TransLiteral Foundation

पूर्वखण्डः - अध्याय १८

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


चन्द्रचाराध्यायः
मेषे तु चन्द्रः पुरुषं प्रसूते
शुरं मुदासत्त्वबलैरुपेतम् ।
ख्यातं बहुस्त्रीयुतभृत्यवर्गं
प्रभाविणं त्यागिनमूर्जितं च ॥१॥
वृषे शशि गर्वितमिष्टदारं
स्मिताल्पभाषं सुभगं प्रसूते ।
निजस्विनं बह्वशिनं सुखेषं
महाजनद्रव्यपरिग्रहं च ॥२॥
चन्द्रस्तृतीये मधुराभिधानं
कार्याभिचारं निपुणं प्रसूते ।॥३॥
तिष्ठन् शशी कर्किणि कार्यधीरं
सुमेधसं वाग्विशदं प्रसूते ।
प्रियप्रदानं प्रियदर्शनं च
प्राज्ञं बहुश्चान्विकीर्णबुद्धिम् ॥४॥
सिंहे शशी सत्त्वबलोपपन्नं
नरं प्रसूते नरब्धमानम् ।
सिंहाननास्यं पृथुपीनकायं
मांस॥।इयं दुःप्रसहं क्षुधालुम् ॥५॥
कन्यां समाश्रित्य शशी प्रसूते
नरं सुवाक्यं मधुरं विनीतम् ।
स्त्रीलाललितैः सुकुमारमूर्तिं
सुमेधसं साधनाभिरामम् ॥६॥
तुलाधस्थो जनयत्युदार
नरं शशी वाग्मतीसत्त्वयुक्तम् ।
मनस्विनं सात्त्विकमन्त्रेअशीलं
शुचिं विनीतं सुभगं सुरूपम् ॥७॥
निशकरो वृश्चिकगः समृद्धं
शूरं नरं साहसिकं प्रसूते ।
ख्यातं सतामीश्वरलब्धमानं
क्रूरं पराधातरुचिं प्रचण्डम् ॥८॥
धनुर्धरस्थो नृपलब्धमानं
चन्द्रः प्रसूते नरमुच्चवृत्तिम् ।
शूरं शुचिं सत्यपरं विनीतं
श्रीमन्तमाढ्यं गुरुदेवभक्तम् ॥९॥
तिष्ठन् प्रसूते मकरे शशाङ्को
नरं वनारण्यज्लाभिरामम् ।
सङ्गीतहास्यभीरतं सुवेषं
ख्यातं परस्त्रीरतिलोलुपं च ॥१०॥
कुम्भे शशी रोषिणमल्पसौख्यं
सूते कृशं दुर्भरमल्पवित्तम् ।
बहुक्रियारम्भमजातमिष्टं
प्रद्विष्टबन्धुं गुरुवंचकं च ॥११॥
मीनद्वये प्रत्यधीनम् सुसत्यं
पाण्डित्यसामर्थ्यवरार्थयुक्तं ।
ह्नीदानदाक्षिण्यपरं विनीतं
नरं शशी वाह्मधुरं प्रसूते ॥१२॥
होरां गतोऽर्कस्य करोति चन्द्रो
नरं सकामं  वनिताजितं च ।
दोषात्मकं बन्धुजनैर्विमुक्तं
सव्याधिदेहं रिपुवर्गगम्यम् ॥१३॥
होरां गतो रात्रिपतिर्यदा स्वां
तदा नरं शीलतरं करोति ।
स्वधर्मरक्तं नृपमानयुक्त
कृतशमुत्साहिनमप्रहृष्यम् ॥१४॥
त्र्यंशे शशी वासरपस्य नित्यं
करोति पापं बहुशत्रुयुक्तम् ।
अल्पर्थसत्त्वं विगुणं हृतस्वं
दौर्भाग्यदेहं परदारलुब्धम् ॥१५॥
करोति विशं बहुमित्रविन्तं
पुत्रान्वितं बन्धुजनैः समेतम् ।
त्र्यांशे स्वकीये सुखिनम् सुकान्तं
निशाहिपो मर्त्यमलंधिताशम् ॥१६॥
त्र्यंशे शशाङ्को विचरन् कुजस्य
नरं प्रसूते विगतप्रतापम् ।
हीनक्रियं दुःखशतिरुपेतं
परार्थलुब्धं गतसौहृदं च ॥१७॥
द्रेष्काणमाप्तः प्रकरोति चन्द्रः
सौम्यस्य सौम्यं सुभगं मनुष्यम् ।
मेधाविनं सर्वगुणैः समेतं
विधाविनं सर्वकलासु दक्षम् ॥१८॥
त्र्यंशे गुरो रात्रिपतिः प्रसूते
शास्त्रानुरक्तं मनुजं सुशीलम् ।
नानासुहृत्संस्तुतमल्पकोपं
प्रियातिथिं देवगुरुप्रभक्तम् ॥१९॥
सितस्य चन्द्रो विचरन् त्रिभागे
करोति मर्त्यं वरयानयुक्तम् ।
स्त्रीवल्लभं सत्यमुदारचेष्टं
कुलाधिकं पूज्यतमम् नृपाणाम् ॥२०॥
शनेर्यदा त्र्यंशम्नुप्रयात
श्चन्द्रस्तदा रोगिपमेव धत्ते ।
दीनं दरिद्रं विकृतं सपापं
महापदं निष्ठुरमव मर्त्यम् ॥२१॥
नवांशके रात्रिपतिर्यदा स्यात्
सूर्यस्य दुष्टं मनुजं प्रसूते ।
स्त्रीचंचिन्तं पापमतिं सदैव
प्रणष्टवृद्धिं विजितं परैश्च ॥२२॥
नवाम्शके स्वे प्रकरोति चन्द्रो
नरं सुरूपं सुभगं सुशीलम् ।
स्त्रीसंमतं सर्वगुणैः समेतं
विधाविनीतं जनवल्लभं च ॥२३॥
नवांशके भूमिसुतस्य चन्द्र
स्त्वसृग्नुगार्तं प्रकरोति मर्त्यम् ।
क्लीतं कृशं व्याधितमल्पसत्त्वं
श्रीदुर्भगं कामपरं सदैव ॥२४॥
सौम्यय भागे नवमे शशाङ्कः
करोति सौम्यं सततं सुखाढ्यम् ।
नित्यं सुहृदेवगुरुप्रसक्तं
महाधनं मण्डितमप्रमेयम् ॥२५॥
गुरोनवांश विचरन् शशाङ्को
नरं प्रसूते बहुवित्तयुक्तम् ।
पुत्रान्वितं पुण्यधनिरुपेतं
प्रियात्थिं सर्वजनाभिरामम् ॥२६॥
करोति मर्त्यं नयसत्यसारं
विधानिनीतं सुहृदां वरिष्ठम् ।
द्विजप्रियं रोगभयव्योपेतं
शुक्रस्य भागे नवमे शशाङ्कः ॥२७॥
चन्द्रः शनेर्भागमनुप्रयातो
नवाख्यम्त्यन्तदुरुक्तवाचम् ।
नरं प्रसूते विकृतस्वभावं
परार्थलुब्धं व्यसनैः समेतम् ॥२८॥
सूर्यांशकेऽर्कस्य निशाधिनाथो
॥ंअकं उःखयुतं म्नुष्यम् ।
प्रमादिनं मित्रजनैर्विहीनं
सुदीर्घसूत्रं सततं कृतघ्नम् ॥२९॥
सूर्यांशके स्वे प्रकरोति चन्द्रो
धनान्वितं वाह्मिनमल्पशत्रुम् ।
नरं नितान्तं शुभपुत्रयुक्तं
सुवाहनाढ्यं परपक्षहीनम् ॥३०॥
सूर्यांशके भूमिसुतस्य चन्द्रः
करोति नित्यं बहुसौख्ययुक्तम् ।
विचक्षणं भोगयुतं सुवेषं
सुधर्मशीलं सततं सुशीलम् ॥३१॥
सूर्यांशके सोमसुतस्य सोमः
सौम्यं प्रसूते सुखिनं मनुष्यम् ।
शिल्पज्ञमत्यद्भुतकर्मयुक्तं
प्रियतिथिं विश्रुतमेव नित्यम् ॥३२॥
सूर्यांशके देवपुरोहितस्य
नरं सुवेषं प्रकरोति चन्द्रः ।
नृपप्रसादं विनयैः समेतं
सुचित्रपानं बहुमित्रयुक्तम् ॥३३॥
सूर्यांशके भार्गवनन्दनस्य
नरं विनीतं प्र्करोति चन्द्रः ।
नृपप्रसादैः प्रचुरैः समृधं
हस्त्यश्चयुक्तं प्रचुरान्नपानम् ॥३४॥
शनैश्चरस्यार्कविभागसंस्थो
विधुर्विधत्ते च सपत्नयुक्तम् ।
कीनाशमालस्यतमं नितान्तं
स्वबन्धुवर्गैः परिपीडितं च ॥३५॥
त्रिंशल्लवे भूमिसुतस्य चन्द्रः
श्रद्धाविहीनं कुरुतेऽतिकौलम् ।
मलिम्लुचं नीचजनानुरक्तं
रक्तार्दितं कोपपरं सुजिह्मम् ॥३६॥
त्रिंशद्विभागेऽकसुतस्य चन्द्रो
विरूपदेहं मुखरं करोति ।
ब्रह्माशणं स्थूलचं सुजिह्मं
परापवादे निरतं सदैव ॥३७॥
त्रिंशल्लवे रात्रिपतिर्यदा स्या
न्मेधाविनं चैव तदा प्रसूते ।
जीवस्य मर्त्यं भुवि लब्धकीर्तिं
श्रियाधिकं पार्थिववल्लभं च ॥३८॥
त्रिंशांशके सोमसुतस्य मर्त्यं
चन्द्रः प्रसूते शुचिमप्रमन्तम् ।
स्त्रीवल्लभ गीतकलास्यु
प्रियातिथिं नित्यमुदारचेष्ठम् ॥३९॥
त्रिंशांशकस्थो विधुराधत्ते
शुक्रस्य मर्त्यं बहुवीर्ययुक्तम् ।
सुपुण्ययुक्त हययानयुक्त॥
दयाधिकं सत्सु सदानुरक्तम् ॥४०॥
सुहृद्बलाच्छीतमयूखमाली
नरं विधत्ते बहुमित्रयुक्तम् ।
सुहृत्प्रियं पार्थिवमानपुष्टं
सुधाधिकं साधुतरं सलज्जम् ॥४१॥
स्वस्थानवीर्येण युतः शशाङ्को
नरं विधत्ते वनितासमृद्धम् ।
स्वथानपूज्यं पतिसङ्गरक्तं
नित्यं प्रशान्तं त्वृतवाक्यमेव ॥४२॥
स्वतुङ्गसारेण युतः शशाङ्कः
प्रोत्तुङ्गकर्माणमहीनसत्त्वम् ।
नरं प्रसूते विजदेवभक्तं
बह्वश्चयुक्तं सततं समृद्धम् ॥४३॥
नवांशपुष्टः प्रबलः शशाङ्को
नरं विधत्ते सुतयानयुक्तम् ।
रोगैर्विमुक्तं सुकुमारदेहं
भोगाधिकं सर्वकलासु दक्षम् ॥४४॥
शुभग्रहालोकनसारयुक्त
चन्द्रो भयैर्वर्जितमुत्तमम् च ।
हस्त्यश्चयुक्तं पुरुषं प्रसूते
शूरं महोत्साहिनमृधिमन्तम् ॥४५॥
स्त्रीक्षेत्रवीर्यात् प्रबलाच्छशाङ्कः
कुर्याज्जितरातिगणं गुणाढ्यम् ।
बह्वन्नवित्तं प्रमदास्वभीष्टं
मर्त्यं महालोकयुतं करोति ॥४६॥
आशाबलाद्रात्रिपतिर्जितारिं ।
स्वबन्धुमान्यं सुधृतं सुलज्जम् ।
महाधन सर्वगुणाधिवास
स्त्रीवल्लभं मानधनं करोति ॥४७॥
चेष्टाबलाढ्यो बहुमित्रकोशं
चन्द्रो विधत्ते निरुजं मनुष्यम् ।
भृत्याधिल सत्यरतं ॥।
नित्यं सुराराधनतत्परं च ॥४८॥
निशाबलाढ्यः प्रबलः शशाङ्को
नरं प्रसूते धुतितेजयुक्तम् ।
वस्त्रान्नपानैर्विविधैरुपेतं
सौभाग्यवन्तं बहुदानशीलम् ॥४९॥
करोति चन्द्रः स्वदिनोद्भवेन
युक्तः प्रसक्तं सततं मनुष्यम् ।
मित्राधिकं सौम्यवपुः प्रसिद्धं
नानार्थवृद्ध्या   परिपुष्टवित्तम् ॥५०॥
होराबलाढ्यो विषमार्गदक्षं
गुरुप्रियं गीतरतं सुकान्तम् ।
महासहिष्णुं कृषिकर्मयुक्तं
चन्द्रः प्रसूते सुतकन्यकाढ्यम् ॥५१॥
हिमद्युतिर्मासबलेन कुर्यात्
क्रियान्वितं कल्पतरुं समृद्धम् ।
शिल्पाधिकं कीर्तिकरं सुदारं
प्रियातिथिं तुष्टिपरं नयज्ञम् ॥५२॥
बन्दिस्तुतं वर्षबलाच्छशाङ्को
नरं प्रसूते शुभकर्मरक्तम् ।
दिव्याङ्गनाभोगरसानुरक्तं
सत्त्वाधिकं पापजनैर्विमुक्तम् ॥५३॥
चन्द्रः सुहृद्वीर्यविहीनमुर्तिः
करोति दीनं परतर्ककं च ।
सुदीर्घसूत्रं व्यसनैरुपेतं
हितार्थशक्तिं पुरुषं सदैव ॥५४॥
स्वस्थानवीर्येण विहीनमूर्ति
॥ईनरतं सुवाते ।
पराभवाढ्यं नृप्मानहीनं
कृशं विवेर्णं कुसुहृत्समेतम् ॥५५॥
तुङ्गवीर्येण विवर्जितस्तु
चन्द्रः प्रसूते कृपणं मनुष्यम् ।
नीचानुरक्तं परहीनसत्त्वं
प्रकीर्णकामं बहुशोकभाजम् ॥५६॥
नवांशवीर्येण विवर्जितस्तु
नयेनहीनं पुरुषं शशाङ्कः ।
करोति दुष्टं च तथा कृतघ्नं
भीरुं रुजार्तं नृपपीडितं च ॥५७॥
शुभग्रहालोकनहीनमूर्तिः
करोति चन्द्रः सततं कुरूपम् ।
कुचलसुग्र कृपणस्व ं
पापानुरक्तं सुभुजं सदैव ॥५८॥
स्त्रीक्षेत्रवीर्येण यदो विहीन
स्तदा शशाङ्कः प्रकरोति पापम् ।
दौर्भाग्यक्तं द्विजभक्तिहीनं
विहीनशक्ति परिपीडितं च ॥५९॥
चन्द्रो दिशावीर्यविवर्जितश्च
विदेशरक्तं प्रकरोति मर्त्यम् ।
वृथाटनं दुर्भगमल्पकृत्यं
कृपाविहीनं सुतमित्रहीनम् ॥६०॥
चेष्टाबलेनैव विवर्जितस्तु
चन्द्रः प्रसूते सततं कुचेष्टम् ।
विद्वेषभाजं परदाररक्तं
नित्यं खलं पार्थिवमानहीनम् ॥६१॥
चन्द्रो निशावीर्यबलेन हीनः
करोति नेत्रोद्भवरोगयुक्तम् ।
चौरप्रमृष्टार्थचतुष्पदाढ्यं
स्त्रीलोकनिन्ध विकलं खलं च ॥६२॥
स्ववारवीर्येण विवर्जितस्तु
करोति चन्द्रो बहुहानियुक्तम् ।
सेवारतं धर्मसुखैर्विहीनं
परान्नभोक्तारमन्ल्पदोषम् ॥६३॥
होराबलेनैव विहीनमूर्ति
श्चन्द्रस्तु मूर्खं मनुजं प्रसूते ।
सङ्कष्टभाजं सुविहीनकोश
सुहृज्जनैस्त्यक्तमरिप्रधानम् ॥६४॥
चन्द्रो यदा मासबलेन हीन
स्तदा प्रसूते विकृतं मनुष्यम् ।
सुमन्दभाग्यं विजितं परैश्च
प्रमादिनं मन्दगतिं कृतघ्नम् ॥६५॥
चन्द्रो यदा वर्षबलेन हीन
स्तदा सुवाते धनधान्यहीनम् ।
मर्त्यं सुभीरुं विजितं गतार्थं
पराभवैकास्पदमेव नित्यम् ॥६६॥
इति श्रीवृद्धयवने चन्द्रचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:37:32.4700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gneissosity

  • स्त्री. नाइसता 
RANDOM WORD

Did you know?

What is the difference between Smarta & Bhagwata Ekadashi?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site