TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १७

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सूर्यचाराध्यायः
मेषं गतोऽर्कः समरप्रचण्डं
नरं प्रसूते धनवीर्ययुक्तम् ।
शास्त्रार्धवाक्कर्मसु लब्धशब्दं
जयैषिणं साधितमुच्चचेष्टम् ॥१॥
वृषं गतोऽर्कः प्रियगन्धमाल्यं
मिष्टाशनाहादनलब्धसौख्यम् ।
सङ्गितविद्याभिरतं रतिज्ञं
नरं सुवाते बहुमित्रयुक्तम् ॥२॥
बन्धुप्रियं साहसकर्मशिलं
मुखाक्षिरोगोपहतं सपापम् ।
तिष्ठन् तृतीये दिनकृत् प्रसूते
नरं शुभाचारगुणैः समेतम् ॥३॥
मेधाविनं वाह्मधुरे विनीतं
नैपुण्यवाक्सत्यगुणैरुपेतम् ।
तिष्ठन् रविः कर्कटके मनुष्यं
करोति नानाविधसौख्यभाजम् ॥४॥
सिंहे तु सूर्यो जनयत्यरिघ्नं
नरं भृशक्रोधसुदारचेष्टम् ।
सत्याधिकं शौर्यविलब्धकीर्ति
मुत्साहयुक्तं सततं बलाढ्यम् ॥५॥
कन्याश्रितो दुर्बलमल्पसत्यं
रविः प्रसूते मृदुदीनसत्त्वम् ।
स्त्रीतुल्यवीर्यं कृपणस्वभावं
निन्दानुरक्तं सततं गुरूणां ॥६॥
भृत्यक्षयार्तिं व्ययशोकतप्तं
प्रकृष्टनीचोपहतं प्रतीष्टम् ।
तुलाधरस्थो दिनकृन्मनुष्यं
करोति नीचं व्यसनाभिभूतम् ॥७॥
नित्यं प्रसूते मृतिधर्मशिलं
सूर्योऽष्तमस्थो वनितास्वभीष्टम् ।
नानार्थयुक्तं सुभगं मनुष्यं
नृपप्रसादप्तसुखं जितारिम् ॥८॥
धनुर्धरस्यो जनयेन्मुष्यं
सूर्यो नरेन्द्राभिमतं महान्तम् ।
शस्त्रार्थशिक्षानिपुणं निघृष्टं
प्राज्ञं सुनीतिव्यनहारदक्षम् ॥९॥
मृगाभिधाने सविता निविष्टो
विपन्नशीलं जनयेन्मनुष्यम् ।
अनीष्टकार्येषु सदानुरक्तं
मनोज्ञविद्वेषिणमल्मसत्त्वम् ॥१०॥
तिष्ठन् रविः कुम्भधरे प्रसूते
नरं दृढद्वेषविरोधरोधम् ।
अनिश्चितं कर्मसु दुःप्रलापं
व्ययान्वितं पापपरं कृतघ्नम् ॥११॥
मीनाभिधाने सविता सुपुण्यं
कर्यान्मनुष्यं हतशत्रुपक्षम् ।
सुहृद्गुरुप्रीतिकरं सुवाक्यं
प्रसन्नशीलं बहुधर्मवित्तम् ॥१२॥
होरं गतोऽर्कः प्रकरोति तीक्ष्णं
स्वपित्तरोगं स्वजनापमानम् ।
इष्टैर्वियोगं कलहं च दुःखं
धनक्षयं वैरवशं प्रसूतम् ॥१३॥
होरां गतो रात्रिपतेर्दिनेशो
नरं विधत्ते सततं सुशीलम् ।
रोगैर्विमुक्तं विगतारिपक्षं
प्रियातिथिं बन्धुजनप्रधानं ॥१४॥
रोगाभिभूतं सविता करोति
नरं त्रिभागे प्रचुरं स्वकीये ।
हद्विग्नचिन्तं परदेशभाजं
गतप्रतापं प्रबलं नितार्त्तम् ॥१५॥
त्र्यंशे निधोर्वासरपः प्रसूते
धर्मिष्ठमिष्तं स्वजनैर्विपापम् ।
गीतप्रियं वाग्मिनमृद्धदारं
प्रभूतकोशं दयितं नराणाम् ॥१६॥
दृकाणगोऽर्को धरणीसुतस्य
यदा प्रयातः प्रकरोत्ययारीन् ।
असृग्व्यथानीचसमागमं च
पुत्रार्थहानिं सततं नराणाम् ॥१७॥
त्र्यंशं गतः सोमसुतस्य भानुः
स्वधर्मशिलं प्रकरोति मर्त्यम् ।
बिलासिनीकामपरं सदैव
विचित्रवाक्यं द्विजदेवभक्तम् ॥१८॥
बृहस्पतेस्त्र्यंशभनुप्रयातो
भानुर्विधत्ते मनुजं विहीनम् ।
प्रियातिथिं सर्वगुणैः समेतं
मेधाविनं वाक्यविशारदं च ॥१९॥
त्र्यंशस्थितो दैत्यपुरोहितस्य
भानुर्विधत्ते सुखिनं मनुष्यं ।
स्त्रीवल्लभं देवगुरुप्रसक्त
मारोग्य्देहं बहुसत्ययुक्तम् ॥२०॥
दृकाणमर्कः प्रगतोऽर्कजस्य
पापं प्रसूते सरुजं कृतघ्नम् ।
नरं सुतापव्यसनोपतप्तं
सुशीलिनं बन्धुजनैर्विमुक्तम् ॥२१॥
नवाम्शके स्वे सविता प्रसूते
नरं पराभूतमनासौख्यम् ।
कलिप्रियं बह्वृणमध्वशीलं
गतप्रभावं बहुरोगाजम् ॥२२॥
नवांशके रात्रिपतेर्विवस्वाम्
करोति मर्त्यं स्थित एव दक्षम् ।
सुतान्वितं शानयशोधनाढ्यं
नृपप्रियं मुख्यतमं स्वपक्षे ॥२३॥
कुजस्य भानुर्नवभागसंस्थो
दरिद्ररोगाभिहतं प्रसूते ।
निराकृतं दीनसुहृप्रकोपं
पापानुरक्तं क्षतजातिर्भाजम् ॥२४॥
तिष्ठन् रविः सोमसुतस्य भांशे
।आके वातभयं करोति ।
जितारिपक्षं सुतयानुरक्त
नरं सदा भोगसुखैः समेतम् ॥२५॥
नवांशके देवपुरोहितस्य
तिष्ठन् रविः सत्यधनं प्रसूते ।
तपोनुरक्तं कृतिनामभिष्टं
जिन्तेन्द्रियं सर्वसुखाधिवासम् ॥२६॥
इज्यान्वितं बन्धजनप्रधानं
विवेकिनं धर्मपरं जितारिम् ।
नवांशके दैत्यपुरोहितस्य
नरं प्रसूते सविता प्रगल्भम् ॥२७॥
पराजितं निर्धनसत्यवीर्यं
कामान्वितं बन्धुजनैर्विमुक्तम् ।
शनेर्नवंशे सविता प्रसूते
नरं खलं दुर्गतिरोगभाजम् ॥२८॥
सूर्यांशके स्वे सविता प्रसूते
नरं सुतीक्ष्णं परिभीतचिन्तम् ।
प्रभूतसेवं गतवीर्यर्पं
परैः सुदक्षं मतिभृद्विहीनम् ॥२९॥
सूर्यांशके रात्रिपतेर्विवस्वान्
करोति सौम्यं शुभक्र्मदक्षम् ।
विक्षाविनीतं सततं सुखाढ्यं
प्रसन्नचिन्त विभवैः समेतम् ॥३०॥
प्रियैर्विमुक्तं वधबन्धयुक्तं
पापनुरक्तं पुरुषं प्रसूते ।
सूर्यांशके भूतनयस्य भानु
र्विहीनसत्यं परतर्ककं च ॥३१॥
सत्याधिकं सर्वसुखैः समेतं
प्रियातिथिं ब्राह्मणसंमतं च ।
सूर्यांशके सोमसुतस्य भानु
स्तिष्ठन् प्रसूते मनुजं सनाथम् ॥३२॥
स्त्रीवल्लभः गीतकलासु दक्षं
भोगान्वितं वस्त्रविलेपनाढ्यम् ।
सूर्यांशके देवगुरोर्विनस्वान्
करोति सत्यं विनयप्रधानम् ॥३३॥
सुशिल्पिनं धर्मरतं सुदान्तं
प्रियातिथिं सर्वसंह सुपुत्रम् ।
सूर्यांशके दैत्यगुरोः सुवाते
भानुर्नरं पार्थिवमानयुक्तम् ॥३४॥
क्लीबं कृशं पापरतं कृतघ्नं
श्रियां विहीनं सततं कुचैलम् ।
करोति भानुर्बहुदुःखयुक्तं
सूर्यांशकस्यस्तु शनैश्चरस्य ॥३५॥
त्र्यंशल्लवस्थो धरणिसुतस्य
भानुर्विधत्तेऽधमल्पपुण्यम् ।
वित्ताधिवासे भृतकं कुशीलं
रोगाधिकं सह्यजनैः समेतम् ॥३६॥
त्र्यंशल्लवे सूर्यसुतस्य भानु
र्नरं विधत्ते वृजिनानुरक्तम् ।
विहीनवित्तं परुषं कृतघ्नं
विदेशशीलं गतसौहृदं च ॥३७॥
त्र्यंशल्लवे देवपुरोहितस्य
करोति भानुः प्रणयप्रधानम् ।
यशस्करं शौर्यगुणैः समेतं
महाधनं शास्त्ररतं मनुष्यम् ॥३८॥
हिरण्यमुक्तामणिवस्त्रभाजं
स्त्रीणामभीष्टं सुरभक्तियुक्तम् ।
त्र्यंशल्लवस्थः शशिजस्य् भानुः
करोति मर्त्यं विगतारिपक्षम् ॥३९॥
त्र्यंशल्लवे दैत्य्पुरोहितस्य
करोति सूर्यं सुभगं मनुष्यम् ।
नानार्थयुक्तं वरवाजिभाजं
निरोगकायं व्रतिनामभीष्टम् ॥४०॥
करोती भनुः सुहृदस्य वीर्यत्
प्रभूतमित्रं विजितारिपक्षम् ।
स्वबन्धुपूज्यं धनधान्ययुक्तं
पुत्रान्वितं ब्राह्मनसंमेतं च ॥४१॥
धीरं गुरुं सुप्रजमप्रभृष्यं
प्रभूतकोशं गजवाजिपुष्तम् ।
स्वक्षेत्रवीर्यः प्रकरोति भानु
र्नरं सदा सत्यगुणैः समेतम् ॥४२॥
स्वतुङ्गवीर्यात् कुरुते दिनेशो
नरं प्रसिदं विजितारिपक्षम् ।
प्रियातिथिं पार्थिवमानयुक्तं
महाधनं नीतिपरप्रधानम् ॥४३॥
नवांशवीर्यप्रबलो विवस्वान्
नरं प्रसूते सततं मनोज्ञम् ।
विचित्रमाल्याभरणं सुखाढ्यं
प्रशन्तचिन्तं निरुजं सुशीलम् ॥४४॥
शुभग्रहालोकनवीर्ययुक्तो
भानुः प्रसूते निरुजं मनुष्यम् ।
सौभाग्ययुक्तं सुतलाभभाजं
नरेन्द्रपूज्यं द्विजदेवभक्तम् ॥४५॥
पुंरशितीर्थप्रबलो विवस्वान्
करोति भक्तं गुरुसड्विजानाम् ।
नरं विनीतं सुभगं मनुष्यं
धर्मान्वितं प्रीतिकरं शुशीलम् ॥४६॥
आशाबलाढ्यः सविता प्रसूते
नानार्थयुक्तं सततं मनुष्यम् ।
हस्त्यवमाल्यम्बररत्नयुक्तं
यशोन्वितं पार्थिवमानयुक्तम् ॥४७॥
चेष्टाबलाढ्यः प्रकरोति भानु
र्नरं सुचेष्टानुगतिं गतारिं ।
प्रभूतमित्रं गतसवेदुःखं
सुखान्वितं बान्धुसौख्ययुक्तम् ॥४८॥
करोति भानुर्दिनवीर्ययुक्तो
नरं प्रसिद्धं विनयेन युक्तं ।
धर्मनुरक्तं प्रिय्वक्गुवाक्यं
सदानुकूलं दायेतं जनानाम् ॥४९॥
करोति भानुः स्वदीनस्यः वीर्याण्
नरं प्रगल्भं सुभगं सुकान्तम् ।
प्रभूतवित्तं प्रियमप्रधृष्यं
विद्वेषणां कीर्तिहरं नितान्तम् ॥५०॥
होरावताढ्यः प्रकरोति भानुः
प्रसिद्धेमत्युन्नतवीर्ययुक्तं ।
नरं नृणामिष्टतमं सुवाक्यं
स्तुत्यं सदा बन्दिजनस्य मर्त्यम् ॥५१॥
दिनाहिपः पक्ष्बलेन पुष्टः
प्रभूतपक्षं पुरुषं प्रधानम् ।
सुचारुवाक्यं बहुकोशयुक्तं
विक्षाविनीतं सुभगं मनोज्ञम् ॥५२॥
मासाबलाढ्यः प्रकरोति भानु
र्नरं विदग्धं धनवाजियुक्तम् ।
प्रभूतमित्रं रणलब्धशब्द
महाविनितं रतलालसं च ॥५३॥
दिनाधिपो वर्षबलेन युक्तः
करोति कृत्येष शुभेशु सक्तम् ।
नरं गतारिं गतदुःखशोकं
नित्यं सुपुष्टं द्विजदेवभक्तम् ॥५४॥
निस्त्रिंशचेष्टं पिशुनवभावं
परान्नरक्त कटःइनं दरिद्रम् ।
भानुर्यदा मित्रबलेन हीन
स्तदा नरं कामपरं प्रसूते ॥५५॥
॥५६॥
५७॥
सूर्यो नवांशान्मकवीर्यहीनः
करोति मर्त्यं प्रियविग्नहं च ।
विषामिशस्त्रज्वरपित्तभाजं
पितुर्नन्या विकृतोपचारम् ॥५८॥
शुभग्रहालोकनवीर्यनः
करोति भानुः सुकृशं विरूपम् ।
हृद्रोगीणं बह्वटनं च मूर्खं
कृतापराधं सततं सभीतम् ॥५९॥
भानुर्विधत्ते नरवीर्यहीनः
शौर्येण हीनं बहुभिः समेतम् ।
पराजितं सर्वजनैः प्रहीन
सुतार्थयानैर्धनधान्यवस्त्रैः ॥६०॥
आशाबलप्रोझ्यत एव सूर्यः
सर्वासु दिक्ष प्रकरोति हानिम् ।
मिथ्याप्रलपं विदधाति बुद्धि
पराङ्मुखं सद्द्विजदेवभक्तम् ॥६१॥
चेष्टाबलेन प्रविवर्जितोऽर्कः
करोति चेष्टां सततं सुनिन्द्याम् ।
नृणां तथा बुद्धिविपर्ययं च
विभूषितं साधुजनेन वैरम् ॥६२॥
दिवाबलेन प्रविवर्जितोऽर्कः
करोति मर्त्यं मनुष्यम् ।
हतप्रतापं स्वजनैर्विहीनं
पराङ्गनासेवकभ्युपेतम् ॥६३॥
स्ववारवीर्येण विवर्जितोऽर्कः
करोति मर्त्यं सततं कुचैलम् ।
विधर्मरक्तं बहुकूटभाजं
सुहृदिगुरूणां प्रसभं सुदुष्टम् ॥६४॥
होरबलेनैव विवर्जितोऽर्कः
करोति मूर्खं प्रणयेन हीनम् ।
विद्वेषियुक्तं परतर्ककं च
प्रज्ञाविहीनं प्रखलं मनुष्यम् ॥६५॥
दिनाधिपः पक्षबलेन हीनः
करोति मर्त्यं सततं सुदुःखम् ।
स्वपक्षहीनं विगतप्रतापं
मायाविनं निष्ठरवाक्यक्तम् ॥६६॥
सूर्यो यदा मासबलेन हीन
स्तदा प्रसूते विकृतं मनुष्यम् ।
द्यूतक्रियानशितभूरिवित्तं
वेश्यानुरक्तं सुजनेन हीनम् ॥६७॥
बह्वाशिनं  व्याधिभिरर्दिताङ्गं
चौरावनीशैः परिभूतमेव ।
दिनाधिपो वर्षबलेन हीनो
दारिद्रयुक्तं कुरुते मनुष्यम् ॥६८॥
इति श्रीवृद्धयवने सूर्यचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:36:28.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपत आणि घातक

  • (आपत = आप्त) १. आपल्याच आप्तइष्टांचा नातलगांचा घात करणारा मनुष्य 
  • माणुसकी नसलेला 
  • कुलांगार. २. आपलेच दायाद आपणांस घातक होतात. 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.