TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १४

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


शुक्रदर्शनचारध्यायः
मेषस्थितो दैत्यगुरुः प्रसूते
सूर्येण दृष्टः कृपणस्वभावम् ।
नरं नितान्तं बहुकोपयुक्तं
विवादशीलं गुरुतल्पगं च ॥१॥
चन्द्रेण दृष्टो भृगुजोऽजसंस्थो
नरं प्रसूते विनयार्थयुक्तम् ।
बहुप्रसादं रहितापवादं
नरेन्द्रकर्मोधतमेव नित्यम् ॥२॥
भौमेन दृष्टः खलु मेषसंस्थः
शुक्रः प्रसूते विधनं मनुष्यम् ।
संपीडितं रक्तविकारशोकै
र्विराजितं नीचजनेन नित्यम् ॥३॥
मेषाश्रितः सोमसुतेन दृष्टः
शुक्रः प्रसूते सततं सुशीलम् ।
नरं नयज्ञं निजबन्धुपूज्यं
मनोज्ञरूपं प्रथितं विलोके ॥४॥
जीवेन दृष्टो भृगुजः प्रसूते
मेषं गतः सह्यमुदारचिन्तम् ।
महाप्रभावं विजितारिपक्षं
कृतचमोजस्विनमिष्टधर्मम् ॥५॥
सौरेण दृष्टः खलु मेषसंस्थो
नरं प्रसूते भृगुजः सकोपम् ।
विरुद्धचेष्ठं खलु श॥।उ॥
क्षीणं कृशं बन्धुजनेन सक्तम् ॥६॥
वृषस्थितो भास्करदृष्ट एव
करोति शुक्रः प्रणतं सु।
नरं प्रजापूजितमद्भार्थं
प्रियंकरं साधुजनेन नित्यम् ॥७॥
चन्द्रेण दृष्टो भृगुजः प्रसूते
वृषं गतः कीर्तिधनैः समेतम् ।
नरं प्रगल्भं प्रणतारिपचं
श्रियाधिकं बान्धववल्लभं च ॥८॥
भौमेन दृष्टो भृगुजो वृषस्थः
करोति हीनं पशुवित्तदारैः ।
नरं सदा स्त्रीजितमुग्रवैरं
विवर्जितं भूमिपदातिलाभैः ॥९॥
बुधेन दृष्टो भृगुजो वृषस्थः
करोति बुद्धा सहितं सुसत्यम् ।
नरं सुदेहं बहुवित्तभाजं
पराक्रमप्राप्तयशोर्थमानम् ॥१०॥
जीवेन दृष्टो भृगुजः प्रसूते
वृषं गतः कीर्तिधनैः समेतम् ।
नरं प्रगल्भं प्रणतारिपक्षं
श्रियाधिकं बान्धववल्लभं च ॥११॥
सौरेण दृष्तो भृगुजो वृषस्थो
नरं सुवाते गतपौरुषं च ।
वृद्धा विहीनं विकृतस्वभावं
विवर्जिताङ्गं विभवोत्थभोगैः ॥१२॥
तृतीयराशौ भृगुजः प्रसूते
सूर्येण दृष्तो ज्वरपीडिताङ्गम् ।
गतानुरागं मलिनस्वभावं
प्रमादितं नीचजनैः सदैव ॥१३॥
चन्द्रेण दृष्तो मिथुनेऽथ शुक्रो
नरं प्रसूते बहुभोगभाजम् ।
स्वभावशुद्धिं विनिघृष्तरोगं
जितेन्द्रियं नीतिविशारदं च ॥१४॥
भौमेन दृष्तः प्रकरोति शुक्रो
राशौ तृतीये पुरूषं विरूपम् ।
रोगाभिभूतं बहुदैन्यभाजं
विवर्जितं मानधने नित्यम् ॥१५॥
बुधेन दृष्तो भृगुजः प्रसूते
तृतीयराशौ सुभगं मनोज्ञम् ।
प्रसिद्धवीर्यं गुणसत्ययुक्तं
प्रभावीनं सौख्ययुतं सदैव ॥१६॥
जीवेन दृष्तः प्रकरोति शुक्रो
राशौ तृतीये धनवस्त्रलभम् ।
नरं कृतनं प्रचुरप्रभावं
सुसंयतं सर्वसुखैः समेत  १७॥
मन्देन दृष्तो भृगुजस्तृतीये
राशौ सुरोगाभिहतं मनुष्यम् ।
सदातुरं बान्धवपक्षतुष्टम्
सदा विहीनं पतितस्वभावम् ॥१८॥
कर्कस्थितो भार्गवजोऽर्कदृष्तः
कुर्यात् कुशीलं कृपणस्वभावम् ।
विवर्जिताङ्गं सुखभोगवस्त्रैः
प्रपीडितं बन्धुभिरेव नित्यम् ॥१९॥
चन्द्रेण दृष्तो भृगुजस्तु कर्क
करोति मर्त्यं धनवाजियुक्तम् ।
सुसाधुसङ्गं प्रवरान्नपानं
हितं द्विजानां परमं प्रहृष्टम् ॥२०॥
भौमेन दृष्तः प्रकरोति शुक्रः
कर्कथितः पुष्टियुतं मनुष्यम् ।
स्त्रीणामभीष्टं सुरदेवभक्तं
सुराक्षिताङ्गं विविधैश्च भृत्यैः ॥२१॥
शिरोक्षिजिह्वागुदरोगयुक्तं
स्वभावपापं विनयेन हीनम् ।
बुधेन दृष्तः प्रकरोति शुक्रः
कर्कस्थितः सत्यविवर्जितं च ॥२२॥
जीवेन दृष्तः प्रकरोति शुक्रः
कर्काश्रितो सत्यधनं प्रसूते ।
नरं विशिष्टान्वितसाधुचेष्टं
सदानुरक्तं यजनार्थदानैः ॥२३॥
मन्देन दृष्तः प्रकरोति शुक्रः
कर्काश्रितस्तीव्ररुजासमेतम् ।
महारिपक्षं क्षुधयार्तदेहं
निसर्गम्न्दं विगतप्रवंचम् ॥२४॥
सिंहाश्रितः सत्यविहीनमेव
शुक्रः प्रसूते रविणा च दृष्टः ।
हद्वेगशोकज्वरपीडिताङ्गं
नरं महादोषसमन्वितं च ॥२५॥
सिंहाश्रितो दानवपूजिताङ्गो
दृष्टोऽथ चन्द्रेण नरं प्रसूते ।
सुतीर्थसेवानिरतं मनुष्यं
दत्तं पितॄणां च सुधाविहीनम् ॥२६॥
भौमेन दृष्टः प्रकरोति शुक्रः
सिंहाश्रितः शत्रुनिपीडिताङ्गम् ।
नरं दरिद्रं पिशुनाभिभूतं
निस्तेजसं पापविवर्जिताङ्गम् ॥२७॥
बुधेन दृष्टः प्रकरोति शुक्रः
सिंहे सुखार्थं विजितारिपक्षम् ।
कुलस्वधर्मे परमं प्रहृष्टं
विवादयुक्तं नृपवल्लभं च ॥२८॥
जीवेन दृष्टो भृगुजो विधत्ते
सिंहाश्रितः सत्य्धनेन युक्तम् ।
नरं प्रगल्भं विभुतासमेतं
कृषिप्रभावाद्बहुसौख्ययुक्तम् ॥२९॥
मन्देन दृष्टो भृगुजस्तु सिंहे
नरं प्रसूते सुखपुत्रहीनम् ।
विवर्जितं धर्मधनैश्च सत्यै
र्गतप्रभावं सरुजं सदैव ॥३०॥
कन्याश्रितो भास्करदृष्टदेहो
नरं प्रसूते भृगुजः सुतीव्रम् ।
नयन हीनं गतमानसत्यं
स्वबन्धुमार्गेण बहिष्कृतं च ॥३१॥
कन्याश्रितो भर्गाव इन्दुदृष्टो
नरं सुवातं सहितं सुतार्थैः ।
पराक्रमाप्तैर्विधवैः समेतं
सुपूजितं साधुजनेन नित्यम् ॥३२॥
भौमेन दृष्टो भृगुजस्तु कन्ये
करोति मर्त्यं सरुजं सकामम् ।
सदा विरक्तं निजबन्धुवर्गै
र्विहीनवित्तं बहुवैरयुक्तम् ॥३३॥
कन्याश्रितो दैत्यगुरुस्तु सौम्य
दृष्टः प्रसूते सदयं सधर्मम् ।
मनोचदेहं बहुशास्त्ररक्तं
सदा सुशीलं  युक्तम् ॥३४॥
जीवेन दृष्टो भृगुजः प्रसूते
कन्याश्रितः सत्यमुदारचेष्टम् ।
नरं नितान्तं नृपमानभाजं
गतारिपक्षं निजवर्गसख्यम् ॥३५॥
मन्देन दॄष्टो भृगुजः प्रसूते
कन्याश्रितः कान्तिविवर्जिताङ्गम् ।
नरं सुनीचं प्रणतं कृतघ्नं
विवर्जितं भूमिपमानदानैः ॥३६॥
तुलाश्रितो दैत्यगुरुः प्रसूते
सूर्येण दृष्टोऽडिभुजासमेतम् ।
करोति मर्त्यं बहुदैन्ययुक्तं
नयेन हीनं सततं कुरक्तम् ॥३७॥
चन्द्रेण दृष्टः प्रकरोति शुक्र
स्तुलाश्रितः प्रीतमलोलुपं च ।
नरं प्रभासत्यविवेकयुक्तं
सुशिक्षितं सर्वकलासु नित्यम् ॥३८॥
भौमेन दृष्टो भृगुजस्तुलायां
करोति नीचैर्विजितं विशूलम् ।
नयेन हीनं विक्रिपासमेतं
नरं निरस्तं सुजनैः सदैव ॥३९॥
बुधेन दृष्टः प्रकरोति शुक्र
स्तुलाश्रितः सौख्यनयेन युक्तम् ।
नरं प्रगल्भं प्रचुरप्रतापं
विपन्नरोगं प्रियदर्शनं च ॥४०॥
जीवेन दृष्टो भृगुजः प्रसूते
नरं सुसत्यं नृपकार्यदक्षम् ।
प्रभूतलाभं विजितारिपक्षं
जितेन्द्रियं बान्धववल्लभं च ॥४१॥
सौरेण दृष्टो भृगुजः प्रसूते
नरं सुदुष्टं कृपणस्वभावम् ।
मायाधिकं दम्भपरं विहीनं
धर्मेण सत्येन च पौरुषेण ॥४२॥
शुक्रोऽलिसंस्थो रविणा च दृष्टो
नरं प्रसूते मदनातिदेहम् ।
व्ययान्वितं पापरतं कृतघ्नं
व्यपेतलाभं गतपौरुषं च ॥४३॥
चन्द्रेण दृष्टोऽलिगतस्तु शुक्रो
नरं विधत्ते परमप्रभावम् ।
सदानुरक्तं द्विजदेवतानां
तपस्विनं शीलहनैः समेतम् ॥४४॥
भौमेन दृष्टह् प्रकरोति शुक्रो
नरं कृतार्थाभिहतं नृशंसम् ।
सदा कृतघ्नं कृतदोषसङ्गं
व्यपेतलज्जं सततं च रुद्धम् ॥४५॥
बुधेन दृष्टह् प्रकरोति शुक्रः
करोति मर्त्यं खलु वृश्चिकस्थः
बुद्धान्वितं प्रीतिकरं प्रसवं
सुतीर्थयुक्तं महिमाधिकं च ॥४६॥
जीवेन दृष्टोऽलिगतः प्रसूते
शुक्रः सुर्क्तं निवबन्धुवर्गैः ।
नरं निरीहं हतपापसङ्गं
गुणाश्रयं भूतिसमन्वितं च ॥४७॥
शुक्रोऽलिगः सूर्यसुतेन दृष्टो
मर्त्यं प्रसूतेऽतिधनैः समेतम् ।
प्रभूतकोशं विगतार्तिपापं
तीर्थानुरक्तं द्विजवल्लभं च ॥४८॥
चापाश्रितो दैन्यगुरुः प्रसूते
सूर्येण दृष्टः परदाररक्तम् ।
नरं व्ययैः पीडितमुग्ररोगं
सदा जितं दारनृपात्मजैश्च ॥४९॥
चन्द्रेण दृष्टः प्रकरोति शुक्र
श्चापाश्रितो वस्त्रधनैः समेतम् ।
नरं सुदेहं गतपापदेहं
विचलणं धर्मकथासु नित्यम् ॥५०॥
भौमेन दृष्टो हयगः प्रसूते
शुक्रः कृतघ्नं विगतप्रभावम् ।
शिरोर्तिछर्दिज्वरदाहरोगैः
संपीडितं त्रासकरं नराणाम् ॥५१॥
बुधेन दृष्टः प्रकरोति शुक्रो
धनुर्धरस्थः प्रकरोति मर्त्यम् ।
प्रभूतलाभं सुधिया समेतं
धर्माधिकं साधुजनानुरक्तम् ॥५२॥
सुरेज्यदृष्टो हयगः प्रसूते
शुक्रः प्रसङ्ग प्रणतप्रगल्भम् ।
द्विजानरार्थं कृतकर्मसंघं
शान्तं महाशास्त्ररतं सदैव ॥५३॥
मन्देन दृष्टो भृगुजः प्रसूते
चापाश्रितो हानि
नरं उतार्थै रहितं कुरूपं
प्रधानवैरं मतिवर्जितं च ॥५४॥
मृगाश्रितो दैत्यगुरुः प्रसूते
सूर्येण दृष्टो भृणरोगयुक्तम् ।
नरं सुदोषान्वितमिष्टशत्रुं
विवेकहीनं गतसाध्वसं च ॥५५॥
चन्द्रेण दृष्टो भृगुजः प्रसूते
मृगाश्रितो मातृपितृप्रभुक्तम् ।
नरं सदा स्त्रीदयितं मनोज्ञं
मेधाविनं विद्यरतं सदैव ॥५६॥
भौमेन दृष्टो भृगुजः प्रसूते
मृगाश्रितोऽतिव्यसनैः समेतम् ।
गतारिं गतमानशौर्यं ॥
महाविपक्षं हतवत्सलं च ॥५७॥
बुधेन दृष्टः प्रकरोति शुक्रो
मृगाश्रितः साधुजने सुरक्तम् ।
धर्मस्वभावं बहुबुधिभाजं
नयाधिकं पार्थिववा॥ऽं च ॥५८॥
जीवेन दृष्टः प्रकरोति शुक्रो
मृगाश्रितो दारसुतार्थयुक्तम् ।
अनष्टदेहं विगतोद्यमं च
दयाधिकं पुण्यपरं नितान्तम् ॥५९॥
मन्देन दृष्टः प्रकरोति शुक्रो
नरं हसप्राप्यमनल्पदुःखम् ।
विहीनधर्मार्थयशोनुरागं
प्रद्वेषशीलं सततं द्विजानाम् ॥६०॥
घटश्रितो दैत्यगुरुः प्रसूते
सूर्येण दृष्टो भयशोकयुक्तम् ।
नरं निराहारतयाणुदेहं
श्लेष्माधिकं कीर्तिविवर्जितं च ॥६१॥
चन्द्रेण दृष्टो घटगस्तु शुक्रो
नरं प्रसूते नयनाभिरामम् ।
नरं हितं साधुजनस्य नित्यं
नरेन्द्रपूज्यं सततं सुखार्थम् ॥६२॥
भौमेन दृष्टो घटगश्च शुक्रो
नरं भयार्तं गतवित्तभोगम् ।
विहीनकोशं दयिताविहीनं
सुगुह्यरोगाभिहितं करोति ॥६३॥
बुधेन दृष्टो घटगोऽथ शुक्रः
करोति सत्याधिकमीष्टधर्मम् ।
प्रभूतमित्रं प्रचुरान्नपानं
नरं विनितं सुतसौख्ययुक्तम् ॥६४॥
जीवेण दृष्टः प्रकरोति शुक्रो
नरं प्रियैः संयुतमेव नित्यम् ।
घटस्यधान्यप्रवरैः समेतं
विशुद्धिभाजं गतपापसङ्गम् ॥६५॥
मन्देन दृष्टो घटगः प्रसूते
शुक्रः क्रियाहीनमनल्पशोकम् ।
विवर्जितं धर्मधनार्थसौख्यैः
सुदुष्टभावं सदयं सदैव ॥६६॥
मीनाश्रितो दैत्यगुरुः प्रसूते
सूर्येण दृष्टः प्रणमेन हीनम् ।
सुनिष्ठुरं कोपपरं सुदुष्टं
धर्मातिगं धर्मगुरुप्रभावम् ॥६७॥
चन्द्रेण दृष्टो ह्यषगः प्रसूते
शुक्रः सुरूपं सुभगं मनुष्यम् ।
देवेज्यसक्तं सुतमित्रहीनं
दयाधिकं पुण्यपरं सदैव ॥६८॥
भौमेन दृष्टः प्रकरोति मीने
शुक्रो विहीनं पशुपुत्रदारैः ।
विगर्हितं धर्मक्रियाविरक्तं
सरोगदेहं सततं कुचैलम् ॥६९॥
बुधेन दृष्टो ह्यषगो विधत्ते
शुक्रः सुरूपं विनयप्रधानम् ।
सदानुरक्तं द्विजलिङ्गिनां च
धर्मार्थभाजं गुरुभक्तियुक्तम् ॥७०॥
जीवेन दृष्टो भृगुजः प्रसूते
नरं प्रियं पुण्यधनैः समेतम् ।
सुतार्थविधाविभवैः समेतं
प्रजाधिकं सत्यपरं मनोज्ञम् ॥७१॥
सौरेण दृष्टः प्रकरोति शुक्रो
नरं ह्यषस्थः सुतसत्यहीनम् ।
चौरावनीशैर्हृतवित्तसारं
रोगातुरं बुद्धिविवर्जितं च ॥७२॥
इति श्रीवृद्धयवने शुक्रदर्शनचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:33:11.7030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

capillary pressure

  • केशिका दाब 
  • केशिकीय दाब, केशिका दाब 
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site