TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय ९

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सूर्यदर्शनचारफलाध्यायः
मेषं गतोऽर्कः शशिना च दृष्टः
करोति मर्त्यं सुजनस्वभावम् ।
प्रसजमूर्तिं प्रचुराज्ञपानं
नरेन्द्रपूज्यं विगतारिपक्षम् ॥१॥
भौमेन दृष्टो रविरेव मेषे
नरं विद्धते गजवजिभाजम् ।
प्रियातिथिं देवगुरुप्रसक्तं
प्रतापिनं ब्रह्मणसंमतं च ॥२॥
यदा रविः सोमसुतेन दृष्टो
मेषे तदा सौख्यधनेन युक्तम् ।
करोति मर्त्य बहुरोगभाजं
विनितवेषं नृपपुजितं च ॥३॥
जीवेन दृष्टः सुतसौख्यलाभं
करोति सुर्यः परमं च तेषम् ।
मेषे सदा भन्धुजनारुपूजो
विवेकविद्यागसत्यतां च ॥४॥
॥५॥
करोति पूंसां खलु मेषसंख्यो
। महाविधातं स्वसुतेन दृष्टः ॥६॥
वृषे गतो वासरपः प्रसूते
चन्द्रेण दृष्टः प्रचुरप्रतापम् ।
धर्मानुरागं परलोकलाभं
विद्वज्जनैः सङ्गममास्यदं च ॥७॥
सूर्यो वृषे भूमिसुतेन दृष्टः
पुंसां विधत्ते बहुमानहानिम् ।
उद्वेगमानं पशवित्तहानिं
कुमित्रसङ्ग विविधं च कामम् ॥८॥
सौम्येन दृष्टो वृषगः खरांशः
करोति मर्त्यं सुतंपः समेतम् ।
धर्मक्रियाराधनतत्मरं च
प्रियातिथिं पार्थिववल्लभं च ॥९॥
जिवेन दृष्तः प्रचुराचपानं
रविर्विद्धते प्रचुराश्च नाय।
सूर्यो वृषस्यः प्रकरोति पुंसां
हेमाम्बराश्चप्रभवं च लाभम् ॥१०॥
गुणानुरागं परपक्षनाशं
हिरण्यमुक्तामणिवक्त्रलाभम् ।
सूर्यो वृषस्यः प्रदिदाति पुंसां
शुक्रेण दृष्टः प्रदिदाति वृद्धिम् ॥११॥
सौरेण दृष्टः प्रमदाविघातं
वित्तप्रणाशं गुदपादरोगम् ।
वृषस्थितो भास्कर एव धत्ते
हिंसाविघातं बहुधर्मवृद्धिम् ।१२॥।
नृयुग्मसंख्यो दिनपो नराणां
चन्द्रेण दृष्टः सततं करोति ।
ज्वरप्रकोपं मुखगुह्यरोगं
विवादमायासु गुरुप्रकोपम् ॥१३॥
सुर्यो नृयुग्मे मनुजस्य धत्ते
भौमेन दृष्तः खलतां सदैव ।
मतिप्रकाशं विभवं विवेकं
कलत्रपुत्रप्रभवं च सौख्यम् ॥१४॥
नृयुग्मसंस्थोऽपि जयं विधत्ते
सौम्येन दृष्तो नृपतेः प्रियत्वम् ।
तथा नराणां बहुवित्तलाभं
नृपैः सह सङ्गमनं करोति ॥१५॥
तृतियराशौ दिनपः प्रसूते
जीवेन दृष्तः प्रभुतां विचित्राम् ।
सन्मप्तमारोग्यकलत्रभाजं
सुसाधुना साधुजनेन सख्यम् ॥१६॥
नृयुग्मसंस्थो विधृतं दिनेशः
शुक्रेण दृष्तः कुरुते मनुष्यम् ।
विद्यार्थभोगं प्रणयेन युक्तं
हितं सपक्षं द्विजदेवभक्तम् ॥१७॥
मन्देन दृष्तः पुरुषं सुनीचं
गतप्रभावं सविता विधत्ते ।
नृयुग्मसंस्थोऽर्थदयाविहिनं
कृतघ्नमुग्रं परपक्षरक्तम् ॥१८॥
कर्कस्थितो अर्कः शशिना च दृष्तो
हिमार्थभोगंप्रभवं विधत्ते ।
सौख्यं सुसौभाग्यंमथ प्रतापं
चन्द्रेण दृष्तः सुतरां गुरुत्वम् ॥१९॥
भौमेन दृष्तो वदनक्षिरोगं
करोति सूर्यः खलु कर्कटस्थः ।
प्रियावियोगं विनयार्थनाशं
विगर्हणं सूनुकृतं सदैव ॥२०॥
बुधेन दृष्तः खलु कर्कटस्यः
सूर्यो विधत्ते नियतं मनुष्यम् ।
गतारिपक्षं विभवैः समेतं
प्रियातिथिं बान्धववल्लभं च ॥२१॥
दृष्तः सुरेज्येन दिनाधिनाथो
नरं विधत्ते सुभगं मनोज्ञम् ।
मुख्यं प्रसिद्धिं सुतदारयुक्तं
विवेकिनं ब्रह्मणसंमतं च ॥२२॥
विद्याप्रतापार्थधनैः समेतं
नरं विधत्ते भृगुजेन दृष्तः ।
कर्काश्रितो वासरपः प्रतापं
सदानुकूलं निजबान्धवानाम् ॥२३॥
मन्देन दृष्तः सविता प्रसूते
नरं नितान्तं कलहप्रधानम् ।
आलस्यनिद्राक्षिरुजासमेतं
सदातिहृष्टं परतर्ककं च ॥२४॥
सिंहस्थितो वासरपः प्रसूते
चन्द्रेण दृष्तः सुभगं मनुष्यम् ।
भूक्षेत्रवित्तप्रभया समेतं
सख्यं गुरुणां विनयेन युक्तम् ॥२५॥
भौमेन दृष्तः खल सिंहसंस्थो
भानविधत्तेऽक्षिरुजा समेतम् ।
नरं विहिनं सुतमित्रदारैः
सदा कुचैलं विनयेन हीनम् ॥२६॥
बुधेन दृष्टो दिनपः प्रसूते
सिंहाश्रितः सौम्यतरं मनुष्यम् ।
प्रियंवदं धर्मविधानदक्षं
स्वपक्षपूज्यं सुरकार्यदक्षम् ॥२७॥
जीवेन दृष्टः सविता प्रसूते
नरं विदग्धं प्रचुरप्रतापम् ।
सिंहाश्रितः पुण्यपरं कृतज्ञं
विहीनपापं प्रणतारिपक्षम् ॥२८॥
सिंहाश्रितो भार्गवजेन दृष्टः
सूर्यः प्रसूते स्वगृहं प्रयतः ।
॥।श्चर्यबुद्धर्थविवेकयुक्तं
नरं प्रधानं प्रभया समेतम् ॥२९॥
मन्देन दृष्टो बहुमन्दभाज
नरं प्रसूते दिनपः स्वराशौ ।
व्ययासुखक्लेशभयैः समेतं
दुष्टस्वभावं गतसौहृदं च ॥३०॥
कन्याश्रितो वासरपः प्रसूते
नरं सुरूपं सुभगं मनोज्ञम् ।
चन्द्रेण दृष्टो नृपमानभाजं
महाधनैः संयुतमुग्रलाभम् ॥३१॥
करोति भानुर्बहुरक्तभाजं
कन्याश्रितो धान्यधनेन युक्तम् ।
चन्द्रेण दृष्टो मणिमुत्ककाढ्यं
प्रियवदं मानधनैः सदैव ॥३१अ॥
हृद्रोगमामाज्वरपित्तवातैः
संपिडितं वासरपः प्रसूते ।
कन्याश्रितो भूमिसुतेन दृष्टो
नरं कुविद्यागमसंश्रितं च ॥३२॥
बुधेन दृष्टो दीनपच कन्ये
करोति शय्यासनवाहनाद्र्यम् ।
सदा सुमुख्यं सुभगं मनुष्यं
प्रीयागमं बन्धुविशारदं च ॥३३॥
दृष्टः सुरेज्यन रविः प्रसूते
कन्ये नरं धर्मपरं प्रधानम् ।
द्विजापुरक्तं विगतारिपक्षं
सुपूजितं भूमितले नरेन्द्रैः ॥३४॥
शुक्रेण दृष्टः सविता प्रसूते
प्रख्यातवीर्यं सुभगं मनुष्यम् ।
विवेकविद्यागमशस्त्रलब्धं
महाधनं शौर्यपरं सदैव ॥३५॥
सौरेण दृष्टः प्रकरोति भानुः
कन्याश्रितो रोगभयेन युक्तम् ।
विदेशभाजं परपक्षरक्तं
पौरं परुषं प्रभया विहीनम् ॥३६॥
सूर्यस्तुलास्थो हिमरश्मिदृष्टः
करोति जाड्यं बहुशोकयुक्तम् ।
निस्त्रिंशभावं धनलाब्धिनशं
नृणां तथा चौरविमोषणं च ॥३७॥
भौमेन दृष्टः सविता प्रसूते
रक्तानिलश्लेष्मजमेडरोगम् ।
भयं प्रवासं कलहं च वैरं
स्वधर्महीनं नीकृतं सदैव ॥३८॥
बुधेन दृष्टः सविता प्रसूते
तुलाश्रित्यो कामरतं मनुष्यम् ।
लज्जाविहीनं कुनृपप्रसक्तं
नीचानुरक्तं प्रियसाहसं च ॥३९॥
जीवेन दृष्टः प्रकरोति भानु
र्नरं तुलास्यः प्रणयेन हीनम् ।
नीचाप्तमानं परधर्मरक्तं
सुगन्धयुक्तं नर्वर्जितं च ॥४०॥
शुक्रेण दृष्टः सविता प्रसूते
नरं नितान्तं गणिकासु रक्तम् ।
तुलाश्रितः सत्यधनं कुधर्मं
पाषण्डिनामिष्टंमनिष्टमित्रम् ॥४१॥
सौरेण दृष्टः प्रभया विहीनं
नरं प्रसूते सविता तुलास्यः ।
कुचैलिनं बन्धवलोकयुक्तं
सुनिष्ठुरं नूनमनिष्टबुद्धिम् ॥४२॥
चन्द्रेण दृष्टः सवितालिसंस्थः
करोति नानविधयुक्तमेव ।
परं प्रगल्भं प्रभया समेतं
हतारिपक्षं गतसाध्वसं च ॥४३॥
भौमेन दृष्टोऽतिकठोरवाक्यं
रविर्विधत्तेऽलिगतो मनुष्यम् ।
धनैर्विमुक्तम् सततं कुशिलं
महभयैः सङ्गमनेन नित्यम् ॥४४॥
बुधेन दृष्टोऽष्टमरशिसंस्थो
रविर्विधत्ते सुभगं मनोज्ञम् ।
नरं नयज्ञं धनधान्यभाजं
संश्रामितं साधुजनेन नित्यम् ॥४५॥
जीवेन दृष्टोऽलिगतो द्युनाथः
करोति पण्यैर्विविधैः समेतम् ।
प्रियंवदं सर्वजनैः समेत
मलोलुपं पूजितमन्यलोकैः ॥४६॥
सदा सुशिलं च सुमित्रभाजं
नानारवाढ्यं सुभगं सुरूपम् ।
करोति भानुः खलु वृचिकस्यः
शुक्रेण दृष्टः प्रवरं मनुष्यम् ॥४७॥
सौरेण् दृष्टोऽष्टमगो विवस्वान्
पापानुरक्तं कुरुते मनुष्यम् ।
सदा विलोमं निजबन्धुवर्गै
स्त्रासाधिकं निष्ठुतमोजसार्तम् ॥४८॥
चापाश्रितस्तीक्ष्णकरोऽतिसौर
चन्द्रेण दृष्टो जनयेन्मनुष्य
शास्त्रानुरक्तं प्रणतारिपक्षं
धनाधिकं ब्रह्मणसंमतं च ॥४९॥
विवर्णदेहं हतमानवर्गं
प्रशान्तवीर्यं विनयेन हीनम् ।
चापाश्रितो वासरपः प्रसूते
भौमेन दृष्टोऽतिखलं मनुष्यम् ॥५०॥
सौम्येन दृष्टः सुतसौख्ययुक्तं
भानुः प्रसूतो हयगो मनुष्यम् ।
प्रियातिथिं देवगुरुप्रसक्तं
नयाधिकं बन्धववल्लभं च ॥५१॥
स्ववर्गमुख्यं परवर्गमान्यं
पापैर्विमुक्तं पशुपुत्रलाभम् ।
भानुर्हयस्यः सुरपूज्यदृष्टो
धर्माधिकं संजेनयेन्मनुष्यम् ॥५२॥
शुक्रेण् दृष्टः सविता प्रसूते
हयाश्रितः सत्पभया समेतम् ।
नरं सुशीलं बहुरत्नभाजं
गुणानुरक्तं विभुतासमेतम् ॥५३॥
हयाश्रितो वासरपः प्रसूते
पापानुरक्तं च खलं मनुष्यम् ।
रोगातुरं पुण्यधनैर्व युक्तं
सुनिष्ठरं स्नेहविवर्जितं च ॥५४॥
मृगाश्रितो रात्रिकरेण दृष्टः
करोति भानुः सुभगं मनुष्यं ।
दानानुरक्तं सुविशालरक्तं कीर्तिं
सुसंप्रसक्तं विनयोपपन्नम् ॥५५॥
भौमेन दृष्टः समरोगभाजं
करोति सूर्यो मृगगः सदैव ।
प्रियाटनं पार्थिवचौरमुष्टं
दयाविहीनं विधनं खलं च ॥५६॥
बुधेन दृष्टः सविता प्रसूते
मृगाश्रितः प्राणयशः प्रगल्भम् ।
सौख्याधिकं धर्मपरं प्रधानं
गतारिवर्गं सुधनं मनोज्ञम् ॥५७॥
जीवेन दृष्टो दशमस्य एव
नरं प्रसूते दिनपः सुपक्षम् ।
रतानुकुलं हतपापवर्गं
विभूषितं पूण्यविलेपनाद्यैः ॥५८॥
शुक्रेण दृष्टः सविता प्रसूते
नरं विदग्धं मकराश्रितश्च ।
सदेश्वरं प्रानभृतां वरिष्ठं
विशं प्रियातत्मरधर्मरक्तम् ॥५९॥
विहीनवेषं गतपुत्रदारं
जनैर्विमुक्तं सततं कुचैलम् ।
भानुर्मृगस्थो जनयेन्मनुष्यं
विवर्जितं मनिचपैः सदैव ॥६०॥
कुंभं गतोऽर्कः शशिना च दृष्टो
नरं प्रसूते बहुलाभभाजम् ।
प्रियंवदं सत्यरतं सुशीलं
हतारिपक्षं प्रणषं द्विजानाम् ॥६१॥
भौमेन दृष्टः सविता प्रसूते
कुम्भाश्रितः पापरतं मनुष्यम् ।
दुष्टस्वभावं परवित्तलुब्धं
दीनं कृशं बुद्धिविवर्जितं च ॥६२॥
सूर्यो घटस्थः शशिजेन दृष्टः
करोति सौम्यं सुभगं मनुष्यम् ।
विर्योनदुःखं बहुशास्त्रदृष्टं
॥कीर्तिभाजम् ॥६३॥
सूर्यो घटस्थः प्रकरोति वृद्धिं
जीवेन दृष्टः प्रथितं मनुष्यम् ।
सदा मनोज्ञं गुणसाररक्तं
प्रभाविन दानपरं प्रधानम् ॥६४॥
शुक्रेण दृष्टः सविता प्रसूते
कुम्भाङ्गितः प्रीतिकरं मनुष्यम् ।
आरोग्यदेहं परुषार्थमु।
विनीतवेषं बहुलाभभाजम् ॥६५॥
मन्देन दृष्टः प्रकरोति भानुः
कुम्भाङ्गितः क्लेशभवेन युक्तम् ।
जडस्वभावं कुटिलं कृतघ्नं
संत्यत्कशीलं भयविह्नलं च ॥६६॥
मीनाश्रितो वासरपः प्रसूते
चन्द्रेण दृष्टः प्रचुर्प्रभावम् ।
सुवर्णतम्रायसरौप्यभाजं
नतं द्विजानां सततं विधिज्ञम् ॥६७॥
भौमेन दृष्टः प्रकरोति भानु
र्मीनाश्रितः क्लेशकदर्थिताङ्गम् ।
नरं सुरक्तं नृपतेरनिष्टं
लज्जाविहीनं सुनिराश्रयं च ॥६८॥
बुधेन दृष्टो दिनपः प्रसूते
मीनाश्रितः सत्यपरं मनुष्यम् ।
बुद्धा समेतं प्रियमीष्टधर्मं
प्रियातिथिं शौचसमन्वितं च ॥६९॥
सुरेज्यदृष्टो ह्यषराशिसंस्थो
भानुः प्रसूते बहुवित्तयुक्तम् ।
नरं विधत्ते विविधान्नपानं
तीर्थापुरक्तं वरवस्त्रलाभम् ॥७०॥
शुक्रेण दृष्टः सविता प्रसूते
मीनाङ्गितस्त्यागपरं मनुष्यम् ।
मानार्थशय्यासदानयुक्तं
दासानुकूलं प्रमदजनस्य ॥७१॥
उद्वेगशोकाकुलमिष्टपापं
मन्देन दृष्टः सविता विधत्ते
मीनाश्रितो वंचनचौररक्तं
सदातुरं मित्रविवर्जितं च ॥७२॥
इति श्रीवृद्धयवने सूर्यदर्शनचारफलानि ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:26:40.2670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

normal school

  • प्रशिक्षण विद्यालय 
  • शिक्षक प्रशिक्षण संस्था 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site