TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय ११

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


भौमदर्शनचाराध्यायः
मेषे गतो भूमिसुतः प्रसूते
सूर्येण दृष्टो विधनं मनुष्यम् ।
विहिनबुद्धिं कृपणस्वभावं
विवर्जितं सत्यदयानयद्यैः ॥१॥
मेषाश्रीतो भूमिसुतेअः प्रसूते
चन्द्रेण दृष्टः प्रियमिष्टधर्मम् ।
दयानुरक्तं पितृमातृभक्तं
मुख्यं स्ववर्गे नियतं सदैव ॥२॥
भौमोऽजसंस्थो बुधदृष्टियुक्तः
करोति सत्यं वनितासु दक्षम् ।
पुशिक्षितं शास्त्रकथासु दक्षं
यज्ञोद्यतं पौष्टिकमेव नित्यम् ॥३॥
जीवेन दृष्टः क्षितिजोऽजसंस्थो
नरं सुवाते बहुशास्त्रलुब्धम् ।
हिरण्यवस्त्रैश्च चतुष्पदाद्यं
विवर्जितं पापकथानुषङ्गैः ॥४॥
शुक्रेण दृष्टः प्रकरोति भौमो
मेषाश्रितस्तीर्थकथानुरक्तम् ।
शौचाधिकं देवगुरुप्रसक्तं
स्वधर्मसंस्थं सुरतप्रगल्भम् ॥५॥
नयातिगं बान्धववैरभाजं
सौरेण दृष्टः क्षितिजः प्रसूते ।
मेषे मनुष्यं परदेशरक्तं
विहीनकोपं भयसंयुतं च ॥६॥
वृषाश्रितो भूतनयः प्रसूते
सूर्येण दृष्टो रतिदःसिताङ्गम् ।
विहीनधर्मं जरया समेतं
त्यक्तं जनैः पीडितमुग्रशोकैः ॥७॥
चन्द्रेण दृष्टः क्षितिजो गविस्थो
नरं सुवाते सततं नयज्ञम् ।
प्रियं प्रसचं सततं सुकान्तं
मनोज्ञवेशं भयवर्जितं च ॥८॥
बुधेन दृष्टः क्षितिजो गविस्थः
करोति कीर्त्या सहितं मनुष्यम् ।
नानाधनैः संयुतमिष्टसत्यं
गुरुप्रसक्तं विनयाधिकं च ॥९॥
दृष्टो गविस्थः क्षितिजः प्रशान्तं
जीवेन नित्यं जनयेन्मनुष्यम् ।
पथ्याशिनं सर्वकलासु दक्षं
विचित्ररत्नं पशुसंयुतं च ॥१०॥
शुक्रेण दृष्टो गवि भूमिपुत्रो
गोभूहिरण्यैः सहितं प्रसूते ।
नरं निधिग्रामपुरैः समेतं
सूसंयुतं धर्म परं सदैव ॥११॥
मन्देन दृष्टो बहुमानभाजं
वृषे विधत्ते क्षितिजो मनुष्यम् ।
सुदीर्घसूत्रं विनयेन हीनं
प्रेष्यं खलं पापधनं कृतघ्नम् ॥१२॥
नृयुग्मसंस्थः क्षितिजः प्रसूते
सूर्येन दृष्टः परतर्कुकं च ।
नरं विहीनं सुतमित्रदारैः
पराजितं नीचरतं सुदुष्टम् ॥१३॥
चन्द्रेण दृष्टः क्षितिजस्तृतीये
राशौ प्रसूते नृपपूजिताञ्गम् ।
खरोदृष्टगोवित्तचयेन युक्तं
प्रभाविनं ब्राह्मणसंमतं च ॥१४॥
बुधेन दृष्टः क्षितिजो नृयुग्मे
स्थितः प्रियं बन्धुजनस्य नित्यम् ।
स्त्रीभोगशय्यासनयानयुक्तं
हितं हि सर्वस्य जनस्य नित्यम् ॥१५॥
जीवेन दृष्टो मिथुने दयाढ्यं
कुजः प्रसूते बहुशास्त्ररक्तम् ।
नरं सैदा तीर्थव्रप्रसक्तं
श्रद्धान्वितं शौचसमन्वितं च ॥१६॥
शुक्रेण दृष्टो मिथुने प्रसूते
भौमः प्रगल्भं सुभगं मनुष्यम् ।
विनीतवेषं परवीतभजं
सुसङ्गतं साधुजनस्य नित्यम् ॥१७॥
सौरेण दृष्टः क्षितिजः सपपं
राशौ तृतीये जनयेन्मनुष्यम् ।
रोगाकुलं छिद्रपरं परेषां
स्वभावदुष्टं गतसौहृदं च ॥१८॥
कर्काश्रितो भूतनयःप्रसूते
सूर्येण दृष्टः परसाहसाध्वम् ।
विहीनवीत्तं गुरुरोगभाजं
सदा विहीनं निजबन्धुवर्गैः ॥१९॥
चन्द्रेण दृष्टो धनधान्ययुक्तं
भौमः प्रसूते खलु कर्कटस्थः
दयासमेतं गतपापमिष्तं
सर्वस्य लोके विभवेन युक्तम् ॥२०॥
कर्कस्थितो भूतनयः प्रसूते
बुधेन दृष्टो बहुबुद्धियुक्तम् ।
द्विजातियुक्तं प्रचुरतापं
नृपसादात् परमप्रहृष्टम् ॥२१॥
जीवेन दृष्टः खलु कर्कटस्थो
भौमः प्रसूते सुतसौख्ययुक्तम् ।
नयप्रसक्तं च सुपूजितङ्गं
नृपप्रियं साधुजनेन युक्तम् ॥२२॥
शुक्रेण दृष्टः क्षितिजचतुर्थे
राशौ सुशीलं जनयेन्मनुष्यम् ।
प्रियातिथिं वित्तशुभैः समेतं
नानापशुप्राप्तिसुखं च शान्तम् ॥२३॥
कर्कस्थितो भूतनयः प्रसूते
सौरेण दृष्टः पृथुशोकभाजम् ।
सुदीर्घरोगं विगतप्रतापं
सदातिदीनं नृपपीडितं च ॥२४॥
स्थितः क्षितीसूनुधरः प्रतापं
सिंहे विद्दृष्टो दिननायकेन ।
विनाशितारिं जनयेन्मनुष्यं
सुवेषविद्याधनधान्ययुक्तम् ॥२५॥
सिंहस्थितो भूतनयः प्रशस्तं
चन्द्रेण दृष्टः कुरुते मनुष्यम् ।
सुगन्धधूपाम्बरभोज्यभाजं
शासानुगं धर्मनयेन युक्तम् ॥२६॥
बुधेन दृष्टः खलु सिंहसंस्थो
भौमः सुवाते बहुबुद्धिभाजम् ।
पुष्पाम्बरद्रव्यविलेपनादयं
मिष्टान्नपानैः सततं सुपूज्यम् ॥२७॥
भौमो हरिस्थो गुरुणा च दृष्टो
गुरुप्रसादं जनयेन्मनुष्यम् ।
सुतीर्थयानासनहेमयुक्तं
सुखाधिकामं फलदं प्रगल्भम् ॥२८॥
शुक्रेण दृष्टः प्रकरोति भौमो
हरिस्थितस्त्रासकरं परेषाम् ।
शौर्यान्वितं बान्धवमानभाज
मुत्साहयुक्तं रतलालसं च ॥२९॥
दृष्टोऽर्कपुत्रेण कुजो हरिस्थः
करोति पामागुदरोगभाजम् ।
सदा मनुष्यं कफवातपित्तैः
संपीडिताङ्ग गुरुलोकहीनम् ॥३०॥
कन्याश्रीतो भूतनयः प्रसूते
सूर्येण दृष्टः कुगतिं मनुष्यम् ।
कुमित्रसेवासु सदानुरक्तं
विवर्जितं मानधनैः सदैव ॥३१॥
चन्द्रेण दृष्टः क्षितिजः प्रसूते
कन्याश्रितः सत्यपरं मनुष्यम् ।
मेधाविनं नित्यमुदारचेष्टं
सुसंस्कृतं भूपतिना च नित्यम् ॥३२॥
बुधेन दृष्टः खलु कन्यराशौ
जुकः प्रसूते सुभगं मतिज्ञम् ।
नरं नतं साधजनद्विजानां
महाप्रतापं जनसौहृदं च ॥३३॥
जीवेन दृष्टः क्षितिजः प्रसूते
नरं प्रसिद्धिं नयनाभिरामम् ।
मनोज्ञवेषं शुभवर्तिताञ्गं
कन्ये गुरुणां प्रणयं प्रधानम् ॥३४॥
शुक्रेण दृष्टः खलु कन्यकस्थो
भौमः प्रसूते सुतरां प्रसिद्धम् ।
कुटुम्बसौख्यान्वितसाधभाजं
दयान्वितं मातृपितृप्रभक्तम् ॥३५॥
दृष्टोऽङ्गनायां शनिना च भौमो
नरं प्रसूते विकृतं कुचैलम् ।
व्ययाधिकं कामनिपीडितं च
सदाक्षिरोगैः सहितं नितान्तम् ॥३६॥
तुलाश्रितो भूतनयः प्रसूते
सूर्येण दृष्टः कुरुतेऽतिहानिम् ।
विवेकहानिं सुजनैर्वियोगं
वैरं स्वपक्षेण सदा नरस्य ॥३७॥
तुलाश्रितो भूतनयः प्रसूते
चन्द्रेण दृष्टः सुभगं मनुष्यम् ।
सुभोगदेहं गतशत्रुपक्षं
सदा हितं देवगुरुद्विजानाम् ॥३८॥
दृष्टस्तुलास्थः शशिजेन
भोगान्वितं शिलधनं मनुष्यम् ।
प्रदानशीलं प्रभया समेतं
सुसंस्कृतं पार्थिवमानवैश्च ॥३९॥
जीवेन दृष्टः क्षितिजस्तुलास्थो
नरं प्रसूते बहुधर्मभाजम् ।
द्विजानुकूलं पशुपुत्रयुक्तं
विद्यान्वितं शंसितमेव नित्यम् ॥४०॥
शुक्रेण दृष्टः कुरुते महीज
स्तुलाश्रितः सत्यपरं मनुष्यम् ।
महाधनं दीप्तियुतं प्रगल्भं
सदा हितं बान्धवसध्विजानाम् ॥४१॥
सौरेण दृष्टः क्षितिजस्तुलास्थः
करोति मर्त्यं बहुपापरक्तम् ।
रोगैः समेतं सततं कुशिलं
परान्नरक्तं सततं सुचैलम् ॥४२॥
भौमोऽलिसंस्थ कुरुते मनुष्यं
सूर्येण दृष्टो बहुरोगयुक्तम् ।
नयेन हीनं बहुशत्रुपक्षं
विरुदचेष्तं विकृतानुकारम् ॥४३॥
चन्द्रेण दृष्टोऽतिलगतः प्रसूते
भौमोऽतिनीत्या सहितं मनुष्यम् ।
प्रियातिथिं सर्वसमृद्धियुक्तं
धर्मप्रधानं बहुल्लभं च ॥४४॥
बुधेन दृष्टः प्रकरोति भौमः
स्थितोऽलिराशौ प्रचुरप्रतापम् ।
सुधर्मशिलं बहुतीर्थर्क्तं
विवर्जितं पापजनेन नित्यम् ॥४५॥
जीवेन दृष्टः प्रकरोति भौमः
सदालिसंस्थः स्तुतिभिः समेतम् ।
नितान्तधर्मानुरते प्रशन्तं
सुपूजितं वन्दिजनैः सदैव ॥४६॥
शुक्रेण दृष्टोऽलिगतः प्रसूते
भौमः सुरूपं सुभ ।
शूरं कृतघ्नं धनधान्ययुक्तं
मेधाविनं सत्त्वप  नुशीलम् ॥४७॥
सौरेण दृष्टोऽतिलगतस्तु भौमो
वरं प्रसूते विजय समेतम् ।
पापानुरक्तं विषयातिगं च
व्यमेतशीलं सततं कृतघ्नम् ॥४८॥
चापाश्रितो भूतनयः प्रसूते
सूर्येण दृष्टो ज्वरपित्तभजम् ।
श्लेष्मातिसारोतियुतं सुभिक्षं
गतप्रभावं विनयेन हीनम् ॥४९॥
भौमो हयस्थः शशिना च दृष्टो
करोति शय्यासनचस्त्रभानम् ।
नरं सुयत्रं बहुशास्त्ररक्तं
॥ऽनं सत्यपरं प्रधानम् ॥५०॥
चापाश्रितो भूतनयः सुवाते
बुधेन दृष्टः सुभगमनुष्यम् ।
सुतिर्थरक्तं नृपकार्यदक्षं
दयाप्रं सर्वकलासु दक्षम् ॥५१॥
जीवेन दृष्टः क्षितिजो हयस्थो
नरं प्रसूते बहुधा धनाद्यम् ।
सुवर्णरत्नाम्बरसौख्ययुक्तं
विहीनशत्रुं प्रमदाप्रियं च ॥५२॥
शुक्रेण दृष्टः क्षितिजो हयस्थो
नरं सुवाते विनयप्रधानम् ।
सदा विनीतं हययानयुक्तं
विभूषितं पार्थिवभूषणेन ॥५३॥
षौरेण दृष्टः क्षितिजो ह्यस्थ
करोति पामाकुलमेव नित्यम् ।
शिरोर्तिदोषाकुलितं नृशंसं
निपीडितं मानसजैश्च दुःखैः ॥५४॥
भौमो मृगस्थो रविणा च दृष्टो
नरं सुवाते विकृतं कृतघ्नम् ।
॥ बन्धवधाभितप्तं
विदेशभाजं प्रभया विहीनम् ॥५५॥
भौमो मृगस्थः शशिना च दृष्टः
करोति सौम्यं रतिसौख्यपुष्टम्
विनीत्वेषं प्रचुरन्नपानं
नराधिपाद्यैः सहितं सगर्वम् ॥५६॥
बुधेन दृष्टो मकरे क्षितीजं
करोति नित्यं विनयप्रधानम् ।
नरं कृतघ्नं निरुजं विधिज्ञं
पराक्रमाप्तैः सुधनैः समेतम् ॥५७॥
करोति भौमः खलु जीवदृष्टो
मृगाश्रितः पुण्यधनैर्मनुष्यम् ।
प्रसवमाकर्षणलब्धाभं
हतप्रतापं नियमओः समेतम् ॥५८॥
शुक्रेण दृष्टो मृगगोऽपि भौमः
करोति भोगैः सततं समेतम् ।
मित्रानुरक्तं कृशिकर्मदक्षं
प्रजानुकूलं भयवर्जितं च ॥५९॥
भौमो मृग्स्थः शनिना च दृष्टो
नरं सुवाते बहुसारमेव ।
मित्रैर्विहीन बहुशोकयुक्तं
सदा नितान्तं परपक्षजानाम् ॥६०॥
भौमो घटस्थो रविणा च दृष्टः
करोति मर्त्यं सुकृतप्रभावम् ।
व्यपेतलज्जं सुतबन्धुहीनं
कृष्याधिकं सौहृदवर्जितम् च ॥६१॥
चन्द्रेण दृष्टः क्षितिजो घटस्थो
नरं सुवते बहुसभ्यजं च ।
द्विजातितीर्थामरभक्तियुक्तं
नयाधिकं कामफलः समेतम् ॥६२॥
बुधेन दृष्टो घटसंस्थभौमो
नयेन युक्तं जनयेन्मनुष्यम् ।
प्रियातिथिं पार्थिवलब्धमानं
सदा सुशिलं बहुधर्मभाजम् ॥६३॥
जीवेन दृष्टो घटगोऽथ वक्रः
दानं विवेकं च विवेकभाजम् ।
नरं धनादयं बहुधर्मयुक्तं
गतारिपक्षं सुरविप्रभक्तम् ॥६४॥
शुक्रेण दृष्टो घटगश्च भौमः ॥६५॥
सौरेण दृष्टः क्षितिजो घटस्थः
करोति नानाविधदुःखभाजम् ।
हतप्रतापं सुजनैः समेतं
प्रियतिथिं ब्राह्मणवल्लभं च ॥६६॥
मीनस्थितो भूतनयोऽर्कदृष्टः
करोति नित्यं कलहैः समेतम् ।
नरं सुदीनं वयसा समेतं
कृशं विवर्णं नृपपीडितं च ॥६७
चन्द्रेण दृष्टो ह्यषगोऽथ भौमो
नरं सुवाते वरयानभाजम् ।
चतुष्पदादयं वनितास्वभीष्टं
जितेन्द्रियं भोगसमन्वितं च ॥६८॥
बुधेन दृष्टः प्रकरोति भौमो
ह्यषस्थितः शौचपरं मनुष्यम् ।
वापीतहागामरजेषु रक्तं
हितं स्वपक्षे परवर्जितं च ॥६९॥
जीवेनदृष्टः कुरुते तु भौमो
ह्यषाश्रितो बुधविवर्धनं च ।
मनोज्ञदेहं शुभवस्त्रभाजं
भोगाधिकं पुण्यविवृद्धिभाजम् ॥७०॥
शुक्रेण दृष्टः क्षितिजो ह्यषस्थो
नरं सुवाते बहुसौख्ययुक्तम् ।
विज्ञं सुरूपं गलितरिपक्षं
सदा विनीतं नृपतेरभीष्टम् ॥७१॥
सौरेण दृष्टो बहुमन्दभाजं
मीनाश्रितो भूतनयः प्रसूते ।
सदातुर शोकपरं कृतघ्नं
सुदिर्घसूत्रं व्यसनैः समेतम् ॥७२॥
इति श्रिवृद्धयवने भौमदर्शनचारः ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:29:34.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपण कमाऊन आणावें, सोयर्‍याचें घर भरावें

  • आपल्या आप्तेष्टास आपण जर काही दिले तर ते कधी आपल्‍या उपयोगी पडत नाही. विशेषतः स्त्रीच्या नातेवाईकांकडे आपण पोचविलेली रक्कम अगर वस्तु कधी परत येण्याची आशा नसते. परंतु काही लोक अशा तर्‍हेनें आपल्या सोयर्‍यांची भर करतात 
  • त्यांस पुढें पश्र्चात्ताप करण्याची पाळी येते. 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.