TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय ३

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


आधानाध्यायः
आधानपृच्छोद्भवसाम्यमुक्तं
फलं यतस्तस्य परीज्ञणार्थम् ।
योगान् विचित्रान् प्रवदान्यतोऽहं
चिह्नैर्यथा ग्रन्तुविनिश्चयः स्यात् ॥१॥
लग्नं यदा पश्यति सूर्यसूनु
र्नीचाश्रितः सौम्यदृशा विहीनम् ।
तदान्यजातः प्रवदान्ति मर्त्यं
सूर्यस्य वीर्येण दिवा प्रसङ्गात् ॥२॥
भौमो यदा वैश्यसमुद्भवेन
सक्षीणचन्द्रो नृपसंभवेन ।
अस्तं गतो ज्ञो द्विजवर्णयोगात्
सर्वैरथ म्लेच्छसमुद्रभवेन ॥३॥
एषां मृतिर्दासजनादिनीचै
र्द्वाभ्यां वधूभिर्विकृतिर्नरैश्च ।
चतुष्पदे मूर्तिषु ॥
आप्ये क्षितौ प्रान्तरके नृसंज्ञे ॥४॥
कीटे विलोमं प्रवदन्ति भावं
वाच्यं विलग्नाधिपतेः स्वभावात् ।
कलत्रतः सङ्गविधिः प्रदिष्टो
विकारवैकृत्यसमो ग्रहाश्च ॥५॥
यदा रविनेंक्षति जन्मलग्नं
तदान्धकारे सुरतप्रयोगः ।
तस्मिन्नुदक्स्थे स्वनवांशभागे
दिवा प्रसङ्गः शनिना च रात्रौ ॥६॥
सर्वैरदृष्टे प्रवदेदरण्ये
स्य मध्ये जललग्नसंस्थे ।
कलत्रगः शीतमयूखमाली
यदा रविर्मूर्तिगतस्तदा स्यात् ॥७॥
सण्ध्या प्रयोगो व्ययगेऽथ भौमे
उर्ध्वं प्रशस्तं रविनन्दनेन ।
सीत्कारमिश्रं सुरपूजितेन
शश्चत् क्षतक्रान्तमुरुप्रचण्डम ॥८॥
शुक्रेण लीनं शशिना विदग्धं
स्यात् सोमजेनैव नितान्तदीर्घम् ।
आद्यस्य मासस्य भृगुर्विधाता
तस्मिन् भवेच्छोणितशुक्रसङ्गः ॥९॥
तद्रूपचेष्टाबलहानिदीप्त्या
गर्भस्य वाच्यं स्वफलं जनन्याः ।
द्वितीयमासाधिपतिः कुजश्च
तस्मिन् धनं तस्य भवेत् समन्तात् ॥१०॥
जीवस्तृतीयस्य करांघ्रिवक्त्र
ग्रीवादिकं तत्र भवेत् समग्रम् ।
सूर्यश्चतुर्थस्य पतिः प्रदिष्टः
अस्थीनि तत्र प्रभावन्ति पुंसाम् ॥११॥
मज्जा च मेदश्च सुमांसरक्तं
व्यक्तिं समायाति विभागतश्च ।
तस्मिन् स सौरिः किल पंचमस्य
तस्मिन् समन्तात् कृतिमाकृणोति ॥१२॥
प्राप्नोति पुष्टिं विविधां च गर्भ
व्यक्तिं समागच्छति कायजाताम् ।
षष्ठस्य चन्द्रो विभुतामुपैति
रोमाणि तत्र प्रभवन्ति गात्रे ॥१३॥
नखाश्च जिह्वा गुदरन्ध्रभावे
गुप्तं स्वरं ब्रह्मभवे हि तत्र ।
॥चन्द्रसूनुः किल सप्त
तस्मिन् स्मृतिः स्यात् सततं नराणाम् ॥१४॥
पंचेन्द्रियत्वं च विवेकिता च
कोऽहं कुतोऽत्राश्रयमभ्युपेतः ।
लग्नाधिनाथस्त्वथवाष्टम्रस्य
मासस्य तस्मिन् प्रचुरा बुभुक्षा ॥१५॥
पक्षेन् मनुष्यस्य ततः सुतृप्तः
भुंक्ते जनित्र्या रसभावसङ्गात् ।
नक्षत्रनाथो नवमस्य नाथ
स्तस्मिन् विरक्तिर्विविधा नराणाम् ॥१६॥
गर्भाश्रयः दुःखमनन्तमेक्तं
कृतं स्मृतिः पूर्वशुभाशुभस्य ।
दिवाकरस्तन्मरतोऽधिनाथ
स्तमिन् प्रदिष्टः प्रसवो नराणाम् ॥१७॥
तस्मिन् यदि स्याद् व्ययगः शशाङ्कः
स्यादष्टमो भूतनयः प्रसूतिः ॥१८॥
यो यस्य मासस्य भवेद्धि नाथः
संभोगमेनं तु य्दा प्रयाति ।
अर्वाग्विधत्ते स तदास्य जन्म
वीर्येण हीनो यदि वात्मजेन ॥१९॥
योगो यदाभानगतः सुतारि
द्विजीयदुश्चिक्यगतैः समस्तैः ।
भवेत् प्रसूतिर्दशमे परेण
तदा नराणां न च योषितानाम् ॥२०॥
सूर्येण तासां प्रवदन्ति शोषं
योगं नृणां वाध्यमनेकरूपम् ।
क्लीवोदये क्लीवयुते नवांशे
क्लीवस्य जन्म प्रभवेन्नराणाम् ॥२१॥
एवं पुमांसः प्रभवन्ति नार्यः
स्त्रीभावयोगाद्बहुधा विशेषः ॥२२॥
नवांशनाथश्च यदा विलग्नं
पश्येत् सुहृत्केन्द्रगतः सुदीप्तः ।
तदात्मवर्गेण करोति जन्म
प्रधानभूतं मनसा नराणाम् ॥२३॥
दुश्चिक्यजामित्रगताः प्रचण्डाः
सौम्या यदा कोशत्रिकोणसंस्थाः ।
पुंजन्मदास्तत्र भवन्ति दृष्टा
श्चन्द्रेण जीवेन शशाङ्कजेन ॥२४॥
मन्दारयोः सप्तमराशिसंस्थयो
र्दा निषेको मरणं तदा पितुः ।
रवेः शशाङ्कात् त्वथ तज्जनन्या
एकान्तरोधः पुरुषस्य वाच्यः ॥२५॥
यदा हिमांशुर्व्ययगो दिवाकर
श्छिद्रं गतो भूतनयश्चतुर्थः ।
मृत्युस्तदा संभवते ह्युभाभ्याम्
शत्रेण सौरेण तु बन्धनेन ॥२६॥
मृत्युकरः शीतकरश्च रिष्फे
उस्वस्थितः सूर्यसुतः सभौमः ।
ज्ञ गर्भसंभूतिरिह प्रदिष्टा
योगैः ससौम्यैः प्रव्दन्ति कृच्छात् ॥२७॥
मूर्तिस्थितस्तीक्ष्णकरः कुजो वा
सक्षीणमूर्तिविधुः रिष्फगो वा ।
वृचाफलः स्यात् सुरतोपचारो
नीचाश्रितैस्त्र्यादिभिरेव पुंसाम् ॥२८॥
क्लीवस्य लग्ने बुधससौरयुक्ते
सुतस्थिते वा त्वथ रिष्फगे वा ।
क्लीवस्य जन्म प्रवदन्ति पुंसां
शुभेक्षिते तत्र यथा स्वरूपम् ॥२९॥
यदा कुजः सप्तमराशिमाश्रितः
शनैश्चरो वा रविणा समाहितः ।
न मूर्तिगो देवगुरुः सितो वा
तदा न गर्भं प्रवदन्ति योषितां ॥३०॥
नभस्तलस्थो यदि वासुरार्चित
स्त्रिकोणगो देवगुरुः शशीतगुः ।
गर्भस्तदा संभवति प्रजा
नवांशको वा हिमरश्मिजस्य ॥३१॥
तृतीयजामित्रगतौ सितार्कौ
शनैश्चरो लाभगतो यदा स्यात् ।
पुमांस्तदा गर्भगतः प्रवाच्यो
जीवोऽथवा स्वोच्चगतस्त्रिकोणे ॥३२॥
पुंवर्गगे सूर्यसुते महीजे
दिवकरे लग्नमुपश्रिते वा ।
गर्भे पुमान् शीतकरेऽथवाम्बरे
स्वतुङ्गे शुक्रदृशा समन्विते ॥३३॥
कुम्भे विलग्ने मिथुनेऽथ कन्ये
॥के तत्सुतवर्गगे वा ।
॥ प्रवदन्ति गर्भं
तदा नराणां च नवांशके वा ॥३४॥
सौम्यान्विते तत्र यथा स्वरूपं
नरं स्त्रियं वा तनयैर्विहीनम् ।
पापान्विते चार्धमुशन्ति नार्या
अर्धं नरस्यैव भवेधि गर्भे ॥३५॥
स्त्रीलग्नगे रत्रिकरे च शुक्रे
समस्थिते सूर्यसुते सजीवे ।
स्त्रीगर्भमुक्तं धरणिसुतेन
स्ववर्गसंस्थे शशिना च दृष्टे ॥३६॥
हिमांशुः सुरपूजितोऽथवा
शुक्रेण दृष्टः समराशिसंस्थितः ।
तदाबलां गर्भगता नृणां च
शनैश्चरे वा रविभागमाश्रिते ॥३७॥
द्विदेहलग्ने हिमरश्मियुक्ते
स्वसंस्थे रविजे च लाभे ।
॥।उदेल्लग्नगतं ॥
।स्त्रिपत्वं प्रवदेदुभाभ्याम् ॥३८॥
शनैश्चरे मूर्तिगते शशाङ्के
षष्ठे बुधे सप्तमगे च शुक्रे ।
सूर्येऽष्टमे सौम्यविवर्जिते च
त्रयः पुमांसः प्रवदन्ति गर्भे ॥३९॥
एवं कुजे संप्रवदन्ति नार्यो
नपुंसकाख्यानि दिवाकरे च ॥४०॥
इति श्रीवृद्धयवने आधानाध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:20:30.2970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

performance audit

  • कार्याभिमुख लेखापरीक्षा 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site