TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १२

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


बुधदर्शनचारध्यायः
मेषं गतो ज्ञो रविणा च दृष्टः
करोति मर्त्यं कृपणस्वभावम् ।
दुष्टाशयं बन्धुजनेन युक्तं
भयाकुलं मित्यमुदारदुःखम् ॥१॥
बुधोऽजसंस्थः सुजनं च दृष्टः
करोति मर्त्यं सुजनं सुविज्ञम् ।
शास्त्रानुरक्तं कृषिकर्मदक्षं
सुरद्विजानां प्रणतं सदैव ॥२॥
भौमेन दृष्टः शशिजोऽजसंस्थो
हर्षाधकारैः कुरुते प्रपीडाम् ।
नरं तथा सर्वजनैर्विमुक्तं
पराजितं वैरिभिरेव नित्यम् ॥३॥
जीवेन दृष्टोऽजगतस्त सौम्यो
नरं विधत्तेऽतिधनप्रगल्भम् ।
हितं द्विजानां सततं कृतज्ञं
नशान्वितं पार्थिवपूजितं च ॥४॥
शुक्रेण दृष्टः प्रकरोति सौम्यो
मेषाश्रितो यानधनैः समेतम् ।
नरं महाधान्यहयैः समेतं
विमुल्लपापं बहुधर्मयुक्तम् ॥५॥
सौरेण दृष्टः शशिजः प्रसूते
मेषाश्रितः कीर्तिविवर्जितं च ।
प्रभूतरोगं गतंसौख्यमिष्टं
प्रपीडितं चौरनरेचराद्यैः ॥६॥
वृषस्थितः सोमसुतोऽर्कदृष्टो
नरं प्रसूते क्षतजैः समेतम् ।
वक्षोगुदांध्रिप्रभैश्च रोगैः
संपीडितं धान्यकलत्रहीनम् ॥७॥
बुधो वृषथः शशिना च दृष्टः
करोति मर्त्यं प्रथितं नृलोके ।
सत्याधिकं सौख्यविवेकयुक्तं
श्रियाधिकं पुण्यविधौ प्रगल्भम् ॥८॥
भौमेन दृष्टः शशिजो वृषस्थो
नरं प्रसूते विकृतस्वभावम् ।
प्रभूतवैरं व्यसनाभिभूतं
पाषण्डिभिः सङ्गतमेव नित्यम् ॥९॥
वृषश्रितः सोमसुतः प्रसूते
जीवेन दृष्टः क्षितिवस्त्रभाजम् ।
देवातिथिश्रेष्ठजनानुरक्तं
स्वधर्ममुख्यं प्रणतं प्रजानाम् ॥१०॥
शुक्रेण दृष्टः प्रणतारिपक्षं
नरं प्रसूते शशिजो वृषथः ।
नरेन्द्रपूज्यं विबुधैः समेतं
प्रधानकर्मणमभिष्टलाभम् ॥११॥
सौरेण दृष्टः शशिजः प्रसूते
वृष गतः पापधनं मनुष्यम् ।
सुतिर्थयानासनवस्त्रलाभै
र्विवर्जितं नीचजनप्रसेव्यम् ॥१२॥
सूर्येण दृष्टो मिथुने च सौम्ये
नरं सुवाते सुतविप्रयुक्तम् ।
कुचैलदेहं विकृतानुरकारं
विवर्जितं सत्यधनेन नित्यम् ॥१३॥
चन्द्रेण दृष्टः शशिजो नृयुग्मे
करोति नानाविधलाभभाजम् ।
नितान्तसौख्यैः सहितं प्रगल्भं
तीर्थानुरक्तं सुभगं मनोज्ञम् ॥१४॥
भौमेन दृष्टो मिथुने बुधस्तु
प्रियं प्रसूते नृपसज्जनानाम् ।
नरं परैर्वर्जितमिष्टधर्म
सरक्षितं बन्धजनैः सदैव ॥१५॥
जीवेन दृष्टो तु सौम्यः
करोति नानाविधमप्रगल्भम् ।
कलत्रपुत्राप्तिसुखं सुरूपं
प्रियंवदं दानविचक्षणं च ॥१६॥
शुक्रेण दृष्टो मिथुने प्रसूते
बुधो विवाहार्थपरं म्नुष्यम् ।
स्त्रीवल्लभं भूतियशोयभाजं
प्रसन्नचिन्तम् द्विजव्ल्लभं च ॥१७॥
सौरेण दृष्टः शशिजो विधत्ते
क्षुच्छस्त्रपीडासहितं नृयुग्मे ।
नरं प्रशंसार्थविवेकहीनं
कृतघ्नमिष्टैः परिवर्जितं च ॥१८॥
कर्काश्रितः सोम्सुतोऽर्कदृष्टो
नरं प्रसूते व्यसनाभिभूतम् ।
अधर्मचेष्टं  विकृतस्वभावं
मदातिगं दुःकृतसेवनेन ॥१९॥
कर्काश्रितः सोमसुतो विधत्ते
चन्द्रेनः दृष्टः सुतदारयुक्तम् ।
त्रिणामभीष्टं सुरतानुरक्तं
प्रसन्नैत्तं गतसाध्वसं च ॥२०॥
कर्काश्रितः सोमसुतो विधत्ते
भौमेन दृष्टः परदाररक्तम् ।
चलस्वभावं विपरीतचेष्टं
पराङ्मुखं देव्गुरुद्विजानाम् ॥२१॥
जीवेण दृष्टः शशिजो विधत्ते
कर्काश्रितः पुण्यपरं मनुष्यम् ।
चतुष्पदाशुद्धिजभोजनाद्यं
सुपूजितं साहुजनेन नित्यम् ॥२२॥
शुक्रेण दृष्टः शशिजः प्रसूते
कर्काश्रितो वाजिधनाम्बराढ्यम् ।
स्त्रीपुत्रवस्त्रप्रणयेन युक्तं
सुसंस्कृतं पार्थिवसाधुलोकैः ॥२३॥
सौरेण दृष्टः शशिजस्थु कर्के
दारिद्रनिद्रालससेविताङ्गम् ।
उत्साहहीनं बहुछिद्रयुक्तं
विवर्जितं मानधनैः सदैव ॥२४॥
सिंहस्थितः सोमसुतो विधत्ते
सूर्येण दृष्टः कृपणस्वभावम् ।
सुदीर्घयुक्तं गुरुरोगयुक्त
विनाकृतं सत्यदमव्रतैश्च ॥२५॥
चन्द्रेण दृष्टः शशिजश्च सिंहे
करोति मर्त्यं गुणगौरवाद्यम् ।
सुतीर्थसौख्यामलल्ब्धयुक्तं
विशुद्धबुद्धिं सततं नयज्ञम् ॥२६॥
भौमेन दृष्टः खलु सिंहसंस्थो
बुधो विधत्ते बहुशोकभाजम् ।
विचर्चिकापामीनपीडिताङ्गं
सदातुरं पुण्यधनैर्विहीनन् ॥२७॥
जीवेन दृष्टः खलु सिंहसंस्थः
करोति सौम्यः सुतदासभाजम् ।
सुधामसत्यं प्रभया समेतं
नतं नरैः सर्वौखैः समेतम् ॥२८॥
शुक्रेन दृष्टः प्रणतं सुराणां
बुधो विधत्ते खलु सिंहराशौ ।
बुद्धान्वितं शीलधनं सुरूपं
व्यपेतदुःखं गतसाध्वसं च ॥२९॥
सौरेण दृष्टः शशिजो हरिस्थः
करोति मर्त्यं कृपणं सुदीनम् ।
व्ययाधिकं कामयुतं विशीलं
त्यक्तं नयेनार्थविवर्जितं च ॥३०॥
कन्याश्रितः सोमसुतो विधत्ते
सूर्येण दृष्टः प्रभया विहीनम् ।
सेवातुरं क्लेशयुतैः कुभृत्यै
र्विरक्तपुरं सततं सुदुःखम् ॥३१॥
चन्द्रेण दृष्टः शशिजो विधत्ते
कन्याश्रितः सत्यपरं मनुष्यम् ।
देवानुरक्तं सकलैर्वियुक्तं
प्रभूतमित्रं नृपवल्लभं च ॥३२॥
भौमेन दृष्टः खलु कन्यकस्थो
नरं विधत्ते सरुजं च सौम्यः ।
कोपाधिकं कामसूतप्तदेहं
भयान्वितं वंधितमाकुलं च ॥३३॥
जीवेन दृष्टः प्रकरोति सौम्यो
नरं सुशिलं सततं गतारिम् ।
प्रभूतसौम्यं प्रणतारिपक्षं
नितान्तमोजःसहितं प्रगल्भम् ॥३४॥
शुक्रेण दृष्टः खलु कन्यकस्थो
बुधो विधत्ते बहुधर्मभाजम् ।
विधानविद्यापशुपुत्रयुक्तं
सुसङ्गतं साधुजनेन नित्यम् ॥३५॥
मन्देन दृष्टः शशिजः समन्दं
कन्याश्रितः संजनयेन्मनुष्यम् ।
विरक्तचेष्टं गतधर्मसौख्यं
भयाधिकं पापमतिं सदैव ॥३६॥
तुलाश्रितः सोमसुतो विधत्ते
सूर्येण दृष्टः प्रभया विहीनम् ।
प्रभूतदुःखं व्यसनैः समेतं
कामातुरं निन्द्यतमं नृलोके ॥३७॥
चन्द्रेण दृष्टः शशिजः प्रसूते
तुलाश्रितः सत्यधनं मनुष्यम् ।
प्रियातिथिं देवगुरुप्रसक्तं
नयाधिकं ब्राह्मणसंमतं च ॥३८॥
भौमेन दृष्टः शशिजः प्रसूते
तुलाश्रितः पापरतं मनुष्यम् ।
विषादभाजं गतसाधुभाजं
महाव्ययं साधुविवर्जितं च ॥३९॥
जीवेन दृष्टः शशिजः प्रसूते
तुलाश्रितः सत्यपरं मनुष्यम् ।
पापैर्न युक्तं सुतसौख्यभाजं
नयप्रधानं बहुसंश्रितं च ॥४०॥
शुक्रेण दृष्टः सुविवेकयुक्तं
करोति सौम्यस्तुलगो मनुष्यम् ।
चतुष्पदाद्यं सुतवित्तयुक्तं
गुणानुरक्तं प्रियबन्धवं च ॥४१॥
सौरेण दृष्टः शशिज प्रसूते
नरं नितान्तं कलहेन युक्तम् ।
तुलाश्रितः कृत्रिमधर्मभाजं
पाषण्डसङ्गानुरतं सदैव ॥४२॥
बुधोऽलिसंस्थो रविणा च दृष्टो
नरं प्रसूते सुखवित्तहीनम् ।
सुतीब्रशोकं गतमानभोगं
प्रभूतवैरं प्रियसाहसं च ॥४३॥
चन्द्रेण दृष्टोऽलिगतः प्रसूते
बुधो नरं बुद्धिविवेकयुक्तम् ।
सुर्द्विजानां प्रणतं प्रगल्भं
सदाश्रुतं मानधनं नयज्ञम् ॥४४॥
भौमेन दृष्टोऽलिगतः प्रसूते
बुधो नरं बुद्धिविवेकहीनम् ।
सदानुरं साधुजनप्रमुक्तं
भयाकुलं निन्दितमानसत्त्वम् ॥४५॥
जीवेन दृष्टः खलु सोमपुत्रो
नरं प्रसूतेऽलिगतः सुशिलम् ।
विचक्षणं नीतिपरं प्रधानं
सुतार्थयुक्तं सततं सुशिलम् ॥४६॥
शुक्रेण दृष्टोऽलिगतो बुधस्तु
नरं प्रसूतेऽतिधनैः समृद्धम् ।
प्रसन्नचिन्तं प्रणतं गतारिं
प्रियातिथिं प्रस्तुमिष्टधर्मम् ॥४७॥
सौरेण दृष्टोऽलिगतः प्रसूते
बुधो प्रवृद्धिं शुभदं मनुष्यम् ।
कुकर्मरक्तं मुनिना विरक्तं
महाप्रतापं प्रणतं रिपूनाम् ॥४८॥
सूर्येण दृष्टः शशिजः प्रसूते
हयाश्रितः क्लेशविधर्मयुक्तम् ।
नरं कुमित्रैः सहीतं गतारिं
विहीनकोशं भयसंयुतं च ॥४९॥
चन्द्रेण दृष्टो हयगः प्रसूते
बुधः प्रसन्नं सुधनं मनुष्यम् ।
सुधर्मयुक्तं कृतसाधुसङ्गं
सदानुरक्तं पतिसज्जनानाम् ॥५०॥
भौमेन दृष्टो प्रसूते
बुधो धनाढ्यं प्रथितं मनुष्यम् ।
हितं स्ववर्गे प्रचुरप्रतापं
विद्यानुरक्तं भयवर्जितं च ॥५१॥
जीवेन दृष्टो हयगः प्रसूते
बुधः प्रभूतार्थनयेन युक्तम् ।
नरं सुवर्णम्बररत्नभाजं
जितेन्द्रयं स्नानपरं सदैव ॥५२॥
शुक्रेण दृष्टो हयगः प्रसूते
बुधोऽतिमान्यं नृपमानाजम् ।
नरं विधिचं प्रणतारिपक्षं
सुसंमतं देवगुरुद्विजानाम् ॥५३॥
सौरेण दृष्टः शशिजो हयस्थो
गतप्रभावं जनयेन्मनुष्यम् ।
परान्नरक्तं बहुदानभाजं
प्रज्ञाविहीनं गतबान्धवं च ॥५४॥
मृगाश्रितः सोमसुतोऽर्कदृष्टः
करोति मर्त्यं प्रभुदुःखभाजम् ।
व्यपेतशीलं सततं कृतघ्नं
विवर्जितं सत्यदयानयैश्च ॥५५॥
बुद्धो मृगस्थः शशिना च दृष्टः
करोति मर्त्यं सुखसंप्रगल्भम् ।
प्रियान्तचिन्तम् तीर्थकथानुरक्तं
प्रशान्तचिन्तम् विनयेन युक्तम् ॥५६॥
भौमेन दृष्टो मृगगः प्रसूते
सौम्यो न सौम्यं शुभवित्तहीनम् ।
सुगुह्यरोगार्दितमेव नित्यं
प्रियाविहीनं भयसंयुतं च ॥५७॥
जीवेन दृष्टो मृगगो बुधश्च
नरं प्रसूते बहुपुत्रयुक्तम् ।
सन्तुष्टचिन्तं व्यसनेन हीनं
नृपप्रियं बन्धुहितं सदैव ॥५८॥
शुक्रेण दृष्टो मकरे बुधस्तु
करोति मर्त्यं विजितारिपक्षम् ।
जितेन्द्रियं वृत्तिकरं द्विजानां
सदानुकूलं विभवैः समेतम् ॥५९॥
सौरेण दृष्टः प्रकरोति सौम्यो
मृगाश्रितः पापरतं मनुष्यम् ।
शिरोक्षिरोगैः सहितं सुदुष्टं
विहीनवित्तं भयसंयुतं च ॥६०॥
घटाश्रितः सोमसुतोऽर्कदृष्तः
करोति मर्त्यं बहुनीचरक्तम् ।
श्रिया विहीनं सुजनैर्वयुक्तं
विवर्जितं पुण्यसुखेन नित्यम् ॥६१॥
घटाश्रितः सोमसुतः प्रदृष्ट
श्चन्द्रेण धत्ते सुभगं मनुष्यम् ।
सुरक्षितं पुण्यधनैः समेतं
नयानुरक्तं प्रवरं सुदारम् ॥६२॥
भौमेन दृष्तो घटगः प्रसूते
बुधः सुबुद्धिं च सुखार्थहीनम् ।
सदारुजं क्रूरमतिं मनुष्यं
संपीडितं श्लेष्मकृतैर्विकारैः ॥६३॥
जीवेन दृष्टः शशिजः प्रसूते
घटाश्रितः श्रीसहितं मनुष्यम् ।
स्त्रीणामभीष्टं सुरतानुरक्तं
धर्माश्रितं शास्त्रसुलालसं च ॥६४॥
शुक्रेण दृष्टः शशिजः प्रसूते
नरं प्रशान्तं परमप्रभावम् ।
नरेन्द्रपूज्यं प्रणतं द्विजानां
सुश्लाघितं बन्दिजनेन नित्यम् ॥६५॥
मन्देन दृष्टः शशिजो घटस्थः
करोति मर्त्यं बहुमन्दभाजम् ।
प्रभूतदुःखं धनधान्यहीनं
पराङ्मुखं देवगुरुद्विजाननाम् ॥६६॥
सूर्येण दृष्टो ह्यषगो बुधस्तु
करोति मर्त्यं विकृतस्वभावम् ।
अतीव पित्तज्वरवातरोगैः
संपीडिताङ्गं प्रभया विहीनम् ॥६७॥
चन्द्रेण दृष्टः प्रकरोति सौम्यो
मीनाश्रितः सत्यपरं मनुष्यम् ।
सुबन्धुपूजासुरकार्यदक्षं
दयान्वितं प्रीतिकरं जनानाम् ॥६८॥
भौमेन दृष्टो ह्यषगस्तु सौम्यः
करोति नानाविधरोगभाजम् ।
विहीनवर्णं कफरक्तरोगैः
संपीडितं मानविवर्जितं च ॥६९॥
देवेज्यदृष्टः शशिजः प्रसूते
मीनाश्रितः सर्वकलासु दक्षम् ।
नरं सुपुण्याश्रितमिष्टचिन्तं
सदानुरक्तं नृपबान्धवानाम् ॥७०॥
॥७१॥
सौरेण दृष्टः शशिजो ह्यषस्थः
करोति संपीडितमुग्ररोगैः ।
शिरोक्षिहस्तांघ्रिरुजाविकारैः
संपीडितं नष्टधनं विरूपम् ॥७२॥
इति श्रिवृद्धयवने बुधदर्शनचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:30:36.3900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

करवाड

  • न. करबड पहा . वोंलिं जोंधळियाची करवाडें । खातां अत्यंत लागतीं गोडें । - एभा २१ . २६७ . 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.