पूर्वखण्डः - अध्याय २६

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


तृतीयसंस्थो यदि वासरेशो
मित्रं नृपं तुङ्गगतो विधत्ते ।
तुङ्गांशके वा नृपसंभवं च
षड्वर्गशुद्धस्त्वथ सार्वभौमम् ॥१॥
नीचाश्रितो नीचधनं विधत्ते
मित्रं तृतीये यदि तीक्ष्णरश्मिः ।
नीचांशके भिक्षुकपुत्रवैरं
पापस्य वर्गे त्वथ वारणं  च ॥२॥
मित्राश्रयस्थो यदि वासरशी
मित्रं द्विजेन्द्रं कुरुते तृतीये ।
मित्रांशकस्थो जनयेत् सुशीलं
वर्गोत्तमस्थोऽद्भुतशास्त्ररक्तम् ॥३॥
रवितृतीयेऽरिगृहं प्रयातो
मित्रं विधत्ते रिपुवर्जिताङ्गम् ।
द्विषविभागे गुणवर्जितं च
मूलत्रिकोणे पतिमेव शान्तम् ॥४॥
तृतीयगः शीतकरः सुवाते
मित्रं स्वतुङ्गे कृपणस्वभावम् ।
मेव भागे परतर्ककं च
षड्वर्गशुद्धः परदाररक्तम् ॥५॥
नीचाश्रितो रात्रिपतिस्तृतीये
मित्रं स्वातेऽत्यजमेव नित्यम् ।
नीचस्य भागे त्वथ नर्तकं च
भण्डं च वर्गे खलसम्भवं च ॥६॥
मित्राश्रयस्थो यदि शीतरश्मि
र्मित्रं सुवाते परवंचकं च ।
मित्रस्य भागे बहुदोषजं च
वर्गोत्तमस्थो घृणया विहीनम् ॥७॥
तृतीयगः शीतकरो विधत्ते
नराधमं शत्रुगृहं प्रयातः ।
शत्रोर्विभागे बहुमाययाढ्यं
मूलत्रिकोणे परदाररक्तम् ॥८॥
भौमस्तृतीये यदि तुङ्गसंस्थो
मित्रं विधत्ते वरभूमिपालम् ।
तुङ्गांशके वा नृपतेरमात्यं
षड्वर्गशुद्धो द्वितयं सदैव ॥९॥
नीचाश्रितो भूतनयस्तृतीये
मित्रं विधत्ते बहुकामसक्तम् ।
नीचांशकस्थो भृतकं च वैद्यं
पापोत्थवर्गे व्यसनाभिभूतम् ॥१०॥
मित्राश्रयस्थो यदि भूमिपुत्र
स्तृतीयगो भूरिसुखं प्रसूते ।
मित्रांशके वाक्षयजं कुमारं
वर्गोत्तमस्थः प्रचुरान्नपानम् ॥११॥
शत्रोर्गृहस्थो यदि भूमिपुत्रो
मित्रं प्रसूते सहजाश्रितं च ।
तस्थैव भागे च समृद्धिभाजं
मूलत्रिकोणे त्वथ दण्डनाथम् ॥१२॥
सौम्यस्तृतीये यदि तुङ्गसंस्थो
॥ शान्तमतिं प्रसूते ।
तुङ्गांशके कंचकिन सम।
षड्वर्गशुद्धः सुतरा कृत् ॥म् ॥१३॥
नीचारितः सोमसुतस्तृतीये
मित्रं विधत्ते वृजिनैः समेतम् ।
गोपालकं नीचविभागसंस्थः
पापस्य वर्गे गतसौहृदं च ॥१४॥
मित्राश्रयस्थः शैजस्तृतीय
मित्रं सुवाते बहुकर्मभाजम् ।
भागे त्वथ नापितं च
खलरम् ॥१५॥
शत्रोर्गृहस्थो यदि सोमपुत्रो
मित्रं तृतीये कुरुते सुनिन्धम् ।
तस्थैव भागे जनितातिगं च
मूलत्रिकोणेऽथ मलिम्लुचम् च ॥१६॥
नीचस्तृतीये यदि तुङ्गसंस्थो
मित्रं सुवात् विनयेन हीनम् ।
उच्चांशके दम्भपरं नृशंसं
षड्वर्गशुद्धस्तु तथाप्रजं च ॥१७॥
नीचाश्रितो देवगुरुस्तृतीये
मित्रं प्रसूते बहुपाचितारम् ।
तदंशके द्यूतरतं सदैव
॥वर्गे गतबधुवर्गम् ॥१८॥
जीवो यदा मित्रगृहे तृतीये
तदा प्रसूतेऽतिकृशं च मित्रम् ।
मित्रांशके पण्यपरं प्रधानं
वर्गोत्तमस्थः खलु दन्तकारम् ॥१९॥
तृतीयगो देवगुरुर्य॥
शत्रोर्गृहे क्लीवसुखं सुवाते ।
तदंशके शिल्पिनमप्रधानं
मूलत्रिकोणे पतितं निकृष्टम् ॥२०॥
शुक्रो यदा तुङ्गतस्तृतीये
तदा सुवाते पतितं च मित्रम् ।
तुङ्गांशके वा नृपसेवकं च
षड्वर्गशुद्धं कलहप्रियं च ॥२१॥
नीचाश्रितो दैत्यगुरुस्तृतीये
मित्रं विधत्ते वधकं नृशंशम् ।
नीचांशके निचकुलप्रसूतं
पापस्य वर्गे पतितं नृशंसम् ॥२२॥
मित्राश्रयस्थो भृगुजस्तृतीये
करोति मित्रं खलु भाण्डम्व ।
मितांशके वारणमप्रशस्तं
वर्गोत्तमस्थः शबरं कृतघ्नम् ॥२३॥
रिपोर्गृहे भार्गवजः प्रसूते
तृतीयगः क्रीडनकं च मित्रम् ।
तदंशके शिल्पिनमप्रशस्तं
मूलत्रिकोणेऽथ जनैर्निरस्तम् ॥२४॥
सूर्यात्मजस्तुङ्गतस्तृतीये
मित्रं सुवाते वरभूमिपालम् ।
तुङ्गांशके वित्तपतिं प्रसिद्धम्
षड्वर्गशुद्धो बहुशास्त्ररक्तम् ॥२५॥
नीचाश्रितः सूर्यसुततृतीये
मित्रं प्रसूते मलिनस्वभावम् ।
नीचांशके वंचनतत्परं च
पापस्य वर्गे घृनथा विहीनम् ॥२६॥
मित्राश्रयस्थः खलु सूर्यपुत्रो
मित्रं प्रसूते सचिवं नयचम् ।
मित्रांशके वा गुणवित्तभाजं
वर्गोत्तमस्थ स्थितिमानयुक्तम् ॥२७॥
शनिर्यदा शत्रुगृहाश्रयस्थ
स्तृतीयगः पापरतं च मित्रम् ।
धत्ते तदंशे वृजिनं सुदीनं
मूलत्रिकोणे विजितारिपक्षम् ॥२८॥
सावता प्रवि
दशाधिपः शीत्करस्तु
सहस्रमित्रः क्षितिजो ॥।उ
शताधिपो देवपुरोहितश्च ॥२९॥
अशीतिनाथो भृगुन।
सौरस्तु भौमेम ॥।मितोऽधिको वा ।
स्वतुङ्गराशौ यदि वत्तमानाः
सर्वे ॥।उ॥।ऽतस्य वशाद्ददन्ति ॥३०॥
इति श्रीवृधयवने सहजस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP