पूर्वखण्डः - अध्याय ८

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


चन्द्रेषु सूर्यः स्वगृहात् क्रमेण
पुनस्तथायाष्टकराङ्कसंस्थितः ।
मन्दारयोश्चापि तथैव वाच्यः
शुक्राद्रसास्तान्त्यगतश्च नित्यम् ॥१॥
जीवाद्रसैकादशपंचनन्दै
र्विद्धिस्थितो रात्रिपतेः प्रदिष्टः ।
बुद्धङ्कसूर्येषु शरे च सौम्यात्
स्वलग्नतो वृद्धियुगव्ययेषु ॥२॥ <सूर्यः>
अर्कात् केन्द्रवह्नीशुभवाष्टसंस्थो
गुरोर्व्ययाआष्टचतुष्टयथः ।
आब्धिपंचाङ्कदशागरुद्रैः
शुक्रात् कुजाल्लाभधना ॥३॥


ष्टकेन्द्रैः
स्यान्मन्दतो वह्निरसेपुसूर्यगः ॥४॥ <चन्द्रः>
गुरोर्दशैकादशाषडन्त्यमः
रवेस्त्रिषष्ठायदशेषुसंस्थितः ।
लग्नात् प्रवृद्धा प्रथमे च शीतगो
र्बुद्धा सितात् सूर्यरसाष्टलाभगः ॥५॥
॥६॥ <भौमः>
चन्द्राद् द्विषष्ठायदशाष्टवेदगो
लग्नात् स्वषष्ठार्थ शुभदः प्रकीर्ति
आद्याब्धिलाभार्थगजाङ्कवह्निभिः
शुक्राच्छनेश्चन्द्रयुगायवित्तैः ॥७॥
वस्वङ्कादक्रामसुसंस्थितश्च
भात् स्वाश्च तन्वब्धिभवार्थ मङ्गलात् ।
रन्ध्रेषु कासासुप एव सार्वक्षी
गुरोश्च चन्द्राङ्ग गस्थः शुभदः ॥८॥ <बुधः>
जीवः कुजाडस्त्रभवाष्तकेन्द्रगः
सूर्याश्च दस्त्रादिनवाष्ट कीर्तितः ।
स्वशून्यरामैः स्वगृहात् प्रकीर्तितो
नवाशकायार्थशराङ्गगः सितात् ॥९॥
चन्द्रान् मदाङ्केषुधनायगः सदा
शनैश्चराद्वह्निरसेषुभास्करैः ॥१०॥
वधान् नवव्योमयुगेन्दुमार्गण
रुद्रतर्कैः शुभदः प्रकीर्तितः ।
लग्नान् नवाशाब्धिपरेषुलोचन
सूर्यागरामैः क्रमशो विधेयः ॥११॥ <जीवः>
शुक्रो विलग्नाच्छशिवित्तवह्नि
युगेषुनन्दायगश्च इष्टः ।
चन्द्रात् ससूर्यः सदिशाः स्वसद्यत
स्त्रिवेदपंचाष्टदिगङ्कलाभगः ॥१२॥
शने रवेरष्टदिवाकरायै
र्गुरोर्नवव्योमभवाष्टपंचगः ।
बुधाद् गुणेष्वङ्कदशाङ्गसंस्थितो
भौमाद भवेष्वग्निरसाङ्कसूर्यगः ॥१३॥ <शुक्रः>
स्यात् सूर्यजो वह्निरसेषुसंगतः
ससूर्यदिग्गो धरणिसुतस्य ।
सूर्याद् धनयाष्टचतुष्टये च
शुक्राद्रसार्कायगतः सुभद्रः ॥१४॥
त्रिषष्ठलाभेषु निशाधिनाथा
ल्लग्नात् सवृद्धीन्दुदशाब्धिभिश्च ।
जीवाच्छराङ्गव्ययलाभसंस्थो
बुधाद् व्ययाङ्काङ्गदिशाङ्गनागतः ॥१५॥ <शनिः>

विन्दूनि रेखश्च विमिश्रयित्वा ।
सप्तावशेषेण मितो ग्रहश्च
स्वाष्टांशसंज्ञं फलमादधाति ॥१६॥
इन्यात् फले सोष्तकवर्गनाचजं
फलं बलिष्टो यदि तस्य पार्श्वगः ।
अतोऽन्यथा तस्य फलं निहन्यते
तेनैव साम्ये फलयोर्निसर्गजम् ॥१७॥
रेखाश्रितस्तीक्ष्णकरः प्रगल्भं
करोति मर्त्यं गजवाजियुक्तम् ।
मित्राङ्गसाधुं जनसंप्रयुक्तं
स्थानेऽद्यके रोगविवर्जितं च ॥१८॥
द्वितीयसंस्थः प्रचुरप्रतापं
प्रभूतवित्तिं जितशत्रुपक्षं ।
विद्यानुरक्तं नृपतेरभीष्टं
प्रशान्तचिन्तं कुरुते सदैव ॥१९॥
तृतीयगः सत्यपरं प्रशान्तं
व्यचेतपापं सुजनैः सुपूज्यम् ।
हिरण्यपुजार्थविवे
नरं प्रसूते सततं सुशीलम् ॥२०॥
चतुर्थगः सर्वजनस्य पूज्यं
करोति मर्त्यं सुदृढं सुशीलम् ।
पूज्यं सुभगं प्रशस्तं
धर्मान्वितं दानपरं प्रसूते ॥२१॥
करोति मर्त्यं खलु पंचमस्यो
नरं रविर्गोमहिषोष्ट्रयुक्तम् ।
कुलप्रधान नृपतेरभीष्टं
सुसंयतं ब्रह्मणदेवभक्तम् ॥२२॥
हतारिपक्षं प्रकरोति षष्ठे
स्थितो विवस्वान् प्रथितं नृलोके ।
स्त्रीणामभीष्टं गुरुदेवभक्तं
॥२३॥
स्त्रीलाभयुक्तं खलु सप्तमस्थो
नरं विधत्ते खलु तीक्ष्णरश्मिः ।
उदारचिन्तं प्रभुतासमेतं
मिज्ञानशीलं समरप्रचण्डम् ॥२४॥
स्थानेऽष्टमे पुत्रधनैः समेतं
सुरक्तपित्ताधिकमप्रमेयम् ।
विख्यातकीर्तिं सततं सुदान्तं
हतारिपक्षं प्रकरोति भानुः ॥२५॥
बिन्दुस्थितोऽर्कः प्रकरोति पापं
स्थानेऽद्यके दुर्जनमुग्ररोगम् ।
कृशं कृतघ्नं परदाररक्तं
विवेकहीनं प्रियसाहसं च ॥२६॥
मूर्खं निकृष्टं तु तथा द्वितीये
कुमीत्ररक्तं धनधान्यहीनम् ।
शिरोतिदाहजतरपित्तमुख्यैः
प्रपीडितं वक्त्रभवैश्च रोगैः ॥२७॥
तयेन हीनं पुरुषं तृतीये
सुतार्थधान्यैः परिवर्जितं च ।
सुदाभिभूतं बहुशत्रुपक्षं
क्रियाविहीनं विफलं प्रसूते ॥२८॥
निन्द्यं कृतघ्नं परदेशरक्तं
करोति मर्त्यं नियतं चतुर्थे ।
इष्टैर्वियुक्तं परदाररक्तं
पराजितं सर्वजनैः सदैव ॥२९॥
करोति भानुः खलु पंचमस्थित्तो
सुग्वैरदारिद्र्यभयेन पीडितम् ।
दौर्भाग्यवन्तं परदारभाषणं
नरं भयाक्लीवमलं सुनीष्टरम् ॥३०॥
षष्थे स्थितः शत्रुगणैः पराजितं
नरं प्रसूतेऽधमकर्मसेवकम् ।
मायासमेतं मलिनं मलील्लुचं
च्युतं स्वधर्माद्गतसत्त्वमातुरम् ॥३१॥
श्रिया विहीनं विकृतं गतत्रपं
परान्नवस्त्रार्थसमीडकं सदा ।
करोति भानुः खलु सप्तमस्थितः
प्रपंचशीलं कुबलं सुनिष्ठरम् ॥३२॥
स्थानेऽष्टमे तीक्ष्णमयुखमाली
नरं विधत्ते बहुपापचेष्टम् ।
इष्टैर्वियुक्तं परदाररक्तं
पापात्मकं दुःखयुक्तं करोति ॥३३॥
इति रवेरष्टकवर्गफलम् ॥
रेखाथितोऽड्ये हिमरश्मिमाली
स्थाने विधत्ते सुभगं मनुष्यम् ।
प्रियं नृपाणां गुरुविप्रभक्तं
तीर्थाश्रयं सर्वजनोपसेव्यम् ॥३४॥
हस्त्यश्चयानैः सहितं द्वितीये
वैडुर्यमुक्तामणिभिस्तथैव ।
नरं सुसौख्यैः सहितं प्रगल्भं
प्रशान्तचिन्तं प्रणयान्वितं च ॥३५॥
चन्द्रस्तृतीये कुरुते सनाथं
नरं विनीतं बहुधर्मभाजम् ।
श्रिया युतं सर्वगुणोपपन्नं
धत्ते सदा बन्धुजनस्य पूज्यम् ॥३६॥
स्थाने चतुर्थे प्रकरोति मान्यं
नरं प्रसिद्धं विविधार्थयुक्तम् ।
तडागकूपाश्रयरक्तचिन्तं
महामनुष्यं सुतसौख्ययुक्तम् ॥३७॥
विद्याविनीतं सुविवेकयुक्तं
नरं प्रसूते बहुभागभाजम् ।
क्षपाधिनाथः खलु पंचमस्थः
प्रियातिथिं सर्वसहं सुविज्ञम् ॥३८॥
षष्ठे सुरूपं सुभगं मनोज्ञं
करोति चन्द्रः सुतदारयुक्तम् ।
धमाश्रयं शास्त्ररतं विनीतं
नरेन्द्रपूज्यं बहुमानभाजम् ॥३९॥
करोति चन्द्रः खलु सप्तमस्थः
प्रभासमेतं सचिवं सुशीलम् ।
व्रतोपवासादिरतं विधिज्ञं
मनोज्ञनारिदयितं सदैव ॥४०॥
स्थानेऽष्टमे सौख्यहिरण्ययुक्तं
विद्यान्वितं सत्यपरं प्रगल्भम् ।
करोति चन्द्रोऽपतितं मनुष्यं
प्रियातिथिं ब्राह्मणवल्लभं च ॥४१॥
स्थानेऽद्यके विन्दुगतः शशाङ्कः
सरोगदेहं कुरुते मनुष्यम् ।
पपानुरक्तं स्वजनैर्विमुक्तं
दीमं कृशं सत्यविहीनमेव ॥४२॥
करोति चन्द्रो नियतं द्वितीये
नरं कृतघ्नं सुकृतं सुदीनम् ।
अभूतश्रत्रुं प्रभया विहीनं
विवर्जितं बन्धुजनेन नित्यम् ॥४३॥
सांपीडितं भूपतिना सदैव
महाव्ययैः संयुतमुग्ररोगम् ।
कफानिलाभ्यां परिपीडितं च
चन्द्रस्तृतीये कुरुते मनुष्यम् ॥४४॥
लुसङ्गतं सत्यविहीनमेव
सौख्येन हीनं बहुरोगयुक्तम् ।
सुदुर्भगं पानरतं सदैव
चन्द्रचतुर्थे कुरुते मनुष्यम् ॥४५॥
प्रणष्टशीलं प्रचुरारिपक्षं
निशाधिनाथः खलु पंचमे च ।
करोति दीनं व्यय्सनैः समेतं
विवर्जितं भूपतिमानदानैः ॥४६॥
विदेशसेवाविरतं कृतघ्नं
षष्ठेऽरिवर्गैर्विजितं वृतान्तम् ।
नित्यं मनुष्यं नृपपीडितं च
कलत्रयानादिभिर्विप्रमुक्तम् ॥४७॥
स्यात् सप्तमे वैरमनल्पमुग्रं
चन्द्रे रुजं भूपमलिम्लुचोत्थम् ।
रोगं नराणां जठरे प्रभूतं
धनस्य नाशं प्रियविप्रयोगम् ॥४८॥
चन्द्रोऽष्टमेऽनिष्तफलं विधत्ते
शोकं धनार्तिं विविधं च दुःखम् ।
शीलच्युतं वासनवित्तनाशं
महाभयं दैन्यमनर्थमुग्रम् ॥४९॥
इति चन्द्राष्टकवर्गफलम् ॥
रेखास्थितोऽद्ये क्षितिवित्तलाभं
करोति भौमः पशुवृद्धिमेव ।
सौख्यं च भोगं विविधाश्च पूजा
महाजनोत्थं सततं सखानि ॥५०॥
आरोग्यतां
मनोविकाशं प्रियतां च लोके ।
समुज्ञतिं शत्रुविनाशमेव
करोति भौमो नियतं द्वितीये ॥५१॥
खरोष्ट्रयानानि पृथग्विधानि
नृणां विधत्ते क्षितिजस्तृतीये ।
विभूतिप्रभ्युव्रतिमिष्टलाभं
भूपप्रषादं विविधं च नित्यम् ॥५२॥
भौमश्चतुर्थे कुरुते प्रतापं
सौभाग्यसौख्याभ्युदय नितान्तम् ।
प्रियातिथित्वं सुरविप्रभक्तिं
नरेन्द्रमानं विविधं च लाभम् ॥५३॥
सुतीर्थलाभं खलु पंचमस्थः
क्षोणीसुतो यच्छति मानवानाम् ।
हिरण्यलाभं बहुमानसौख्यं
व्याधेर्विनाशं खलु उन्नतिं च ॥५४॥
षष्ठेऽरिनाशं कुरुते महीजः
समागमं बन्धुजनेन नित्यम् ।
वस्त्राणि शय्यासनभाजनानि
धर्मार्थसिद्धिं सततं नराणाम् ॥५५॥
क्षोणिसुतो यच्छति सप्तमस्थो
विश्ज्ञानविद्यागममिष्टलाभम् ।
शय्यासनाछादनभोजनानि
रतोपलब्धिं जगतीसुलाभम् ॥५६॥
भौमोऽष्टमे भूतिमथोन्नतिं च
नृणां विधत्ते महिमामनन्तां ।
वाणिज्यलाभं कृषिकर्मसिद्धिं
प्रियाप्तिमत्युज्ञतिमेव पुंसां ॥५७॥
बिन्धुस्थितो भूतनयो यदाद्ये
स्थाने दशां यच्छति मानवानां ।
तदार्थहानिं गदपृष्ठरोगान्
मतेर्विनाशं कुजनेन सौख्यम् ॥५८॥
शिरोर्तिदाहं ज्वरतापमुग्रं
प्रमोषणं चौरकृतं सदैव ।
प्रियाव्योगं मतिमित्रनाशं
भौमो द्वितीये कुरुते नराणाम् ॥५९॥
भौमस्तृतीये विनयार्थलौल्यं
धत्ते नराणां च तथापनादम् ।
कुबुद्धिभिः सङ्गमुग्रवैरं
पराजयं प्राणभृतां सदैव ॥६०॥
विवादवैराणि पृ॥।म्विधानि
भौमचतुर्थे कुरुते नराणाम् ।
द्यूतं च वेश्माव्यसनं महान्तं
पराजयं साध्वसमेसं हानिम् ॥६१॥
असौख्यमोजः क्षयवित्तनाशं
पुत्रार्थहानिं सुतरां वियोगम् ।
करोति भौमः खलु पंचमस्थः
प्रतापहानिं सततं नराणाम् ॥६२॥
चतुष्पदव्यालसरीसृपोत्थं
भयं विधत्ते क्षितिजो नराणाम् ।
सदाविधानं खलु षष्ठसंस्थो
नरेन्द्रपीडां खलसङ्गमं च ॥६३॥
व्ययं विरागं भयमिष्टवैरं
भौमो विधत्ते खलु सप्तमस्थः ।
जिह्वाक्षिरोगोद्भवमेव दुःखं
सदा नराणां विषयप्रलौल्यम् ॥६४॥
पराभवं मृत्युसमांश्च रोगान्
कलत्रहानिं परवंचनानि ।
भौमोऽष्टमस्थः कुरुते नराणां
शस्त्राभिघातं परतः स्वतो वा ॥६५॥
इति भौमाष्टकवर्गफलम् ॥
रेखास्थितः सोमसुतो यदाद्ये
स्थाने तदा शीलधनं विधत्ते ।
विद्याविवेकादिभिः संप्रयुक्तं
प्रभूतमित्रं विगतारिपक्षम् ॥६६॥
स्थानस्थितं देवगुरुप्रसक्तं
विज्ञानशीलं बहुखानपानम् ।
स्थाने द्वितीये शशिजो विधत्ते
नरं सुरूपं सुभगं सुकान्तम् ॥६७॥
तृतीयगः सोमसुतः करोति
प्रसन्नवाव्यं  नृपलोकपूज्यम् ।
नरं विधिज्ञं सुभगं मनोज्ञं
हतारिपक्षं बहुधर्मभाजम् ॥६८॥
बुधश्चतुर्थे कुरुते सुरूपं
प्रियातिथिं बन्धुजनस्य मान्यम् ।
मेधाविनं शास्त्ररतिं विधिज्ञं
व्रतोपासादिरतं सदैव ॥६९॥
करोति सौम्यः खलु पंचमस्थो
नरं नितान्तं नृपतेरभीष्टम् ।
आरामविप्रादिविहारभाजं
चिन्तान्वितं भक्तिपरं द्विजानाम् ॥७०॥
षष्ठेऽरिनाशं प्रकरोति सौम्यो
नृणां पुरग्रामकृतं च लाभम् ।
देशाधिपत्यं प्रचुरान्नपानं
यशःप्रतापं विजयं सदैव ॥७१॥
कलत्रलाभं रतिभोगसौख्यं
कलत्रसंस्थः प्रकरोति सौम्यः ।
तीर्थाश्रयं सौख्यसमृद्धियुक्तं
प्रसन्नमूर्तिं सततं सुशीलम् ॥७२॥
चतुष्पदाछादनविनयुक्तं
नरं प्रसूते शशिजोऽष्टमस्थः ।
कलत्रपुत्रोद्भवसौख्ययुक्तं
सर्वत्र पूज्यं महिमासमेतम् ॥७३॥
विन्दुस्थितः सोमसुतोऽतिपापं
करोति मर्त्यं प्रथमे खलं च ।
मामान्वितं बान्धवविप्रयुक्तं
सदा कुशीलं विनयेन हीनम् ॥७४॥
प्रभूतदुःखं सुजनैर्विहीनं
पराभिभूतं कठिनं कृतघ्नम् ।
द्वितीयसंस्थो हिनरश्मिपुत्रो
नरं प्रसूते बहुपापयुक्तम् ॥७५॥
तृतीयगः पुत्रकलत्रनाशं
करोति सौम्यः सततं कुचैलम् ।
तेजोविहीनं मलदग्धदेहं
संपीडितं भूपतिना सदैव ॥७६॥
चतुर्थगः शीतकरस्य पुत्रः
प्रभूतदुःखं कुरुते मनुष्यम् ।
शीलेन हीनं विनयेन हीनं
सत्त्वात्मिकं चैव विवर्जितं च ॥७७॥
नष्टात्मजं नष्टधनं कुचैलं
रोगाभिभूतं परतर्ककं च ।
परैर्जितं देवगुरुप्रमुक्तं
करोति सौम्यः खलु पंचमस्थः ॥७८॥
षष्ठस्थितः शीतकरस्य पुत्रो
नरं प्रसूते धनवर्जितं च ।
पराजितं शत्रुजनेन नित्यं
विद्याविहीनं विनयेन मुक्तम् ॥७९॥
सौम्यो नरं सप्तमगो विधत्ते
भोगेन हीनं परदाररक्तम् ।
जनापवादेन युतं सुदीनं
कुबुद्धिभाजं सुभयं सदैव ॥८०॥
द्यूतप्रसक्तं गणिकासु रक्तं
रजोधिकं सत्यधनेन हीनम् ।
सौम्योऽष्टमस्थः सभयं विहीनं
करोति मर्त्यं सततं नृशंसम् ॥८१॥
इति बुधाष्टकव्र्गफलम् ॥
रेखागतो देवगुरुः प्रसूते
नरं विदग्धं विनयोपयुक्तम् ।
आद्ये महाबुद्धिधनान्वितं च
धर्मध्वजं ब्राह्मणवल्लभं च ॥८२॥
द्वितीयगः सौम्ययुतं प्रसूते
नरं सुरेज्यः सुभगं मनोज्ञम् ।
हस्त्यग्वयानादिधिया समेतं
नरेन्द्रपूज्यं प्रथितं नृलोके ॥८३॥
तृतीयसंस्थः कुरुते प्रधानं
सुरेज्यम्न्त्री बहुपुत्रपौत्रम् ।
दयान्वितं जन्तुहितेषु युक्तं
कुलप्रधानं सततं सुशीलम् ॥८४॥
हिरण्यवित्तार्थसुबुद्धियुक्तं
करोति मर्त्यं त्रिदशेन्द्रमन्त्री ।
चतुर्थसंस्थश्चतुरं धनाढ्यं
विवेकिनं बान्धवसंमतं च ॥८५॥
करोति जीवः खलु पंचमस्थो
नरं नितान्तं नृपतेरभीष्टम् ।
पुत्रान्वितं प्रितिकरं नराणां
सदा सुशीलं बहुधर्मयुक्तम् ॥८६॥
हतारिपक्षं नियतं प्रसूते
नरं सुरेज्यः खलु षष्ठसंस्थः ।
हृष्टं सुपुष्टं प्रणतं गुरूणां
प्रशान्तवैरं प्रथितं प्रियं च ॥८७॥
अभीष्टनारिरतसंप्रहृष्टं
करोति मर्त्यं सततं सुरेज्यः ।
श्रियान्वितं देवगुरुप्रसक्तं
सुभाशितज्ञं सुजनैः समेतम् ॥८८॥
जीवोऽष्टमस्थः कुरुते विदग्धं
प्रियातिथिं सर्वकलाउ दक्षम् ।
नरं नृपेज्यं बहुशास्त्रलुब्धं
पराक्रमप्राणसमन्वितं च ॥८९॥
बिन्दुस्थितो देवगुरुः प्रसूते
नरं नृशंसं बहुदुःखयुक्तम् ।
लुब्धं कृत्घ्नं मलिनस्वभावं
विहीनसत्त्वं बहुसाहसं च ॥९०॥
द्वितीयगो भूमिमतस्करोत्यं
भ्यं सुरेज्यः कुरुते नराणाम् ।
नृशंसतां रोगमनिष्टसंस्थं
प्रभूतदुःखं दयितावधं च ॥९१॥
तृतीयसंस्थे त्रिदशेशपूज्ये
विहीनवित्तः सरुजो मनुष्यः ।
भवेत् कुमित्रः परदाररक्तो
दौर्भाग्ययुक्तो ह्यलसः कृतघ्नः ॥९२॥
चतुर्थगो देवगुरुः प्रसूते
विहीनवित्तं बहुशत्रुगम्यम् ।
विचर्थिकाद्यैः परिपीडितं च
नरं सुमायं कुदिलं खलं च ॥९३॥
पामाज्वरार्तं पर्दाररक्तं
नरं प्रसूते सुरराजपूज्यः ।
प्रभूतशोकं सततं सुपापं
चौरं महाकष्टसमन्वितं च ॥९४॥
षष्ठे सुरेज्यः कुरुतेऽक्षिरोगैः
संपीडितं म्लेच्छसमानरूपम् ।
प्रपंचशीलं सुतदारहीनं
धर्मक्रियाहीनमनन्तशोकम् ॥९५॥
करोति जीवः खलु सप्त्मस्थो
नरं कफादिप्रचुरं सदैव ।
हिक्काज्वरार्तिं पृथुमानहीनं
दीनं जनैर्निन्दितमल्पसौख्यम् ॥९६॥
स्थानेऽष्टमे देवगुरुः प्रसूते
सदातिगर्वं कुटिलं मनुष्यम् ।
द्वेष्यं नृपाणां स्वकुलस्य मध्ये
गतप्रतापं विकृतं सदैव ॥९७॥
इति जीवाष्टक्वर्गफलम् ॥
रेखाश्रितो दैत्यगुरुः प्रसूते
नरं मनोज्ञं सुभगं सुशीलम् ।
जितेन्रियं दानपरं मनोज्ञं
धर्मानुरक्तं प्रचुरान्नपानम् ॥९८॥
द्वितीयगः काव्यसुतः प्रसूते
नरं विधिज्ञं धनिकं च ।
स्वधर्मशीलं विनयेन युक्तं
प्रभासमेतं जनवल्लभं च ॥९९॥
तृतीयसंस्थो बहुभूषणाढ्यं
नरं प्रसूते सततं प्रगल्भम् ।
मेधाविनं धर्मपरं विनीतं
देवद्विजानामनुवल्लभं च ॥१००॥
शुक्रचरुर्थे कुरुते धनाढ्यं
सद्भोजनाछादनपानयुक्तम् ।
वैडूर्यमुक्ताफलरत्नलाभैः
संतुष्टचिन्तं सततं मनुष्यम् ॥१०१॥
सुतीर्थयानादिकपुत्रलाभै
र्युक्तं नरं दैत्यगुरुर्विधत्ते ।
चतुष्पदाढ्यं खलु पंचमस्थः
प्रियं नृलोके परमं प्रधानम् ॥१०२॥
शुक्रस्तु षष्ठे कुरुते मनुष्यं
विद्यासु निष्ठं बहुमन्त्रभाजम् ।
स्त्रीवित्तलाभः सहितं सुरूपं
विपक्षणं सर्वफलासु दक्षम् ॥१०३॥
शुक्रो विधत्ते खलु सप्तमस्थो
नरं निप्तान्तं सुरतप्रगल्भम् ।
सकुङ्कुमाछादनभोगभाजं
नरेन्द्रपूजासहितं सदैव ॥१०४॥
स्थानेऽष्टमे दैत्यगुरुः प्रसूते
नरं नितान्तं सुनयेन युक्तम् ।
प्रभासमेतं बहुकीर्तिभाजं
सुकर्मिणं धर्मसमन्वितं च ॥१०५॥
विन्दुस्थितो दैत्यगुरुः प्रसूते
नरं सुपापं बहुरोगयुक्तम् ।
नृपाभिभूतं सुतवित्तहीनं
विवर्जितं बान्धवसज्जनैश्च ॥१०६॥
शुक्रो द्वितीये सरुजं विधत्ते
प्रतापहीनं बहुपापयुक्तम् ।
सदा विरक्तं स्वकुतुम्बवर्गे
शोकाभिभूतं रतिलालसं च ॥१०७॥
तृतीयसंस्थः कुरुते नृशंसं
शुक्रः सदा रोगविथर्चिकैश्च ।
नराभिभूतं अततं कुचैलं
ज्वरार्दितं मानधनेन हीनम् ॥१०८॥
चतुर्थगः शोकयुतं प्रसूते
नरं महाव्याधियुतं दरिद्रम् ।
चतुष्पदाछादनवर्जितं च
प्रेष्यं खलं पार्थिवमानहीनम् ॥१०९॥
करोति शुक्रः खलु पंचमस्थः
सदा दरिद्रं विकृतं मनुष्यम् ।
सुतार्थहीनं व्यसनैः समेतं
कुमित्रसङ्गेन युतं नितान्तम् ॥११०॥
षष्ठे सितः सर्वजनाभिभूतं
नरं प्रसूते प्रणयेन हीनम् ।
विवर्जितं सत्यसुखेन नित्यं
विदेशरक्तं परतर्ककं च ॥१११॥
करोति शुक्रः खलु सप्तमस्थो
वातादिदोषैः सहितं मनुष्यम् ।
नृशंसचेष्टं व्यसनाभिभूतं
सदा कृतघ्नं मतिवर्जितं च ॥११२॥
शुक्रोऽष्टमस्यः कुरुते विशीलं
नरं महाव्याधियुतं कृतघ्नम् ।
नित्यं विहीनं बहुपापरक्तं
चिन्तान्वितं वैरयुतं सदैव ॥११३॥
इति शुक्राष्टकवर्गफलम् ॥
रेखास्थितः सूर्यसुतः प्रसूते
स्थिरस्वभावं सुभगं मनुष्यम् ।
प्रियान्वितं सर्वजनैः प्रधानं
विनीतवेषाभरणं सदैव ॥११४॥
द्वितीयसंस्थो रविजः प्रसूते
नरं नितान्तं बहुमानभाजम् ।
पराक्रमोत्साहधनेन युक्तं
तीर्थानुरक्तं लरयातनां च ॥११५॥
सौरस्तृतीयः कुरुते प्रधानं
नरं सुविद्यागमशास्त्रलुब्धम् ।
खरोष्ट्रलोहाढ्यमनल्पपुत्रं
नरं सदा शान्तमतिप्रभवं ॥११६॥
चतुर्थगः सूर्यसुतः प्रसूत
नरं सुताढ्यं बहुखानपानम् ।
स्नग्गन्धभूपादिसुभोगभाजं
प्रभूतसख्यर्चवराश्चयुक्तम् ॥११७॥
करोति मन्दः खलु पंचमस्थो
नरं कुलीनं सुखिनं च नित्यम् ।
श्रिया समेतं विगतारिपक्षं
नृपाश्रितं श्रीदयितं सदैव ॥११८॥
षष्ठेऽर्कजः शीलधनं प्रसूते
नरं विधिज्ञं सुरविप्रयुक्तम् ।
पश्चात् प्रतिज्ञं कनकार्थलाभं
महाप्रभावं नरनाथपूज्यम् ॥११९॥
शनैश्चरः सप्तमगो विधत्ते
नरं धनाढ्यं प्रमदाप्रधानम् ।
विचक्षणं कीर्तिकरं मनोज्ञं
कलासु दक्षं प्रथितं नृलोके ॥१२०॥
स्थितेऽष्टमे सूर्यसुतः प्रसूते
विचित्रमाल्याभरणं मनुष्यम् ।
हिरण्य॥
विद्याविनीतं द्विजदेवभक्तम् ॥१२१॥
विन्दुस्थितः सूर्यसुतश्च सूते
वृथाश्रमं पापरतं मनुष्यम् ।
स्वबान्धवैस्त्यत्कमनल्पदुःखं
दीनं नृशंसं नृपपीडितं च ॥१२२॥
द्वितीयसंस्थः कुरुतेऽर्कपुत्रः
पापात्मकं पापसुखं मनुष्यम् ।
कुक्षिस्यरोगैः परिपीडिताङ्गं
चलस्वभावं सुमहाकर्दयम् ॥१२३॥
तृतीयसंस्थोऽर्कसुतः प्रसूते
नरं नृशंसं वितथक्रियं च ।
बह्वाशिनं सत्यविहीनमुग्रं
चौरं खलं सर्वजनाभिभूतम् ॥१२४॥
चतुर्थगः सूर्यसुतः प्रसूते
॥। परूजं मनुष्यम् ।
विहीनवर्णं गतबुद्धिवीर्यं
प्रेष्यं खलं दीनमनर्थयुक्तम् ॥१२५॥
सौरः सदा पंचमगः प्रसूते
विरक्तपौरं मलिनवभावम् ।
द्वेषां कुबुद्धिं हतकर्मसिद्धिं
क्षुद्रोगशस्त्रोपहतं नृशंसम् ॥१२६॥
षष्ठे शनिः पापयुतं
प्रभावहीनं परदाररक्तम् ।
गुदाक्षिरोगोपहतं सशोकं
प्रभूतवैरं प्रियसाध्वसं च ॥१२७॥
सौरो विधत्ते खलु सप्तमस्थो
नरं क्रियाहीनमनल्पवैरम् ।
सदा सरोगं निजबन्धुहीनं
॥विवर्जितं च ॥१२८॥
सौरोऽष्टमस्थः कुरुते दरिद्रं
नरं सरोगं बहुनीचरक्तम् ।
पित्तोद्भवैः पीडितमुग्ररोगं
विदेशभाजं परतर्ककं च ॥१२९॥
इति शनेरष्टकवर्गफलम्
इति श्रीवृद्धयवनेऽष्ट्कवर्गफलानि ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP