TransLiteral Foundation

पूर्वखण्डः - अध्याय २७

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.



सुखस्थानचिन्ताध्यायः
बहुदुष्टजातम् ।
तुङ्गांशकस्थोऽणुसुखं कदाचित्
षड्वर्गशुद्धः परदारश्चं च ॥१॥
नीचाश्रितो वासरपश्चतुर्थे
सुखं विधत्ते न कदाचिदेव ।
निचांशके दुःखविमिश्रितं च
पापस्य वर्गे धृणदुःखमिश्रम् ॥२॥
मित्राश्रयस्थो दिनकृश्चतुर्थे
सुखं विधत्ते वृजिनैः समेतम् ।
चौर्यद्भवं शत्रुविभागसंस्थो
वर्गोत्तमस्थोऽक्षजमेव नित्यम् ॥३॥
शत्रोर्गृहे वासरपश्चतुर्थे
युद्धे तु सौख्यं कुरुते नराणाम् ।
शत्रोर्विभागे परसेवया च
मूलत्रिकोणे वधवन्धजातम् ॥४॥
सुखस्थितः शीतकरः स्वतुङ्गे
सुखं विधत्ते गजवाजिजातम् ।
तुङ्गांशके हेमसमुद्भवं च
षड्वर्गशुद्धो विविधं सदैव ॥५॥
नीचाश्रितः शीतकरः
सुखं सदा द्यूतजमेव पुंसाम् ।
नीचांशके भूरिकृषिप्रसूतं
पापस्य वर्गे बहुपापजातम् ॥६॥
मित्राश्रयस्थः खलु शीतरश्मिः
सुखस्थितो भूरिसुखं विधत्ते ।
सुताद्भव मित्रावभागसंस्थो
वर्गोत्तमस्थो वनितोद्भवं च ॥७॥
चतुर्थगो रात्रिपतिः प्रसूते
शत्रोर्गृहे सौख्यमनीतिजातम् ।
शत्रोर्विभागे कपटप्रसूत
मूलत्रिकोणे त्वथ धर्मजातम् ॥८॥
चतुर्थो भूतनयः स्वतुङ्गे
सुखं विधत्ते परसूदनेन
तुङ्गांशकस्थः परबन्धनेन
षड्वर्गशुद्धः परवंचनेन ॥९॥
सुखाश्रितो भूमिसुतस्तु नीचे
सौख्यं कदाचिन्न करोति पुंसाम् ।
नीचांशकस्थः परपोषणेन
पापत्य वर्गे वधबन्धनेन ॥१०॥
मित्रारयस्थः क्षितिजश्चतुर्थे
॥।परदेशयोगात् ।
मित्रांशकस्थः सुरतप्रसङ्ग॥।
वर्गोत्तमस्थः परवित्तनाशात् ॥११॥
शत्रोर्गृहे स्याधदि भूमिपुत्र
र्चतुर्थगः पुंश्चलजं च सौख्यम् ।
धत्ते तदंशे करयोनिजातं
मूलत्रिकोणे सुखमोहनाढ्यम् ॥१२॥
सौम्यः सुखस्थः सुखमेव धत्ते
महाजनोत्थं यदि तुङ्गसंस्थः ।
तुङ्गांशके पार्थिवजं च पुंसां
षड्वर्गशुद्धो व्ययमेव पुंसाम् ॥१३॥
नीचाश्रयस्थः शशिजो विधत्ते
चतुर्थगः क्लेशजमेव सौख्यम् ।
नीचांशकस्थः परसेवया च
॥अतिविर्गहणेन ॥१४॥
मित्राश्रयस्थः शशिजश्चतुर्थे
सुखं विधत्ते वरपुत्रजातम् ।
मित्रांशकस्थस्तु कलत्रजातं
वर्गोत्तमस्थो दुहितोद्भवं च ॥१५॥
शत्र्वाश्रयस्थः शशिजश्चतुर्थे
सुखं विधत्ते क्रयविक्रयेण ।
तस्यैव भागे पशुपालनेन
मूलत्रिकोणे निजबन्धवोत्थम् ॥१६॥
जीवश्चतुर्थे यदि तुङ्गसंस्थो
सुखं विधत्ते सकलं सदैव ।
तुङ्गस्य भागे च तथा तदर्धं
षड्वर्गशुधश्च सुधर्मयुक्तम् ॥१७॥
नीचाश्रितो देवगुरुश्चतुर्थे
सौख्यं विधत्ते बहुनीचसङ्गात् ।
नीचांशकस्थश्च विचित्रभावात्
पापस्य वर्गे परपोषणेन ॥१८॥
मित्राश्रयस्थे सुरराजपूज्ये
चतुर्थगे वंशजमेव सौख्यम् ।
भवेत्तदंशे बहुभृत्यजात
वर्गोत्तमस्थे भगिनीसमुत्थम् ॥१९॥
शत्रोर्गृहथो यदि देवपूज्य॥
स्चतुर्थगो नीचनिषेवणेन ।
सौख्यं विधत्तेऽथ तदंशके वा
मूलत्रिकोणे नृपसङ्गमेन ॥२०॥
शुक्रः स्वतुङ्गे यदि बन्धु
सुखं विधत्ते बहुवित्तजातम् ।
तुङ्गांशकस्थस्तु स्वरोष्ट्रजातं
षड्वर्गशुद्धश्च गजोद्भवं च ॥२१॥
नीचाश्रयस्थो यदि दैत्यमन्त्री
सुखं विधत्ते परनारिजातम् ।
नीचांशके चैव विलासिनीनां
पापस्य वर्गे गुरुपत्निसङ्गात् ॥२२॥
मित्राश्रयस्थो भृगुश्चतुर्थे
सौख्यं विधत्ते बहुगोधनोत्थम् ।
मित्रांशकेऽजाविकमेव नित्यं
वर्गोत्तमस्थो महिषीसमुत्थम् ॥२३॥
शत्रोर्गृहस्थो यदि दैत्यपूज्यः
सुखं विधत्ते कुनिषेवणेन ।
तदंशके वा परदेशवासान्
मूलत्रिकोणे द्विजदेवसङ्गात् ॥२४॥
शनिः सुखस्थो यदि तुङ्गसंस्थः
सुखं विधत्ते मृगपक्षिनाशात् ।
॥ऽके वा विषभक्षिणेन ॥
षड्वर्गशुद्धः कृषिकर्मजातम् ॥२५॥
नीचाश्रितो भास्करजः प्रसूते
चतुर्थगः सौख्यविना मनुष्यम् ।
नीचांशके लोकनिबन्धनेन
पापस्य वर्गे पररन्ध्रसङ्गात् ॥२६॥
मित्राश्रयस्थो यदि
विधत्ते स्वकलत्रभुक्तम् ।
मित्रांशके वा स्वकुतुम्बहीनं
वर्गोत्तमस्थः परपीडनेन ॥२७॥
॥।रानजः प्रसूते
सुखं चतुर्थे परवंचनेन ।
तदंशके मानुषविक्रयेण
मूलत्रिकोणे क्रयविक्रयेण ॥२८॥
सौख्यः सुरराजमन्त्री ॥
शताधिपः सोमसुतः सितश्च ।
ऽली
याधिपाः सूर्यशनैश्चराराः ॥२९॥
स्वतुङ्गसंस्थ।
सौख्यानि यच्छन्ति सदा ग्रहेन्द्राः ।
नीचाश्रिता हीनसुखा भवन्ति
षड्वर्गशुद्धाश्च यथा स्वतुङ्गे ॥३०॥
इति श्रीवृद्धयवने सुखस्थानचिन्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:52:49.9230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वीरबाहु

  • n. धृतराष्ट्र के सौ पुत्रों में से एक । भारतीय युद्ध में यह भीम के द्वारा मारा गया। पाठभेद (भांडारकर संहिता) 
RANDOM WORD

Did you know?

देवक म्हणजे काय ? त्याचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site