TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय २३

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


शनैश्चरचाराध्यायः
मेषेऽर्कसूनुर्जनयत्यनार्यं
कुवेषमाधिव्यसनं श्रमार्तम् ।
गताश्रियं निष्ठुर॥।उ॥
विगर्हितं निर्धनमिष्टवैरम् ॥१॥
॥ऽसङ्गतिमर्थहीनं
वृषेऽर्कसूनुर्जनयेन्मनुष्यम् ।
असक्तकर्माणमयुक्तवाक्यं
वृद्धाङ्गनानां हृदयानुरागम् ॥२॥
क्रमाद्गतोऽर्किर्मिथुने प्रसूते
श्रमातुरं बह्वृणबन्धनार्तम् ।
शठप्रयोगं छलकूटमेव
दुष्टक्रियं दाकमन्त्रिणं च ॥३॥
शनैश्चरः कर्कटके प्रसूते
नरं दरिद्रं सुभगाभिमानम् ।
सदा रुगार्तं जननीवियुक्तं
मृदुं विशिष्टक्रिय माचरं च ॥४॥
॥ओऽर्किर्जनयत्यशीलं
विगर्हिताचारगुनं मनुष्यम् ।
प्रवृद्धदोषं निजलोकबाह्यं
क्रियासु नीचासु सदाभिसक्तम् ॥५॥
शनैश्चरः षष्ठमुपेत्य राशिं
नपुंसकाकारतनुं प्रसूते ।
नरानवेश्माभिरतं गतस्वं
शठं शिशुस्त्रीजनदूषणं च ॥६॥
तुलाधरस्यस्त्वसितः प्रधान
॥ऽर्थपरं मनुष्यम् ।
उराष्ट्रदेशाटनलब्धमानं
वयःप्रकर्षोपकृतास्पदं च ॥७॥
शनैश्चरो वृश्चिकगो
विद्वेषवैषम्यपरं प्रसूते ।
धर्मादपेतं विषशस्त्रदग्धं
प्रचण्डकोपं निरयत्प्रपंचम् ॥८॥
धनुर्धरस्यो मृदुमल्पवाक्यं
वधर्मवृत्ताभिरतं प्रसूते ।
श्रुतार्थवाक्यं व्यवहार्शिक्षा
क्रियाभिधायश्चमनल्पसौख्यम् ॥९॥
स्थितोऽर्कसूनुर्जनयेन्मृगाख्ये
नरं स्ववंशोद्भवपूज्यमग्न्यम् ।
क्रियाकयाचार्यमनेकशिल्पं
प्रवासिनं वृन्दपुरस्कृतं च ॥१०॥
शनशिचरः कुम्भधरं प्रपन्नः
कुर्याचरं सत्यधनं सुवाक्यम् ।
आरोग्यकायं वरयाणयुक्तं
शूरं नृपैः पूजितमल्पपापम् ॥११॥
शनैश्चरो मीनयुगे प्रसूते
॥उसंबन्धिसुहृद्वरिष्ठम् ।
त्रिंशन्तसत्यार्चितमिष्तयज्ञं
विधासु शिल्पेष्वभिजातशिल्पम् ॥१२॥
होरां गतो वासरपस्य सौरि
र्नरं प्रसूते बहुवैरयुक्तम् ।
प्रणष्टधर्मं विगताभिमानं
दयाविहीनं परदारलुब्धम् ॥१३॥
होरां गतो रात्रिपतेस्तु सौरि
र्नरं प्रसूते बहुकीर्तियुक्तम् ।
सौन्दर्यसौख्यार्थसमृद्धियुक्तं
प्रियं मनोज्ञं प्रणतं सुराणाम् ॥१४॥
द्रेष्काणसंस्थो दिनपस्य सौरिः
करोति कन्याप्रजनं मनुष्यम् ।
व्यायामभाजं विगतप्रतापं
विपन्नशीलं सततं सजिह्मम् ॥१५॥
भागे तृतीये रविजः प्रसूते
चन्द्रस्य मर्त्यं महदर्थयुक्तम् ।
विवेकिनं सर्वकलासु
विपक्षहीनं सुतलालसं च ॥१६॥
भागे तृतीयेऽवनिजस्य सौरि
श्चौरं परप्रेष्यकरं प्रसूते ।
सिनिष्ठुरं पापरतं नृशंसं
व्यपेतलज्जं गतसौहृदं च ॥१७॥
द्रेष्काणसंस्थः शशिजस्य सौरः
करोति मर्त्यं बहुशास्त्रयुक्तम् ।
विचानिनं धर्मरतं प्रसक्तं
स्वदारतुगतसाध्वसं च ॥१८॥
द्रेष्काणसम्स्थः सुरपुजितस्य
सौरः प्रसूते द्विजदेवभक्तम् ।
प्रियंवदं सर्वसहं प्रगल्भं
महाजनैः पूजितसाधुदारम् ॥१९॥
भागे तृतीये रविजः प्रसूते
शुक्रस्य तिष्ठन् प्रचुरानपानम् ।
लाभान्वितं धर्मपरंसुमित्रं
हतारिपक्षं व्यसनैर्वियुक्तम् ॥२०॥
निभोगे।ऊ
सौख्यम् ।
नृपात्मजैः प्रीतिपर वदान्य
विमुक्तरोग बहुमित्रयुक्तम् ॥२१॥
सूर्यस्य भागे नवमेऽर्कसूनुः
करोति मर्त्यं बहुतीव्रकोपम् ।
हिंस्रं प्रणष्टं सुजनैर्वियुक्तं
प्रद्वेषशीलं परिभूतमन्यैः ॥२२॥
चन्द्रस्य भागे नवमेऽर्कसूनु
र्नरं प्रसूते सुकलत्रयुक्तम् ।
शास्त्रानुरक्तं क्रतुदानशीलं
जितेन्द्रियं मन्त्रविदां वरिष्ठम् ॥२३॥
शनैश्चरो भौमनवांशसंस्थो
नरं प्रसूते वचनस्वभावम् ।
पराङ्गनासङ्गरतं विधर्मं
मित्रैर्विहीनं सततं कुचैलम् ॥२४॥
शनैश्चरः सौम्यनवांशसंस्थः
करोति मर्त्यं सुखभोगतृप्तम् ।
कान्तं सुभार्यात्मपरं विधिश्चं
प्रियातिथिं यज्ञरतं प्रधानम् ॥२५॥
शनिर्नवांशे सुरपूजि
नरं प्रसूते सुरविप्रभक्तम् ।
विवेकविक्षागमसत्ययुक्तं
प्रसन्नवक्त्रं प्रचुरान्नपनं ॥२६॥
मातण्डजः शुक्रनवांशसंस्थः
करोति तीर्थाश्रयमिष्टधर्मम् ।
प्राज्ञं कृतज्ञं बुधलोकसेव्यं
जितेन्द्रियं शुभ्रमतिं मनोज्ञम् ॥२७॥
नवांशके स्वे प्रकरोति सौरो
नरं सुदातारतरं विरोगम् ।
सुर्योषितां सङ्गप्रवृद्धसौख्यं
हतारिपक्षं स्थिरमुग्रवीर्यम् ॥२८॥
सूर्यांशके वासर्पस्य शौरो
नरं प्रसूते गतधर्मबुद्धिम् ।
सुनिष्ठुरालापपरं सुदुष्टं
नीचानुरक्तं विगतप्रभावम् ॥२९॥
सूर्यांशके त्वृक्षपतेः प्रयातः
सौरः सुवाते सुमतिं मनुष्यम् ।
लाभान्वितं पार्थिवमानपुष्टं
गान्धर्वशिल्पादिष सक्तचिन्तम् ॥३०॥
शनैश्चरो द्वादशभागसंस्थो
नरं प्रसूते क्षितिजस्य जिह्मम् ।
प्रपीडितं पित्तविकारदोषै
र्भीरुं सदा निन्धतमं नराणाम् ॥३१॥
मार्तण्डजो द्वादशभागसंस्थो
बुधस्य सूतेऽप्रतिमं मनुष्यम् ।
वित्तान्वितं धर्मपरं सलज्जं
कीर्त्यान्वितं शास्त्रविशारदं च ॥३२॥
आदित्यजो द्वादशभागसंस्थो
जीवस्य सूतेऽर्थपरं मनुष्यम् ।
पुत्रान्वितं बान्धवनामयुक्तं
लज्जान्वितं ब्राह्मणसंमतं च ॥३३॥
अर्कांशके भार्गवजस्य संस्थः
करोति मर्त्यं प्रचुरान्नपानम् ।
विशिष्टदाराम्बररत्नभाजं
भाग्याधिकं प्राणभृतां वरिष्ठम् ॥३४॥
सूर्यांशके स्वे दिनपस्य पुत्रो
नरं प्रसूते स्थिरबुद्धियुक्तम् ।
व्रतोपवासान्वितमिष्टमित्रं
कुल॥३५॥
त्रिंशांशके भूमिसुतस्य सौरः
करोति पापात्मकमुग्रचेष्टम् ।
॥रेन्द्रैः परिभूतदेहं
रोगापतप्तं प्रखलस्वभावम् ॥३६॥
त्रिंशांशके स्वे रविजः प्रसूते
नरं विनीतं विगतारिपक्षम् ।
वित्तार्जने तत्परमिष्टमित्रं
महाबलं सत्यरतं नयज्ञम् ॥३७॥
त्रिंशांशके देवगुरोः प्रयातः
शनिः प्रसूते सुभगं मनुष्यम् ।
श्रतोपवासार्जितधर्मवृद्धिं
प्रियंवदं सत्ययुतं प्रगल्भम् ॥३८॥
त्रिंशल्लवे सोमसुतस्य सौरि
र्नरं प्रसूते प्रवरं कुलस्य ।
सौम्यान्वितं पण्डितमिष्टधर्मं
नृपप्रियं शास्त्ररतं सदैव ॥३९॥
त्रिंशांशके भार्गवनन्दनस्य
करोति सौरः सुतसौख्ययुक्तम् ।
प्रियातिथिं बुद्धियुतं कृतज्ञं
नारीप्रियं पूज्यतमं नृलोके ॥४०॥
शनशिचरो मित्रबलेन युक्तो
नरं प्रसूते बहुमित्रबन्ध
स्थिरवभावं बहुकीर्तियुक्तं
विधाविनीतं सततं मनोज्ञम् ॥४१॥
शनिर्यदा स्थानबलेन युक्त
स्तदा प्रसूते शुचिमप्रमत्तम् ।
त्रभूतवेश्मार्थयुतं सुदारं
चतुष्पदाढ्यं नृपपूजितं च ॥४२॥
मन्दो यदा स्वोच्चबलेन युक्त
प्रसूते प्रभूतरत्नार्थसुतैः
गतारिपक्षं सततं सुशिलम् ॥४३॥
नवांशवीर्योऽर्कसुतो बलिष्ठो
नरं प्रसूते बहुयश्चशीलम् ।
मेधाविनं पुण्यपरं जितारिं
सभासदं ब्राह्मणसंमतं च ॥४४॥
शुभग्रहालोकनवीर्ययुक्तः
करोति सौरो दृढकार्यसुग्रम् ।
कषिक्रियालब्धसुभूरि
वराश्चयुक्त साखन सुशीलम् ॥४५॥
पुंक्षेत्रविर्येण युतोऽर्कसूनु
र्नरं प्रसूते बहुवीर्ययुक्तम् ।
परैरधृण्य वनितास्वभीष्टं
प्रियंवदं सर्वकलासु दक्षम् ॥४६॥
शनैश्चरो दिग्बलबुद्धियुक्तो
नरं प्रसूते प्रचुरान्नपानम् ।
दाक्षिण्यशीलं बहुभोगयुक्तं
गान्धर्वशीलं द्विजदेवभक्तम् ॥४७॥
चेष्टाबलाढ्यो रविजः प्रसूते
नरं सुचेष्टं सुतरां सदैव ।
सत्यान्वितं देवगुरुप्रभक्तं
सुतीर्थयुक्तं पितृभक्तिरक्तम् ॥४८॥
शनैश्चरो रात्रिबलेन युक्तो
नरं प्रसूते रतसौउ।
योगाधिकं सौम्यवपुं सुचेष्टं
दयान्वितं दानरतं सलज्जम् ॥४९॥
शनैश्चरो वर्षबलेन युक्तः
कीर्त्याभिरक्तं संजनयेन्मनुष्यम् ।
नित्यं सुदान्तं व्यसनैर्विहीनं
जितेन्द्रियं विप्रसुरानुरक्तम् ॥५०॥
शनैश्चरो मासबलेन युक्तो
नरं प्रसूते नयनाभिरामम् ।
प्रतापिनं धर्मपरं सहीष्णुं
हितैषिणं सर्वजनस्य नित्यम् ॥५१॥
शनैश्चरो वारबलेन युक्तो
नरं प्रसूते बहुशात्रयुक्तम् ।
अहिंसकं मानगुणैः स॥।
प्रभूतकोशं जनवल्लभं च ॥५२॥
होराबलाढ्यो रविजः प्रसूते
सन्मानभाजं जननीप्रभक्तम् ।
धर्मे रतं पार्थिवमा॥।उ
विशिष्टलोकानुगतं सदैव ॥५३॥
शनिर्यदा पक्षबलेन युक्त
स्तदा प्रसूते गतशत्रुपक्षम् ।

विमुक्तरोगं गतपापमेव ॥५४॥
शनैश्चरो मित्रबलेनहीनो
नरं प्रसूतेऽतिखलं विमित्रम् ।
हतात्मजं श्रीरहितं विरूपं
प्रपीडितं भूपतिना सदैव ॥५५॥
स्वस्थानवीर्येण विवर्जितोऽर्कि
र्नरं प्रसूते विधनं विशीलम् ।
परार्दितं पापरतं कृतघ्नं
रोगार्दितं बान्धविवर्जितं च ॥५६॥
स्वतुङ्गविर्येण विवर्जितोऽर्कि
र्नरं प्रसूते विधनं विशीलम् ?
पापैर्जितं हीनधनेश्च युक्तं
भूतादिदोषैः सहितं सदैव ॥५७॥
नवांशवीर्येण विवर्जितोऽर्किः
करोति नित्यं बहुशस्त्रयुक्तम् ।
सूर्यं सुहिंस्रं धनधान्यहीनं
प्रमादिनं पार्थिवपीडितं च ॥५८॥
॥५९॥
पुंक्षेत्रवीर्येण विवर्जितस्तु
सौरः प्रसूते रिपुरोगयुक्तम् ।
दौर्भाग्ययुक्तं विकृतं सुतीक्ष्णं
सदा विधर्मं निजधर्महीनम् ॥६०॥
शनैश्चरो दिग्बलवर्जितस्तु
नर प्रसूते परदाररक्तम् ।
निराशिमुग्रं गुरुद्रोहरक्तं
विपन्नलज्जं सरुजं सदैव ॥६१॥
चेष्टाबलोनो रविजः प्रसूते
कुचेष्टितानर्थपरं मनुष्यम् ।
विद्वेषशीलं कुटिलं कुदारं
सन्मानहीनं धनवर्जितं च ॥६२॥
शनैश्चरो रात्रिबलेन हीनो
नरं प्रसूते रतसौख्यहीनम् ।
मायाविनं व्याधिभिरार्तदेहं
दुष्टाशयं सर्वजनैश्च निन्धम् ॥६३॥
शनिर्यदा वारबलेन हीन
स्तदा प्रसूते विधनं मनुष्यम् ।
बहुप्रकारैर्व्यसनिरुपेतं
निन्धं कुवेषं बहुसाहसं च ॥६४॥
शनैश्चरो वर्षबलेन हीनो
नरं प्रसूते ज्वरपित्तयुक्तम् ।
नामाशिरोर्तिप्रभवैर्विकरैः
संपीडितं सत्यविहीनमेव ॥६५॥
शनैश्चरो मासबलेन हानिः
करोति मर्त्यं परतर्ककं च ।
गतस्वकं हानियुतं कठोरं
प्रवासशिलं दयिताविहीनम् ॥६६॥
होराबलेनः प्रकरोति सौरो
नरं प्रमूर्खं सुतदारहीनम् ।
विधर्मरक्तं सततं कुवेषं
प्रपीडितं बन्धुजनेन नित्यम् ॥६७॥
शनैश्चरः पक्षबलेन हीनः
करोति मर्त्यं निजपक्षहीनम् ।
पापात्मकं दद्रुभिरार्तदे॥।
विदेशशीलं परतर्ककं च ॥६८॥
इति श्रीवृद्धयवने शनैश्चरचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:43:17.5470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुशीर

  • पु. मंत्री ; सल्लागार . - आदिलशाही फर्मानें . [ फा . ] 
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site