TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय ६

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


दशाध्यायः
आयुर्दया येन पुरा ही दन्तं
तत्संमिता तस्य दशा प्रदीष्टा ।
शन्तान्तरा सा च गणैर्विचिन्त्या
दोषैश्च तज्ज्ञैः फलनिर्णयार्थम् ॥१॥
नवांशमित्रस्वगृहोपगस्य
स्वभावशुभा हि दशा ग्रहस्य ।
आतोऽन्यग्रा पापफला प्रदिष्टा
द्याभ्यं फलं ॥ समं मुनीनाम् ॥२॥
रवेर्दशायामतितिक्ष्णमोजः
प्राप्नोति मानोपचयं महान्तम् ।
धनानि चामीकरताम्रशस्त्रं
संजायते बन्धुसुखं शुभायाम् ॥३॥
भयावहस्तेयपरापवादान्
क्लेशान् विचित्रान् कुलवैरमुग्रम् ।
पापात्मकायां गुदवक्त्ररोग
मनेकशोक मतिविभ्रमं च ॥४॥
नित्यं विभूषामणिमंचलाभं
मिष्टान्नपानं प्रमदानुरागम् ।
चान्द्री दशा साधुफला नराणां
नरेन्द्रपूजां तनुते सदैव ॥५॥
प्रवासं स्वजनैर्विवाद
मिष्टैर्वियोगं सततं रुजं च ।
अनिष्टरूपां परपक्षवृधिं
चान्द्री दशा रोगभयं करोति ॥६॥
प्राप्नोति भौमस्य दशाविपाके
धनानि चौर्याहवविक्रमेभ्यः ।
सौवर्णताम्रक्षितिपाग्नितः सदा
शुभैः प्रयोगैर्विविधैरनिष्टैः ॥७॥
तृष्णाजवरासृग्विषपित्तर्मूछा
गात्राङ्गभ्ङ्गान् विविधांश्च रोगान् ।
पापे तु भौमस्य दशाविपाके
क्रोधक्रियोत्साहमधर्मबुद्धिम् ॥८॥
बौधीं दशां प्राप्य गुणप्रशंसां
प्राप्नोति शश्चत् प्रियतां नृलोके ।
सुवर्णमुक्तामणीरत्नलाभं
शुभां विभूतिं च जनातिगां च ॥९॥
प्रमेण युक्तः कफपित्तभाजी
विवर्णदेहः पुरुषः प्रसन्नः ।
बौधीं दशां प्राप्य विरूपचेष्टौ
भवेन् मनुष्यः पतितानुरक्तः ॥१०॥
गुरोर्दशायां लभतेऽतिमानं
गुणोदयं बुद्धवबोधमग्न्यम् ।
स्थितिप्रतापद्युतिकात्तिभोगान्
॥ऽत्म्यचेष्टाफलमुत्तमायाम् ॥११॥
मूर्दार्थचिन्ता च विरूपकायां
रोगश्च शश्चत् प्रियविप्रयोगः ।
गुरोर्दशायां मुखरोगपीडा
संजायते स्त्रीनृपजं भयं च ॥१२॥
भृगोर्दशायां लभते सुखानि
स्त्रीपुत्रजातानि नृपोद्भवानि ।
इष्टान्नपानाम्बरगन्धमाल्यं
शुभाश्रयायां परमां च तुष्टिम् ॥१३॥
असत्फलायां च भृगोर्दशायां
नृपैर्विषादि कुलवृन्दमुख्यैः ।
विरुध्यतेऽधर्ममुपाश्रीतैच
संप्रीयते दुष्टनितम्बनीभिः ॥१४॥
प्राप्नोति सौरस्य दशाप्रवेशे
शुभे शुभं भूपतिभूमिसङ्गतः ।
कुधान्यजीर्णाम्बरगर्दभोष्ट्रैः
संयुज्यतेऽर्थैर्महिषाटिभीश्च ॥१५॥
सौरस्य पापे तु दशाविपाके
कुतुम्बवैरं प्रियविप्रयोगः ।
संजायते गुह्यविकाररोगः
कुमित्रसङ्गः पशुवित्तहानिः ॥१६॥
दशा विलग्नस्य चरस्य पूर्वे
भागे तृतीये शुभदा नराणाम् ।
मध्या द्वितीये विफला तॄये
शस्ता समान्त्या द्विभवे विलोमः ॥१७॥
स्थिरे खलेष्टान्यतमा नराणाम् ॥१७॥
वर्गाः सदैव क्रमशो विचिन्त्याः
शुभातिशुभ्रा ग्रहसौम्ययुक्ता ।
मध्याफला मध्यफला खला च
खलाखलान्यातिखला प्रदिष्टा ॥१८॥
शुभा शुभं योगफलं विधत्ते
हिरण्यमुक्ताफलरत्नलाभान् ।
आरोग्यमोजः स्वकुलस्य पूजां
दशा विलग्नस्य नृणां प्रसूते ॥१९॥
मध्या तु मध्यं फलमातनोती
दशा विलग्नस्य शुभा नराणाम् ।
कष्टेन लाभं निधनेन मैत्रीम्
कुपण्यसेवाविकृतिप्रमादम् ॥२०॥
पापा विलग्नस्य दशा प्रयाता
भयं सुशोर्क कलहं विवादम् ।
करोति नित्यं परदारसङ्गं
विबुद्धिनाशं सततं प्रवासम् ॥२१॥
निशाकरादित्यविलग्नभानां
तत्कालयोगादधिकं बलं यः ।
विधर्ति तस्यादिदशा प्रयोज्या
सर्वग्रहाणामुदयान्वितानाम् ॥२२॥
ततस्त तत्रैव गतस्य चिन्त्या
चतुर्थकामाम्बरगस्य पश्चात् ।
तेषां द्वितीये च ततस्तृतीये
स्थाने स्थितस्य क्रमशो ग्रहस्य ॥२३॥
एकर्क्षगानां तु बलाधिकस्य
देया दशा पूर्वतरं ततोऽन्या ।
दशार्धकालं लभतेऽर्कसंस्थ
स्तृतीयभागं च त्रिकोणगो यः ॥२४॥
भागं चतुर्थ चतुरस्त्रसंस्थः
सप्तांशकं सप्तमगो स वाच्यम् ।
सदा फलं वा सुररश्मियोज्यं
मित्रोच्चनीचस्वगृहत्रिकोणजम् ॥२५॥
फलानि शेषाणि दशाविपाके
निजानि देयानि निजग्रहस्य ।
अन्तर्दशास्येव विचिन्त्य जन्म
तत्कालजातानिं यथातथानि ॥२६॥
षड्वर्गवीर्येक्षणलग्नभावजा
दशादिपंचोत्तरवृद्धिसंयुताः ।
दशासु सर्वासु फलांशकाः स्मृताः
शश्चद्ग्रहाणां क्रमशो निसर्गजाः ॥२७॥
ग्रहस्य लिप्ताः स्वफलांशताडिता
स्तत्कालजऽतैः फलजैर्विभाजिताः ।
फलानी शेषाणि यथागतानि
दशांशभेक्तृणि निजांशसंख्यया ॥२८॥
भनोर्मृगाद्यं शशिनो घटादिकं
तुलादि भौमस्य गुरोरजादिकम् ।
बुधस्य युग्मादि हयादिकं भृगोः
कर्काटी सौरेः प्रविचिन्तयेत् फलम् ॥२९॥
स्वतुङ्गहीनस्य कला ग्रहस्य
विभाजीताः पुष्करसप्तपाणिभिः ।
विंशांशकाद्यं फलमाप्तमौच्चकं
नखाधिकं त्याज्यमयो नखेभ्यः ॥३०॥
फलं फलांशाभिहतं नखोद्भृतं
शेषं फलं विंशतिर्भागसंमीतम् ।
ज्ञेयं ततो नीचफलं स्वसप्तमा
द्राशेर्ग्रहाणां विधिनामुनैव ॥३१॥
लग्ने तृतियेऽष्टमके च लग्नजं
फलं तथा विंशतिमेव भावजम् ।
स्थाने विचिन्त्यं कुटिलो ॥
ण्येतानि सौम्यानि दशाफलं च ॥३२॥
नीचेऽस्तगे चार्धफलं शुभग्रहे
पूर्णत्वमिष्टैर्विपरितमुच्चगैः ।
नीचास्तगे वक्रगते समं फलं
तस्यैव तुङ्गे द्विगुणं प्रकीर्तितम् ॥३३॥
पापा दशा पापभवान्तरा वा
पापाष्टवर्गे च यदा न शुभ्रा ।
 मृत्युर्दिवसे हि तस्य
संजायते पापकृतस्य जन्तोः ॥३४॥
दशाप्रवेशेऽष्टमगे तु दृष्टे
स्वेनारिणा शत्रुगृहस्थितेन ।
तदाममृत्युं कुरुते दशायां
तस्यैव पापोद्भवपाकमध्ये ॥३५॥
त्रिंशांशके यस्य गृहस्य संस्थः
स्थानेऽष्टमे पापफलः शुभो वा ।
तेनैव दृष्टः कुरुतेऽपमृत्युं
॥रेण तस्यैव यशोदिते वा ॥३६॥
पाकाधिपः सर्वविरुद्धवर्गे
स्थितोऽपमृत्युं कुरुते नराणाम्
क्रूरैर्विदृष्टो यदि वा न सौम्यै
र्नीचाश्रितो वा खलु निर्जितश्च ॥३७॥
षष्ट्यब्दमध्ये तु यदायुः सप्त
विभाजयेत्तेन परंपराणाम् ।
लब्धं च यच्छेदकसंश्रितं तन्
द्वेदात् परं जन्मवदेव चिन्त्यम् ॥३८॥
छेदोऽपमृत्युर्मरणं तृतीयं
भवेन्नराणां नियतं सदैव ।
धर्मक्रियाभीर्हरतेऽपमृत्युं
छेदं तु कृच्छ्रेण ग्रहप्रभावात् ॥३९॥
असाधनं स्थान मरणं नराणां
सर्वैरुपायैरपि देवतानाम् ॥४०॥
पाकाधिपः स्याद्यदि सौम्यवर्गे
दशाप्रवेशे त्वथ तुङ्गगो वा ।
न छेदकः स्यान्न तथापमृत्यु
स्तस्यां दशायामिदमाह वेधाः ॥४१॥
नीचप्रवृत्ता रविमण्डलस्था
ग्रहेण भग्नाः खलवर्गयुक्तः ।
सर्पाहता मन्त्रबलेन यद्वत्
तद्वत् सवर्गाः शुभदा न खेटाः ॥४२॥
एवांविध घ्नत्ति शुभानि सर्वे
फलानि पापानि च वर्धयन्ति ।
मिश्राश्च मिश्रं परिपाचयन्ति
नीचास्तकेन्द्रे फलपादहानिः ॥४३॥
इति श्रीवृद्धयवने दशाध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:23:03.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

श्याकार

  • n. कश्यपकुलोत्पन्न एक गोत्रकार । 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.