TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - पञ्चमः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.



पञ्चमः पटलः
कलादीक्षा सुरेशान कथिता परमेश्वर ।
तत्त्वदीक्षा समासेन कथयस्व प्रसादतः ॥१॥
समासात्कथयिष्यामि त्वत्प्रियार्थं वरानने ।
षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति ॥२॥
पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह ।
यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहं ॥३॥
विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः ।
वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः ॥४॥
धरित्र्यादिप्रधानान्तं ऊकारो वाचकः स्मृतः ।
पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च ॥५॥
नियामिकां वकारेण विद्यातत्त्वसमन्वितां ।
कालं कलां लकारेण कल्पयेत्तु वरानने ॥६॥
मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः ।
रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः ॥७॥
प्रणवेन तथा शक्तिर्न्यसितव्या वरानने ।
व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेथ् ॥८॥
शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते ।
योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे ॥९॥
निराभासे परे शान्ते ईशाने चाव्यये त्वजे ।
षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे ॥१०॥
प्रकृतिः पुरुषश्चैव नियतिः काल एव च ।
माया विद्या तथेशश्च सदाशिवशिवौ तथा ॥११॥
शोधयित्वा तु विधिवद्व्याप्त्यात्मानं नियोजयेथ् ।
पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः ॥१२॥
धरित्र्यादि खपर्यन्तं शोधयेत्तत्क्रमेण तु ।
कलानां यावती व्याप्तिस्तत्त्वानां तावदेव हि ॥१३॥
त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने ।
अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः ॥१४॥
मायान्तं तद्विजानीयात्विद्याख्यस्याप्युकारकः ।
सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः ॥१५॥
खस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः ।
शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेथ् ॥१६॥
तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता ।
परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ॥१७॥
विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः ।
पृथग्भेदेन तेषां तु विन्यासं कथयामि ते ॥१८॥
नवनाभं पुरं कृत्वा नवपद्मोपलक्षितं ।
नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः ॥१९॥
सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितं ।
चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितं ॥२०॥
कोष्ठकैकोनपञ्चाशत्सूत्रेण तु समालिखेथ् ।
मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितं ॥२१॥
समालिख्य महादेवि चतुर्भागविभाजिते ।
प्रथमे कर्णिकां कुर्यात्केसराणि द्वितीयके ॥२२॥
तृतीये दलसन्धींश्च दलाग्राणि चतुर्थके ।
दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च ॥२३॥
भ्रामयेच्चतुरो वृत्तांश्चतुरङ्गुलसम्मितान् ।
द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तथ् ॥२४॥
सूत्राग्रं तु ततो भ्राम्यं अर्धचन्द्रविधानतः ।
मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता ॥२५॥
पूर्वपत्रं प्रसाध्यवं इतराण्येवमेव हि ।
केसराणि च संलिख्य चतुर्विंशतिसंख्यया ॥२६॥
पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनां ।
तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः ॥२७॥
पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना ।
पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत्प्रिये ॥२८॥
द्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तं ।
पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मितां ॥२९॥
पूर्वाह्ने ग्राहयेच्छायां अपरस्थां सुचिह्नितां ।
अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत्प्रिये ॥३०॥
ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने ।
ततः समालिखेत्पद्मं अष्टपत्रं सकर्णिकं ॥३१॥
दिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितं ।
शेषा लोप्या वरारोहे एकान्तरितयोगतः ॥३२॥
पद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेथ् ।
वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेथ् ॥३३॥
उपशोभां च तन्मानां कपोलान्तं समालिखेथ् ।
तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितं ॥३४॥
द्वाराष्टकविभागेन नवनाभं पुरं स्मृतं ।
स्नात्वा तु विधिवद्देवि प्रविशेद्भवनं गुरुः ॥३५॥
पूर्वोक्तेन विधानेन सकलीकरणादिकं ।
ततः सम्पूजयेद्देवं भैरवं परमेश्वरं ॥३६॥
प्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि ।
मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरं ॥३७॥
पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितं ।
पत्राष्टके न्यसेद्वर्णान्पूर्वादीशांश्ततः क्रमाथ् ॥३८॥
सदाशिवं हकारेणेत्येवमादि वरानने ।
प्रकृत्यन्तं विजानीयान्मध्ये पीठेशकल्पना ॥३९॥
दिक्पद्मकर्णिकासंस्थानष्टौ देवान्प्रपूजयेथ् ।
तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमं॥ ४०॥
शोधयेच्च प्रकृत्यादि- शिवान्तं सुरसुन्दरि ।
ईशानदिश आरभ्य मध्यपीठं विशोधयेथ् ॥४१॥
योजयेत्तु परे तत्त्वे शिवे परमकारणे ।
एवं वर्णास्तथा मन्त्रान्भुवनानि विशोधयेथ् ॥४२॥
कालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेथ् ।
समयान्श्रावयेत्पश्चात्तन्त्राम्नायोत्थितान्प्रिये ॥४३॥
न निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवं ।
सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेथ् ॥४४॥
यतः शिवोद्भवाः सर्वे ह्यपवर्गफलप्रदाः ।
स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकं॥ ४५॥
ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः ।
वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा ॥४६॥
देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितं ।
गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि ॥४७॥
मद्यं मांसं तथा मत्स्यानन्यानि च वरानने ।
साचाराश्च निराचारांल्लिङ्गिनो न जुगुप्सयेथ् ॥४८॥
चरुकं प्राशयन्नित्यं गुरून्सम्पूजयेत्सदा ।
उपस्करान्महादेवि पादेन तु न संस्पृशेथ् ॥४९॥
संहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत्सदा ।
आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने ॥५०॥
अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिं ।
त्रिकालं पूजयेद्देवं जपध्यानरतः सदा ॥५१॥
समयान्पालयन्नित्यं उभयार्थफलेप्सया ।
अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः ॥५२॥
अध्यात्मगतिचारेण केवलेन विशोधिकां ।
शिष्यात्मानं गृहीत्वा तं आत्मप्राणे नियोजयेथ् ॥५३॥
अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा ।
उद्घातैश्च ततोऽध्वानं शिष्यस्य तु विशोधयेथ् ॥५४॥
ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते ।
भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमं ॥५५॥
सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितं ।
बिन्दुना शक्तिसंयोगादुद्घातः प्रथमः स्मृतः ॥५६॥
देवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः ।
उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः ॥५७॥
हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः ।
अर्धचन्द्रान्निरोधिन्यां उद्घातस्तु तृतीयकः ॥५८॥
भिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेथ् ।
उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः ॥५९॥
स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः ।
उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः ॥६०॥
पञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः ।
अकारोकारमकारान्तं एवं शुद्ध्यति नान्यथा ॥६१॥
शुद्धेऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः ।
जलीभूतं तदेवैतदात्मना सह योगतः ॥६२॥
जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेथ् ।
बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेथ् ॥६३॥
शोधिते तोयसंघाते तेजोभूतं विचिन्तयेथ् ।
तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः ॥६४॥
नास्ति तेजस्ततो वायुरुद्घातद्वयशोधितः ।
आकाशे लीयमानं तं उद्घातेन तु चिन्तयेथ् ॥६५॥
नष्टे वायौ ततः शून्यं उद्घातैकेन योजयेथ् ।
व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता ॥६६॥
समनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते ।
आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः ॥६७॥
तत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगविथ् ।
योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे ॥६८॥
योजनां तु परे तत्त्वे शृणु देवि वदाम्यहं ।
मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परं ॥९॥
परापरविभागेन यावत्तत्त्वं परं गतं ।
त्रिदेवं बिन्दुसंयुक्तं अर्धचन्द्रं निरोधिकां ॥७०॥
नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः ।
उन्मना च परश्चैव सर्वव्यापी शिवोऽव्ययः ॥७१॥
ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमं ।
तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेथ् ॥७२॥
बिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि ।
ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते ॥७३॥
ईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते ।
तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता ॥७४॥
स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते ।
तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते ॥७५॥
ज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि ।
मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः ॥७६॥
वर्णः शब्दगतः तेषां उद्घातः स तु कीर्तितः ।
तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः ॥७७॥
पञ्चधावस्थितो बिन्दुरर्धचन्द्रो निरोधिका ।
तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेथ् ॥७८॥
ईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः ।
चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः ॥७९॥
पञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता ।
तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता ॥८०॥
स्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववथ् ।
व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता ॥८१॥
वालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा ।
व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि ॥८२॥
तस्यापि समनातीता मनस्तत्र न कारयेथ् ।
उन्मनापदमारोहन्शुद्धात्मा तु ततो भवेथ् ॥८३॥
शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेथ् ।
तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयाथ् ॥८४॥
गुरुपारम्परायातः सम्प्रदायः प्रकाशितः ।
योजने तु परे तत्त्वे उपायः कथितस्तव ॥८५॥
एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेथ् ।
तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च ॥८६॥
वर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये ।
एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु ॥८७॥
मन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेथ् ॥८८॥


इति स्वच्छन्दतन्त्रे तत्त्वदीक्षाप्रकाशनं नाम पञ्चमः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:45:53.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ergodic property

  • स्थलकालनिरपेक्ष गुणधर्म 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site