TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १०

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


चन्द्रदर्शचाराध्यायः
मेषे गतो रात्रिचरः प्रसूते
सूर्येण दृष्टः कथितप्रभावम् ।
नरं नितान्तं व्यसपैः समेतं
गतप्रभं भक्तिविवर्जितं च ॥१॥
मेषाश्रितः शीतकरः प्रदृष्टो
भौमेन मर्त्यं सरुजं करोति ।
बहुप्रकोपं विनयेन हीनं
सदा दरिद्रं गतसौहृदं च ॥२॥
बुधेन दृष्टः प्रकरोति चन्द्रो
नरं विनीतं सुरशीलभाजम् ।
मेषाश्रितो वाहनभोजनाद्यं
प्रियंवदं ब्रह्मणवल्लभं च ॥३॥
जीवेन दृष्टः खलु मेषसंस्थ
चन्द्रः प्रसूते गुणकीर्तियुक्तम् ।
नयाधिकं धर्मपरं कृतज्ञं
दयान्वितं सत्ययुतं सदैव ॥४॥
मेषाश्रितो भार्गवदृष्टियुक्त
चन्द्रः प्रसुते विधनं मनुष्यम् ।
हतारिरोगं विनयप्रयुक्तं
महाप्रभं पार्थिवसंमतं च ॥५॥
दृष्टः शशाङ्कोऽजगतोऽसितेन
पापं विधत्ते सहृजं मनुष्यं ।
विहीनवित्तं कलहश्रमार्तं
विवर्जितं साधुसमगमेन ॥६॥
वृषाश्रितो रात्रिकरः प्रगल्भं
नरं प्रसूते रवीणा च दृष्टः ।
मायाधिकं वित्तहरं प्रजाना
मुग्रस्वभावं गतधर्मवृद्धिम् ॥७॥
चन्द्रो वृषस्थः क्षितिजेन दृष्टो
नरं सुवाते क्षतपीडितङ्गम् ।
व्ययाधिकं कण्डुरुजासमेतं
सुनिष्ठुरं पुण्यविवर्जितं च ॥८॥
सौम्येन दृष्टो वृषगः शशाङ्कः
करोति मर्त्यं नृपतुल्यभागम् ।
विद्यानुरक्तं प्रभया समेतं
युतं महाबन्दिगणैः सदैव ॥९॥
जीवेन दृष्टो हिमगुर्वृषस्थो
नरं प्रसूते द्विजदेवभक्तम् ।
सुवस्त्रशय्यासनभोजनाक्षैः
समन्वितं तस्य गुणप्रभावम् ॥१०॥
गोसंश्रितो रात्रिकरः सुवाते
शुक्रेण दृष्टः सुभगं मनुष्यम् ।
यज्ञोद्यतं कूपतहागरक्त
मुद्यानवापीकृतमानसं च ॥११॥
मन्देन दृष्टो गविगः शशाङ्को
नरं सुवाते व्यसनैरुपेतम् ।
गतप्रभावं बहुदैन्यभाजं
विवर्जितं पुत्रधनार्थदारैः ॥१२॥
नृयुग्मगः शीतकरः प्रसूते
सूर्येण दृष्टो बहुमन्दवृद्धिम् ।
सर्पदिभिः पीडितमुग्ररोगै
र्विचर्चिकाक्षैच तथा सदैव ॥१३॥
दृष्टः शशाङ्को मिथुनाश्रितश्च
भौमेन भीतं जनयेन्मनुष्यम् ।
दीनं कृशं वातविकारयुक्तं
सदातिवृद्धिं नयवर्जितं च ॥१४॥
सौम्येन दृष्टो मिथुने शशाङ्कः
करोति सौख्यं सुभगं मनुष्यम् ।
मनोचदेहं सुहृदा च युक्तं
कुलप्रधानं प्रणतं द्विजानाम् ॥१५॥
जीवेन दृष्टो मिथुनस्थ एव
चन्द्रः प्रसूते विभवैः समेतम् ।
महाधनं सौर्यकृतं मनोज्ञं
शुचिं सदा धर्मसमन्वितं च ॥१६॥
शुक्रेण दृष्टः प्रकरोति चन्द्र
स्तृतीयराशौ गजवाजिभाजम् ।
नरं बहुस्त्रीरतिलब्धसौख्यं
महधनं पार्थिवमानजुष्टम् ॥१७॥
सौरेण दृष्टोऽतिखलं सुवाते
चन्द्रो नृयुग्मस्थित एव मर्त्यम् ।
चौरावनीशैः परिपीडिताङ्गं
सवृद्धभावं विनयेन हीनम् ॥१८॥
कर्काश्रितो रात्रिपतिः सुवाते
सूर्येण दृष्टोऽल्पधनं मनुष्यम् ।
तीव्रस्वभवं खलसङ्गरक्तं
धर्मार्थकामैः परिवर्जितं च ॥१९॥
भौमेन दृष्टः प्रकरोति चन्द्रः
कर्काश्रितस्त्यागदयाविहीनम् ।
नितान्तदष्टं परपुत्रहीनं
विवर्जितं धर्मपरैर्मनुष्यैः ॥२०॥
बुधेन दृष्टः स्वगृहे शशाङ्को
नरं सुवातो तनयार्थयुक्तम् ।
विदग्धबुद्धिं बहुमित्रपूज्यं
श्रद्धान्वितं सत्यदयासमेतम् ॥२१॥
दृष्टः सुरेज्येन निशाधिनाथ
श्चतुर्थराशौ व्रतिनं विधत्ते ।
तीर्थानुरक्तं गतदुष्टभावं
सुधर्मिणं देवगुरुप्रसक्तम् ॥२२॥
शुक्रेण दृष्टः प्रकरोति चन्द्र
श्चतुर्थराशौ गृहभूमिभाजम् ।
सदानुरक्तं गुरुबान्धवानां
मनस्विनं शीलधनप्रगल्भम् ॥२३॥
सौरेण दृष्टः प्रकरोति चन्द्रः
कर्काश्रितः पापमतिं मनुष्यं ।
विहीनवित्तं परदाररक्तं
सदा कृतघ्नं भयसंयुतं च ॥२४॥
सिंहाश्रितः शितकरः प्रसूते
सूर्येण दृष्टः प्रचुरं विदग्धम्
सत्याश्रितं बन्धजनेन पूज्यं
सभूमिलभं गतरोगदुःखम् ॥२५॥
भौमेन दृष्टः कुरुते शशाङ्कः
सिंहाश्रितः पापरतं मनुष्यम् ।
चानुरक्तं परदेशभाजं
महाव्ययं पार्थिवपीदितं च ॥२६॥
बुधेन दृष्टः प्रकरोति चन्द्रः
सिंहस्थितः कृच्छ्रधनाप्तसौख्यम् ।
पुण्यभाजं कुकलत्रयुक्तं
युक्तंविचित्रैः पशुपुत्रवित्तैः ॥२७॥
जीवेन दृष्टः प्रभुतासमेतं
सिंहाश्रितः शीतकरो विधत्ते
नरं महाधर्मपरं प्रधानं
प्रज्ञान्वितं मान्यतमं प्रियं च ॥२८॥
शुक्रेण दृष्टः सुभगं मनोज्ञं
हरौ स्थितः शितकरो विधत्ते ।
यंवदं धर्मकथानुरक्तं
हितं द्विजानां नृपपूजिताङ्गम् ॥२९॥
मन्देन दृष्टो बहुमन्दयुक्तं
चन्द्रो विधत्ते खलु सिंहसंस्थः ।
शिरोर्तिदाहज्वरकामलाद्यैः
संपीडिताङ्गं मनुजं विधत्ते ॥३०॥
कन्याश्रितः शितकरोऽर्कदृष्टो
नरं सुवाते तनयेन युक्तम् ।
श्रद्धापरं सात्त्विकमिष्टधर्मं
तीर्थानुरक्तं भयवर्जितं च ॥३१॥
भौमेन दृष्टः परदाररक्तं
कन्याश्रितः शीतकरः करोति ।
क्षतार्दिताङ्गं गुरुरोगयुक्तं
महाभयैः संयुतमिष्टपापम् ॥३२॥
बुधेन दृष्टः खलु शीतरश्मिः
कन्याश्रितः सीतसहितं मनुष्यं ।
करोति भूपालसुलब्धमानं
जनप्रियं पुण्यकथानुरक्तम् ॥३३॥
सदा सुशीलं द्विजदेवभक्तं
भूपलमान्यं द्विजबन्धुपूज्यम् ।
कन्याश्रितो रात्रिपतिः सुवाते
जीवेन दृष्टः प्रचुरप्रतापम् ॥३४॥
शुक्रेण दृष्टः सततं विधित्रं
चन्द्रः प्रसूते खलु षष्ठराशौ ।
सद्भूमिवस्त्राचवरौषधीनां
संसेवकं पीनतनुं मदार्तम् ॥३५॥
सौरेण दृष्टः विधनं मनुष्यं
नयेन हीनं परदाररक्तं ।
सदालसं मन्दगतिं विधत्ते
नीचाश्रितं पापरतं सदैव ॥३६॥
तुलाश्रितो रात्रिपतिर्यदा स्यात्
सूर्येण दृष्टः प्रकरोतिं मर्त्यम् ।
कीर्त्याधिकं वित्तयुतं कृतज्ञं
शौर्यस्वभावं सततं सुखाढ्यम् ॥३७॥
भौमेन दृष्टः हिमगुः प्रसूते
तुलाश्रितः पापरतं कुशीलम् ।
लज्जावि हीनं व्यसनैरूपेतं
मित्रैर्विहीनं विकृतस्वभावम् ॥३८॥
सौम्येन दृष्टः सुभगं प्रसूते
तुलाश्रितः शितकरो मनुष्यम् ।
सत्यानुरक्तं पशुपुत्रयुक्तं
नाना गमैर्वधितबुद्धिवृद्धिम् ॥३९॥
देवेज्यदृष्टो हिमगुः प्रसूते
तुलाश्रितः सत्यपरं मनुष्यम् ।
गुणानुरक्तं प्रचुरान्नपानं
मन्दं शुशीलं प्रमदाप्रियं च ॥४०॥
शुक्रेण दृष्टः प्रकरोति चन्द्रो
नरं विवेकागमशास्त्रलुब्धम् ।
हस्त्यश्चवस्त्रान्नसुभोजनानि
नृपप्रियं बन्धवपूजितं च ॥४१॥
सौरेण दृष्टो हिमगुः प्रसूते
तुलाश्रितो धर्मदयाविहिनम् ।
कुमित्ररक्तं बहुशोकभाजं
विरक्तपौरं परतकर्कं च ॥४२॥
चन्द्रोऽलिसंस्थो मनुजं प्रसूते
सूर्येण दृष्टो प्रभया विहीनम् ।
नरं निकृष्टान्गयमुग्रकर्मं
प्रतापहीनं विकृतं सदैव ॥४३॥
चन्द्रोऽलिसंस्थः क्षितिजेन दृष्टो
नरं सुवाते कृतिकीर्तिदेहम् ।
नित्यं कृतघ्नं भयशोकतप्तं
व्ययाधिकं कामपरं कुचैलम् ॥४४॥
करोति चन्द्रोऽलिगतो मनुष्यं
सौम्येन दृष्टः सुभगं मनोज्ञम् ।
गतारिपक्षं द्विजदेवभक्तं
प्रशान्तचिन्तम् व्यसनेन हीनम् ॥४५॥
जीवेन दृष्टोऽलिगतोऽतिधर्मं
नरं प्रसूते हिमगुः प्रसिद्धं ।
सदा सुशिलं नृपतेरभीष्टं
प्रियं नरं दानरतं सदैव ॥४६॥
शुक्रेण दृष्टः खलु शीतरश्मि
र्नरं सुवातेऽतिगतो धनाढ्यम् ।
विमुक्तरोगं गतपौरशोकं
हीनं सदा बन्धुजनस्य लोके ॥४७॥
सौरेण दृष्टः खलु शीतरश्मि
र्नरं प्रसूते गतमानलाभम् ।
चिन्ताधिकं बुद्धिविवेकहीनं
कृतघ्नकर्माणमुरुप्रकोपम् ॥४८॥
चापाश्रितो शीतकरः प्रसूते
सूर्येण दृष्टः प्रचुरप्रकोपम् ।
विहीनलज्जं नृपमानहीनं
विवर्जितं साधुजनैः सदैव ॥४९॥
चापाश्रितः शितकरो विधत्ते
भौमेन दृष्टः कलहेन युक्तम् ।
नरं द्विजद्वेषपरं कुधर्मं
त्यक्तं स्वधमेण महाक्षिरोगम् ॥५०॥
हये शशी लब्धधनं प्रसूते
बुधेन दृष्टः प्रणतारिपक्षम् ।
प्रियंवदं सर्वजनप्रधानं
सुसंयुतं वेदविशारदं च ॥५१॥
जीवेन दृष्टो हयगः शशाङ्को
जितेन्द्रियं सत्यपरं प्रसूते ।
वेश्यानुरक्तं बहुभृत्यबर्गं
सुसंयुतं देवगुरुर्जितानाम् ॥५२॥
शुक्रेण दृष्टा हयगः शशाङ्को
नरं विधत्ते बहुवाजियुक्तम् ।
दानोद्यतं युक्तभयेन युक्तं
लाभो यथा सङ्गतमिष्टसत्यम् ॥५३॥
सौरेण दृष्टो हयगः शशाङ्कः
करोति रोगैर्विविधैः समेतम् ।
नरं प्रभूतागममव्ययाढ्यं
कफप्रयुक्तं विविधप्रियं च ॥५४॥
मृगाश्रितः शितकरः प्रसूते
सूर्येण दृष्टो गतमानवित्तम् ।
प्रभाविहीनं परपाकरक्तं
प्रभावदृष्टं हतबन्धवं च ॥५५॥
भौमेन दृष्टो मकरे शशाङ्कि
नरं विधत्ते प्रणयेन हीनम् ।
आशं परपक्षरक्तं
दुष्टस्वभावं हतबान्धवं च ॥५६॥
पित्तानिलैः पीडितमुग्ररोगं
सदा रतं नीचकथाप्रसङ्गैः ।
बुधेन दृष्टो बहुबुद्धियुक्तं
नरं सुवते मृगगः शशाङ्कः ॥५७॥
सुरूपदेहं सुभगं विनीतं
निवेशितं साधुजनेन नित्यम् ।
जीवेन दृष्टः खलु शीतरश्मि
र्मृगाश्रितो धर्मपरं मनुष्यं ॥५८॥
करोति रत्नागमलब्धतुष्टिं
तीर्थाश्रयं शत्रुजनैः समेतम् ।
शुक्रेण दृष्टो मकरे शशाङ्कः
करोति पुण्यैर्विविधैः समेतम् ॥५९॥
जीतारिपक्षं निबन्धुमान्यं
कुलप्रधानं सुभगं सदैव ।
सौरेण दृष्टो मकरे शशाङ्कः
करोति मर्त्यं बहुदोषभाजम् ॥६०॥
विचर्चिकण्डवादीरुजासमेतं
संपीडितं कामलवातदोषैः ।
कुम्भे शशी वासरपेण दृष्टो
नरं प्रसूते नयनार्थभीतम् ॥६१॥
मुखाक्षिरोगप्रमखैर्विकारैः
संपीडितं पार्थिवतस्करैश्च ।
घटाश्रितः शितकरः प्रदृष्टो
भौमेन नित्यं कुरुते कृतघ्नम् ॥६२॥
क्रोधाधिकं वंचनकं परेषां
विशारदं सर्वकलसु दक्षम् ।
चन्द्रो घटस्थ स्वसुतेन दृष्टः
करोति मर्त्यं सुतदारभृत्यैः ॥६३॥
हितं विधत्ते द्विजदेवभक्तं
सदा सुशीलं बहुमानभाजम् ।
जीवेन दृष्टो घटगः शशाङ्कः
 ॥६४॥
शुक्रेण दृष्टो घटगः शशाङ्कः
करोति सर्वस्वधनैः समेतम् ।
नरेन्द्रसेवास रतं नयज्ञं
प्रशंसितं साधुजनेन नित्यम् ॥६५॥
गुल्मातिसाराप्रभवैश्च रोगैः
संपीडितः कर्णसमुद्भवैश्च ।
घटाश्रिते सूर्यसुतेन दृष्टो
चन्द्रे नरः कीर्तिविवर्जितश्च ॥६६॥
मीनाश्रितः शीतकरः प्रसूते
सूर्येण दृष्टो विकृतं मनुष्यम् ।
त्यक्तं स्वमित्रैः परमित्ररक्तं
बुद्धा विहीनं सततं विरुद्धम् ॥६७॥
भौमेन दृष्टो ह्यषगः शशाङ्कः
करोति रक्तप्रभवैश्च दोषैः ।
संपीडिताङ्गं गुरुदोषभाजं
विहीनवित्तं परदेशरक्तम् ॥६८॥
बुधेन दृष्टो ह्यषगः शशाङ्कः
करोति नानाविधरोगभाजम् ।
नरं सुरूपं बहुशास्त्ररक्तं
सदानशीलं सततं सुलाभम् ॥६९॥
जीवेन दृष्टो ह्यषराशिसंस्थो
नरं सुवाते सुभगं शशाङ्कः ।
चतुष्पदाछानभूरिलाभैः
सन्तुष्टचिन्तं नृपमानभाजम् ॥७०॥
शुक्रेण दृष्टः प्रचुरान्नपानैः
संयोजयेच्छीतकरो ह्यषस्थः ।
शाखानुरक्तं विविधान्नपानं
सुरंजितं पार्थिवसद्गुरूणाम् ॥७१॥
चन्द्रे ह्यषस्थे रविपुत्रदृष्टे
नरो भवेत् पापमतिः सदैव ।
गुणैर्विहीनः प्रचुरप्रकोपो
भयानुरक्तः स्वसमन्वितश्च ॥७२॥
इति श्रीवृद्धयवने चन्द्रदर्शनचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:27:42.7970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुस्मान

  • पु. ( गो . ) शत्रु ; वैरी . [ फा . दुश्मन ] दुस्मानकाय - न . ( गो .) शत्रुत्व ; वैर . 
  • पु. शत्रु ; दुशमन पहा . दुश्मनगी , दुश्मनगिरी , दश्मनी - स्त्री . वैर ; शत्रुत्व . ज्याप्रमाणे पानिपतचे समयी सर्व हिंदुस्थान मिळून दक्षण्यांसी दुश्मनगी केली तेच अवस्था आतां जाली आहे . - दिमरा १ . २२६ . जो पावेतो इंग्रजांचे पारपत्य होत नाही तो पावेतो इंग्रेजांसी खुली दुश्मनी करावयास भितात . - रा १२ . २३ . [ दुश्मन ] 
  • पु. ( गो . ) शत्रु ; वैरी . [ फा . दुश्मन ] दुस्मानकाय - न . ( गो .) शत्रुत्व ; वैर . 
  • पु. १ शत्रु ; वैरी . २ सर्वसाधारण शत्रु . [ फा . दुश्मन ] म्ह ० १ दाहाचा हात दुशमनावरही पडू नये = दहा माणसांनी एकट्या शत्रूवरहि हात टाकूं नये . २ दुशमन असावा पण दाणा असावा = शत्रु पुरवेल पण तो समंजस , उदार , असावा . दुशमनकी , दुशमनगिरी , दुशमनगरी , दुशमनी - स्त्री . १ वैर ; शत्रुत्व ; द्वेष . २ शत्रुत्वाचे , द्वेशमूलक कृत्य , वागणूक . दुशमनदावा - पु . ( सामा . ) द्वेष ; मत्सर ; वैरबुद्धि ( क्रि० करणे ; धरणे ; बाळगणे ; पाळणे ). [ दुश्मन + दावा ] 
More meanings
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site