TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १५

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


शनैश्चरदर्शनचारध्यायः
मेषं गतः सूर्यसुतो विधत्ते
सूर्येण दृष्टो विकृतानुरूपम् ।
प्रवासशीलं विजितं स्वदारै
र्व्यपेतलज्जं बहुसाध्वसं च ॥१॥
मेषं गतः सूर्यसुतो विधत्ते
चन्द्रेण दृष्टः सुनयं विहीनम् ।
नरं सुरूपं बहुलाभभाजं
गुणानुरक्तं बहुसाधुमित्रम् ॥२॥
मन्दोऽथ मेषे क्षितिजेन दृष्टो
नरं प्रसूते ज्वरपीडिताङ्गम् ।
छर्दिप्रकोपप्रभवैश्च रोगैः
समन्वितं द्वेषकरं गुरुणाम् ॥३॥
बुधेन दृष्टो रविजोऽजसंस्थः
करोति बुद्धा सहितं मनुष्यम् ।
प्रसन्नदेहं नृपतेरभीष्टं
कृतश्चमोजोधिकमेव नित्यम् ॥४॥
शनैश्चरो मेषगतः प्रसूते
जीवेन दृष्टः प्रबरं प्रगल्भम् ।
नरं सुसत्यं सुभगं प्रशान्तं
सदानुकूलं द्विजबान्धवानाम् ॥५॥
शुक्रेण दृष्टो रविजः प्रसूते
मेषं गतः शास्त्रपथानुरक्तम् ।
प्रभूतमित्रं विजितारिपक्षं
सदानुगं साधुतपस्विनां च ॥६॥
वृषं गतोऽर्कि दिनपेन दृष्टो
नरं प्रसूते कठिनस्वभावम् ।
परानरक्तं विषयार्तदेहं
प्रपंचशीलं कुटिलस्वभावम् ॥७॥
वृषं गतः सूर्यसुतोऽर्थदुष्टं
करोति मर्त्यं शशिना च दृष्टः ।
सद्वस्त्रमन्नाशनभोजनं च
श्लाघ्यं सतां दम्भविवर्जितम् च ॥८॥
भौमेन दृष्टो गवि सूर्यसूनुः
करोति कीर्त्या रहितं मनुष्यम् ।
सुदुष्टभावं विधिना विहीनं
परान्नयोषिद्धनलालसं च ॥९॥
बुधेन दृष्टो गवि सूर्यपुत्रो
नरं प्रसूते कृषिवित्तभाजम् ।
नानासुपुण्यैः सहितं सुदानं
सतामभीष्टं सुरतैः समेतम् ॥१०॥
जीवेन दृष्टो वृषगोऽथ सौरिः
करोति धर्माधिकमद्भुतर्थम् ।
नरं गुरुणां विनयप्रसक्तं
सदातिथिं दानपरप्रसक्तम् ॥११॥
शुक्रेण दृष्टो रविजः प्रसूते
हतारिपक्षं पितृमातृभक्तम् ।
मनोज्ञवस्त्रं सुतसौख्यभाजं
विवर्जितं पापजनेन मित्यम् ॥१२॥
मन्दोऽर्कदृष्टो मिथुने प्रसूते
नरं कलत्राकुलितं सदैव ।
वि॥गिनं क्लेशरुजासमेतं
भयान्वितं बान्धववर्जितं च ॥१३॥
चन्द्रेण दृष्टो रविजो मृयुग्मे
सतामभीष्टं जनयेन्मनुष्यम् ।
विप्रतापार्थसिखैः समेतं
निसर्गविचानपरं सदैव ॥१४॥
भौमेन दृष्टो रविजो नृयुग्मे
नरं प्रसूते विभवेन हीनम् ।
प्रभूतकोपं गुरुरोगभाजं
सदा कुशीलं विभवैर्विहीनम् ॥१५॥
बुधेन दृष्टो रविजो नृयुग्मे
करोति सत्यं सुधिया समेतम् ।
नरं निधिग्रामपुरार्थभाजं
सुरूपदेहं नृपकार्यदक्षम् ॥१६॥
जीवेन दृष्टो रविजो नृयुग्मे
नरं प्रसूते मणिविद्रुमाधैः ।
समन्वितं धर्मकथानुरक्तं
प्रियातिथिं शंसितमेव लोके ॥१७॥
शुक्रेण दृष्टः प्रकरोति सौर
स्तृतीयराशौ सततं धनाढ्यम् ।
नरं निलामं सुखसिद्धियुक्तं
महानुकंपं प्रणयप्रपन्नम् ॥१८॥
कर्काश्रितः सूर्यसुतो विधत्ते
सूर्येण दृष्टः क्षतपीडिताङ्गम् ।
ज्वरातिसाराकुलमेव नित्यं
प्रद्वेषशीलं गतधर्मकृत्यम् ॥१९॥
चन्द्रेण दृष्टो रविजः प्रसूते
कर्काश्रितः कीर्तिधनैरुपेतम् ।
नरं सुधर्मातिरतं प्रधानं
विवर्जितं नीचजनप्रसङ्गैः ॥२०॥
भौमेन दृष्टो रविजः सुवाते
कर्काश्रितो घातपरं मनुष्यम् ।
देवादशीलं सततं वृथाढ्यं
मिथ्याधिकं कामपरं कृतघ्नम् ॥२१॥
बुधेन दृष्टो रविजस्तु कर्कं
हिरण्यरत्नैश्च युतं करोति ।
नरं निरीहं सुरलोकपूज्यं
महाजनैः सेवितमत्युदारम् ॥२२॥
जीवेन दृष्टो रविजः सुवाते
कर्कं गतः सर्वसुतैः सुमेतम् ।
विधानबुधिं पशुसङ्गयुक्तं
सदानुरक्तं द्विजबान्धवानाम् ॥२३॥
शुक्रेण दृष्टो रविजः प्रसूते
कर्काश्रितो नितिपरं मनुष्यम् ।
सुरूपदारं हतपापवर्गं
जितेन्द्रियं सत्यकथानुरक्तम् ॥२४॥
सिंहाश्रितो भास्करिरर्कदृष्टः
करोति कामाधिकमल्पधर्मम् ।
नरं विवेकाकृतिवर्जिताङ्गः
गुणैर्विहीनं परभक्तिकं च ॥२५॥
चन्द्रेण दृष्टो हरिभेऽर्कसूनुः
करोति मर्त्यं परमार्थसख्यम् ।
नरं प्रधानं स्वकुलस्य मध्ये
मायाविहीनं शुभकर्मदक्षम् ॥२६॥
भौमेन दृष्टः प्रकरोति मर्तुअं
सिंहस्थितोऽर्किस्तु रुजासमेतम् ।
विहीनवर्णं प्रचुरामयाढ्यं
नरं सदाकारविवर्जिताङ्गम् ॥२७॥
बुधेन दृष्टो रविजः सुवाते
नरं सुदक्षं प्रियविप्रदेवम् ।
स्वबन्धुसौख्यं बहुदानभाजं
विषक्रियव्याकुलितं प्रधानम् ॥२८॥
जीवेन दृष्टो रविजः सुवाते
सिंहाश्रितस्त्राणपरं द्विजानाम् ।
क्रियासमेतं वरतीर्थयुक्तं
विवर्जितं दुष्टसमागमेन ॥२९॥
शुक्रेण दृष्टः प्रकरोति सौरः
सिंहस्थितो धान्यधनप्रधानम् ।
नरं सुविक्षं गुरुदानरक्तं
सुपूजिताङ्गं नृपसाधुवादैः ॥३०॥
कन्याश्रितः सूर्यसुतः प्रसूते
सूर्येण दृष्टः कफपित्तभाजम् ।
विधाविहीनमृणवृत्तिभाजं
विहीनधर्मं च खलं मनुष्यम् ॥३१॥
कन्याश्रितः सूर्यसुतः प्रसूते
चन्द्रेण दृष्टः प्रभया समेतम् ।
नरं सुधर्मानुरतं नितान्तं
स्वधर्मरक्तं प्रियसङ्गयुक्तम् ॥३२॥
कन्याश्रितः सूर्यसुतः सुवाते
भौमेन दृष्टोऽतिशृणं प्रसूते ।
नरं प्रधानैः परिहीनमानं
सुनिष्ठुरं पापरतं कुबुद्धिम् ॥३३॥
बुधेन दृष्टो रविजः सुवाते
नरं प्रशंसाभ्यधिकं सुरूपम् ।
जनेषु पूज्यं सुधिया समेतं
कुलप्रधानं बहुबुद्धियुक्तम् ॥३४॥
जीवेन दृष्टः प्रकरोति सौरिः
सदा सुशीलं भयवर्जिताङ्गम् ।
गुणानुगं चैव तु शास्त्ररक्तं
प्रभूतलाभं जनवल्लभं च ॥३५॥
शुक्रेण दृष्टः प्रकरोति सौरः
कन्यां गतः कान्तिधिया समेतम् ।
नरं हिरण्यार्थसमृद्धियुक्तं
प्रियं रतं पापजनानुषङ्गम् ॥३६॥
तुलास्थितो धर्मसुखं सुवाते
प्रभूतमित्रं प्रचुरान्नपानम् ।
सुरप्रियं ब्राह्मणदेवरक्तं
महाजनेः सेवितमिष्टभक्तम् ॥३७॥
चन्द्रेण दृष्टः प्रकरोति सौर
स्तुलाश्रितः सत्यदयासमेतम् ।
प्रभूतवित्तं प्रचुरप्रभावं
हतद्विषं भृत्ययुतं सुरक्तम् ॥३८॥
भौमेन दृष्टः प्रकरोति मन्दः
सरोगयुक्तं विकृतानुकारम् ।
पित्तज्वरश्लेष्मभयार्तियुक्तं
दयाविहीनं गतमानलाभम् ॥३९॥
बुधेन दृष्टो रविजः सुवाते
तुलाश्रितो हस्तिहयार्थभाजम् ।
नरं विदग्धं नुतमेव लोकैः
सतामभीष्ट गुणवृद्धिरक्तम् ॥४०॥
जीवेन दृष्टः प्रकरोति मन्द
स्तुलाश्रितो दानपरं मनुष्यम् ।
स्वभावसौख्यं क्षमया समेतं
पतिप्रियं धर्मविशारदं च ॥४१॥
शुक्रेण दृष्टः प्रकरोति मन्द
स्तुलाश्रितः पार्थिवलाभभजन्
स्ववर्गपूज्यं परवर्गहीनं
दयाश्रितं शंसितमेव धीरैः ॥४२॥
मन्दोऽलिसंस्थो रविणा च दृष्टो
नरं प्रसूते कुटिलप्रभावम् ।
विरक्तपौरं परसेवयाढ्यं
नृशंसकर्माणमधर्मशीलम् ॥४३॥
चन्द्रेण दृष्टः रविजोऽलिसंस्थः
सुवीर्यविप्रैश्च धिया समेतम् ।
द्विजानुरक्तं विविधान्नपानं
सुरक्षिताङ्गं द्विजदेवकृत्यैः ॥४४॥
भौमेन दृष्टो रविजः प्रसूते
नरं सुतिक्षणं खलु वृश्चिकस्थः ।
सदातुरं रुद्रवपुर्नितान्त
विदेशरक्तं सुरुजासमेतम् ॥४५॥
॥४६॥
जीवेन दृष्टः खलु वृश्चिकस्थो
मन्दो विधत्ते गुणमानयुक्तम् ।
नरं निरीहं सुतदारसौख्यैः
समन्वितं यज्ञविधानरक्तम् ॥४७॥
शुक्रेण दृष्टोऽलिगतश्च मन्दः
करोति लाभैः प्रचुरैः समेतम् ।
प्रियातिथिं वस्त्रविहीनभाजं
भयाधिकं कीर्तिधीया समेतम् ॥४८॥
चापाश्रितः सूर्यसुतः प्रसूते
सूर्येण दृष्टः परिहीनसत्यम् ।
नरं क्रियाहीनमुरुप्ररोगं
रुग्व्याकुलं शास्त्रमतेन हीनम् ॥४९॥
चन्द्रेण दृष्टः प्रकरोति मन्दो
नरं विशेषाचरितानुरक्तम् ।
सुधर्मशीलं बहुशास्त्ररक्तं
सुसंस्कृतं बान्धवभूमिपालैः ॥५०॥
चापाश्रितः सूर्ययुतो विधत्ते
भौमेन दृष्टः सुधिया समेतम् ।
सुनीतिरक्तं चतुरं प्रगल्भं
धनिप्रियं कान्तिविवर्जितं च ॥५१॥
बुधेन दृष्टो रविजः प्रसूते
चापाश्रितस्तीर्थकरानुरक्तम् ।
नरं विनीतं सुधिया समेतं
नृपप्रियं ब्राह्मणसंमतं च ॥५२॥
जीवेन दृष्टो रविजो विधत्ते
धनुर्धरस्थः सुतमित्रयुक्तम् ।
नरं धनाश्चप्रधनैः समेतं
सदा विहीनं कुजनागमेन ॥५३॥
शुक्रेण दृष्टो हयगः प्रसूते
शनिः सुदातारमलोलुपं च ।
नरं प्रतापप्रधनं प्रसह्यं
प्रभूतवित्तं सततं निरीहम् ॥५४॥
चन्द्रो मृगस्थो रविणा च दृष्टो
नरं प्रसूते तनयार्तियुक्तम् ।
विषादभाजं विजितं खलाधै
र्वीर्येण हीनं सततं भयार्तम् ॥५५॥
चन्द्रेण दृष्टः प्रकरोति मन्दो
मृगाश्रितः प्राणयुतं मनुष्यम् ।
सुतार्थयुक्तं महीमासमेतं
विधानुरक्तं बहुवित्तभाजम् ॥५६॥
भौमेन दृष्टोऽर्कसुतो मृगस्थो
नरं विधत्ते धृणरोगभाजम् ।
विहीनपक्षं क्षतजार्तदेहं
प्रपंचशीलं भयसंयुतं च ॥५७॥
बुधेन दृष्टो मकरे प्रसूते
मन्दो विधिज्ञं परमं प्रदक्षम् ।
गुणाधिकं कीर्तिसुखैः समेतं
सदानुरक्तं द्विजबान्धवानाम् ॥५८॥
मन्दः सुरेज्येन मृगेऽपि दृष्टः
प्रभूतविन्तं जनयेन्मनुष्यम् ।
नरेन्द्रपूज्यं सुतसौख्ययुक्तं
सतां प्रियं शीलधनैः सदैव ॥५९॥
शुक्रेण दृष्टो मकरेऽर्कसूनुः
करोति मर्त्यं धनसौख्ययुक्तम् ।
तेजोधिकं सत्यमुदारदानं
चिन्तप्रसन्नं प्रणतं द्विजानाम् ॥६०॥
घटाश्रितो भास्करजः प्रसूते
सूर्येण दृष्टोऽथविहीनसत्यम् ।
विवर्जितं मानधनैः सुकृष्टैः
स्त्रीणां स्वभावं सुहृदप्रयुक्तम् ॥६१॥
चन्द्रेण दृष्टो घटगः प्रसूते
मन्दो विहीनं रिपुभिर्मनुष्यम् ।
धर्मह्वजं दानपरं गतारिं
सदानुरक्तं कृषिवित्तवर्गैः ॥६२॥
भौमेन दृष्टो घटगोऽर्कसूनु
र्नरं प्रसूतेऽर्थधनं सदैव ।
शिरोर्तिपित्तज्वरजैर्विकारैः
क्रुद्धं विउद्धं गतसौहृदं च ॥६३॥
बुधेन दृष्टो घटगोऽथ मन्दो
नरं विधत्ते विधनं मनुष्यम् ।
सत्याधिकं विश्चविधानदक्षं
सुरक्षकं देवगुरुद्विजानाम् ॥६४॥
जीवेन दृष्टो घटगोऽथ मन्दो
नरं सुवातेऽर्थयशोनुरक्तम् ।
हितं गुरुणां निरुजं सदैव
प्रधानयुक्तं नृपकार्यदक्षम् ॥६५॥
शुक्रेण दृष्टो घटगोऽर्कसूनुः
करोति वित्तार्थयुतं मनुष्यम् ।
नरं गतार्थं धृणया समेतं
चरित्रशीलं सततं च दुष्टम् ॥६६॥
मीनस्थितः सूर्यसुतोऽर्कदृष्टो
नरं प्रसूते कठिनं कृतघ्नम् ।
विवेकहीनं गतबन्धुवर्गं
सुदीर्घसूत्रं गतमिष्ट। ॥६७॥
चन्द्रेण दृष्टो ह्यषगोऽर्कसूनु
र्नरं प्रसूते विभवैः प्रधानैः
मुख्यं प्रगल्भं धनधान्यभाजं
विधाधिकं प्रीतिकरं जनानाम् ॥६८॥
भौमेन दृष्तो रविजः प्रसूते
मानाश्रितः शस्त्रभयार्तदेहम् ।
सरोगयुक्तं कृपणस्वभावं
पराजितं नीचजनेन नित्यम् ॥६९॥
बुधेन दृष्टः कुरुतेऽर्कसूनु
र्मीनस्थितस्तीर्थव्रतैरुपेतम् ।
नरं प्रधानं स्वकुलस्य मध्ये
स्थिरस्वभावं गतपापरूपम् ॥७०॥
जीवेन दृष्टः प्रकरोति मन्दो
नरं सुवीर्याधिकमिष्तसत्यम् ।
लाभैः समेतं विविधप्रधानं
पुरोगवं बान्धवसज्जनानाम् ॥७१॥
शुक्रेण दृष्टः ह्यषगः  प्रसूते
मन्दोऽधिमन्दं सततं मनुष्यम् ।
सुधर्मशीलं विजितारिपक्षं
च्युतं त्रिलोके विविधप्रतापम् ॥७२॥
इति श्रीवृद्धयवने शनैश्चरदर्शनचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:34:26.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

quantic

  • पु. समघाती 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.