातं इन्द्रियाणि निबोध मे ।
वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकं ॥१०९३॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता ।
बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतं ॥१०९४॥
देहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः ।
धर्मोज्ञानं च वैराग्यं ऐश्वर्यं च ततः परं ॥१०९५॥
अधर्मश्च तथाज्ञानं अवैराग्यमनीशिता ।
अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः ॥१०९६॥
वैकारिकं तैजसं च भूतादिं च यथाक्रमं ।
दीक्षाकाले यथा शुद्धिस्तथा चैषां निबोध मे ॥१०९७॥
तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥१०९८॥
विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः ।
कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च ॥१०९९॥
जन्ममृत्युजराव्याधिक्- षुत्तृट्तृष्णास्तथैव च ।
विषादश्च भयं चैव मदो हर्षणमेव च ॥११००॥

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP