TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १३

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


गुरुदर्शनचारध्यायः
मेषं गतो देवगुरुः प्रसूते
सूर्येण दृष्टः पशुपुत्रहीनम् ।
नरं भयार्तं घृणया विहीनं
विवर्जितं सत्यसुखेन नित्यम् ॥१॥
जीवोऽजसंस्थः शशिना च दृष्टः
करोति सात्यान्वितमिष्टधर्मम् ।
नरं प्रगल्भं बहुशास्त्ररक्तं
नृपप्रसादैः साहितं सदैव ॥२॥
मेषं गतो देवगुरुः प्रसूते
भौमेन दृष्टो बहुशोकयुक्तम् ।
नरं धनैर्वर्जितमिष्टपापं
पाषण्डिनां भक्तमनल्पदुःखम् ॥३॥
सौम्येण दृष्टोऽजगतः सुरेज्यो
नरं प्रसूते सुतदारसौख्यैः ।
समृद्धिमन्तं गतशोकमोहं
हितं स्ववर्गे घृणया समेतम् ॥४॥
शुक्रेण दृष्टः प्रकरोति जीवो
मेषाश्रित पुण्यधनैर्विहीनम् ।
प्रणष्टदारं गतबन्धुवर्गं
प्रणष्टमेधावनिनाथचौरैः ॥५॥
मेषाश्रितो देवगुरुर्विधत्ते
सौरेण दृष्टो बहुधान्ययुक्तम् ।
विक्षाधनं पुत्रयुतं कृशाङ्गं
स्त्रीलंपदं पानरतं नरं च ॥६॥
वृषाश्रितो देवगुरुः प्रसूते
सूर्येण दृष्टो विधनं मनुष्यम् ।
क्रियाविहीनं कुजनानुरक्तं
कुमित्रभाजं कुधनाकुलं च ॥७॥
वृषाश्रितो देवगुरुः प्रसूते
चन्द्रेण दृष्टः सुरकर्मदक्षम् ।
नरं नयचं सुधनेन युक्तं
विवर्जितं रोगपरं सदैव ॥८॥
भौमेन दृष्टो सुरेज्यः
करोति भीतं कृपणं मनुष्यम् ।
बहुप्रमादं नियमैर्विहीनं
सदा भृतं ज्ञातिविवर्जितं च ॥९॥
बुधेन दृष्टो वृषगः सुरेज्यः
करोति मर्त्यं सुतसौख्यशुक्तम् ।
विभासमेतं नियमप्रसक्तं
नितान्तमुन्कृष्टधनैः समेतम् ॥१०॥
शुक्रेण दृष्टो वृषगः सुरेज्यः
करोति मर्त्यं व्रतसंयतं च ।
महाधनं दानरतं प्रस
विवेकिनं प्राणभृतां वरिष्टम् ॥११॥
सौरेण दृष्टो वृषगः सुरेज्यः
करोति दीनं विधतं मनुष्यम् ।
व्यपेतलज्जं धृतिसत्यवर्जं
निसर्गदुष्टं प्रियमाध्वसं ॥१२॥
नृयुग्मसंस्थः प्रकरोति जीवः
सूर्येण दृष्टः प्रणयेन हीनम् ।
विवर्जितं शौचदयाभिमानैः
संपीडितं दुर्गतिमेव नित्यम् ॥१३॥
चन्द्रेण दृष्टो मिथुने सुरेज्यः
करोति विद्याविनयेन युक्तम् ।
नरं प्रसिद्धं प्रचुरान्नपानं
विहीनदोषं सुरभक्तिचिन्तम् ॥१४॥
भौमेन दृष्टो मिथुने सुरेज्यः
करोति मर्त्यं व्यथितं नृशंसम् ।
रोगावृतं पुण्ययशोविहीनं
गतप्रभं हानियुतं सदैव ॥१५॥
बुधेन दृष्टो मिथुने सुरेज्यः
करोति मर्त्यं बहुबुद्धिभाजम् ।
विप्रानुरक्तं प्रणतं विहीन
सत्याधिकं पूजितमेव भूपैः ॥१६॥
शुक्रेण दृष्टो मिथुने सुरेज्यः
करोति नानाविधवित्तयुक्तम् ।
नरं नितांतं बहुशीलयुक्तं
गुणानुरक्तं पृथुमेव लोके ॥१७॥
सौरेण दृष्टः प्रकरोति जीवो
दुःखेन युक्तं व्यसनाभिभूतम् ।
दयाविहीनं पतितानुरक्तं
विहीनवर्णं ज्वरपित्तभाजम् ॥१८॥
सुरेज्यमन्त्री रविणा च दृष्टः
कर्काश्रितस्तीप्रकरं मनुष्यम् ।
विमुक्तलज्जं विनयेन हीनं
सदातुरं बान्धववर्जितं च ॥१९॥
चन्द्रेण दृष्टः खलु कर्कसंस्थः
करोति जीवो विभवं मनुष्यम् ।
मनोश्चदेहं सुरविद्विभक्तं
कृपापरं साधुसमन्वितं च ॥२०॥
भौमेन दृष्टो गुरुरेव कर्क
नरं प्रसूते बहुपापभाजम् ।
जलोदरल्लहगुदाक्षिरोगैः
संपीडिताङ्गं गुणवर्जितं च ॥२१॥
बुधेन दृष्टः खलु कर्कसंस्थो
गुरुप्रसक्तं नृपलोकभाजम् ।
हिरण्यवस्त्रामणिमुक्तलाभैः
समन्वितं सत्यपरं सदैव ॥२२॥
शुक्रेण दृष्टः सुरराजमन्त्री
कर्काश्रितः स्फीतिवतं मनुष्यम् ।
करोति पुष्टं सुरभोजनानां
सुरक्तपौरं प्रथितं नृलोके ॥२३॥
सौरेण दृष्टः खलु कर्कराशौ
जीवः सुवते बहुतर्ककं च ।
सुदीर्घपौरैर्नृपचौरदुष्टैः
प्रपीडितं निन्दितमेव नित्यम् ॥२४॥
सिंहस्थितो देवगुरुः प्रसूते
सूर्येण दृष्टः पतितस्वभावम् ।
विहीनधर्मं प्रकरोति वैरं
मानान्त्ययुक्तं प्रणतं च नीचे ॥२५॥
चन्द्रेण दृष्टो हरिगः सुरेज्यः
करोति मर्त्यं सुखवर्धिताङ्गम् ।
सौभाग्ययुक्तं बहुमानभाजं
सुसंमतं साधुजनस्य नित्यम् ॥२६॥
सिंहस्थितो देवगुरुः प्रसूते
कुजेन दृष्टः प्रचुरप्रतापम् ।
विहीनवर्णं नयविप्रयुक्तं
विवर्जितं साधुसमागमेन ॥२७॥
बुधेन दृष्टः कुरुते सुरेज्यः
सिंहस्थितः सत्यपरं मनुष्यम् ।
विशालकीर्तिं कृतधर्मकार्यं
नरेन्द्रपूज्यं सुहृदप्रयुक्तम् ॥२८॥
शुक्रेण दृष्टो हरिगः सुरेज्यो
नरं विधत्ते मणिरत्नभाजम् ।
शय्यानुरक्तं बहुमित्रपक्षं
विपादितारिं प्रभुतासमेतम् ॥२९॥
सौरेण दृष्टो हरिगः सुरेज्यः
करोति मर्त्यं विधिहीनकृत्यम् ।
कौलप्रभावं सुजनैर्विमुक्तं
विद्वेषशीलं निजबान्धवानाम् ॥३०॥
कन्याश्रितः सूर्यनिरीक्षितश्च
करोति जीवः सततं कुशीलम् ।
नरं प्रसूते कुजलैः समेतं
विपन्नशीलं परुषस्वभावम् ॥३१॥
चन्द्रेण दृष्टः खलु कन्यकायां
जीवो विधत्ते जयसंप्र॥
सुसाधुपूज्यं नृपतेरभिष्टं
विवर्जितं पापजनेन नित्यम् ॥३२॥
भौमेन दृष्टः सुरराजमन्त्री
कन्याश्रितस्तीव्ररुजासमेतं ।
नरं प्रसूते नयधर्महीनं
विपन्नशीलं नृपपीडितं च ॥३३॥
बुधेन दृष्टः प्रकरोति जीवो
नरं प्रगल्भं सुतदारयुक्तम् ।
स्वबन्धुमुख्यं बहुकीर्तिभाजं
सदा हितं बान्धवसज्जनानाम् ॥३४॥
शुक्रेण दृष्टः प्रकरोति जीवः
कन्याश्रितः सर्वजनैः प्रशस्तम् ।
नरं सुशास्त्रानुरतं प्रगल्भं
व्यपेतदुःखं कपदेन हीनम् ॥३५॥
कन्याश्रितो देवगुरुः प्रसूते
सौरेण दृष्टः प्रचुरार्तियुक्तम् ।
व्यापचलज्जं विगतप्रतापं
कलिप्रियं दुष्टमतिं नृशंसम् ॥३६॥
तुलाश्रितो देवगुरुः सुवाते
सूर्येण दृष्टः कुविभः प्रदुःखम् ।
नरं सुशोकैः सहितं सपापं
मायाधिकं कृत्रिमसौहृदं च ॥३७॥
चन्द्रेण दृष्टस्तुलगस्तु जीवो
नरं प्रसूते विभवैः समेतम् ।
व्यथाविहीनं नतशत्रुपक्षं
महाधनं सत्यपरं सदैव ॥३८॥
भौमेन दृष्टस्तुलगस्तु जीवो
नरं प्रसूते कलहैः समेतम् ।
निन्द्यं कृशं पुण्ययशोविहीनं
सुसंस्कृतं नीचजनैः सदैव ॥३९॥
बुधेन दृष्टस्तुलगः सुरेज्यो
नरं प्रसक्तं विनये प्रसूते ।
सुतीर्थभाजं बहुमित्रवर्गं
शास्त्रानुरक्तं बहुबान्धवं च ॥४०॥
शुक्रेण दृष्टः प्रकरोति जीव
स्तुलाश्रितः सत्यधनं प्रसूते ।
गुणानुरक्तं विविधानपानैः
संवर्धिताङ्गं गुरुदेवभक्तम् ॥४१॥
सौरेण दृष्टः प्रकरोति जीव
स्तुलाश्रितः क्लेशभुवा समेतम् ।
विहीनपक्षं सुतदारहीनं
सदा नरं रोगसमन्वितं च ॥४२॥
जीवोऽलिसंस्थः प्रकरोति म
सूर्येण दृष्टः कृपणं मनुष्यः ।
वातामयक्लेशसुपीडिताङ्गं
गतप्रधानं मलिनं कुचैलम् ॥४३॥
चन्द्रेण दृष्टोऽलिगतः सुरेज्यः
करोति मर्त्यं गतपापसङ्गम् ।
सौभाग्ययुक्तं विनयैः समेतं
प्रभूतमित्रं गतशोकमोहम् ॥४४॥
भौमेन दृष्टोऽलिगतः प्रसूते
जीवो जितं स्त्रीतनयैश्च नित्यम् ।
विवेकहीनं गतमानलाभं
विरूपचेष्टं पिशुनस्त्वभावम् ॥४५॥
बुधेन दृष्टोऽलिगत प्रसूते
जीवो युतं बन्दिजनेन नित्यम् ।
विरुद्धकर्मं परुषप्रतापं
संपादितं सर्वकलासु दक्षम् ॥४६॥
शुक्रेण दृष्टः प्रकरोति जीवो
जितेन्द्रियं जीवदयासमेतम् ।
प्रभूतलाभं विकृतैर्वियुक्तं
चतुष्पदग्रामधनैः समेतम् ॥४७॥
मन्देन दृष्टः सुरराजमन्त्री
करोतो मर्त्यं ज्वरपीडिताङ्गम् ।
मन्दालिसंस्थः प्रभया समेतं
बहुव्ययं शास्त्रविवर्जितं च ॥४८॥
चापाश्रितो देवगुरुः प्रसूते
सूर्येण दृष्टो गतमानभाजम् ।
स्वधर्महीनं परधर्मरक्तं
नानाविधैः कर्मसुखैर्विहीनम् ॥४९॥
चन्द्रेण दृष्टो हयगः प्रसूते
जीवो जनाढ्यं नियमैः समेतम् ।
यतिद्विजप्रव्रजितनुरक्तं
मध्ये सदा तीर्थरतं प्रसिद्धम् ॥५०॥
जीवो हयस्थः क्षितिजेन दृष्टो
नरं प्रसूतेऽतिखलं सपापम् ।
प्रपंचमायासहितं नितांतं
कृतापराधनं नृपसाधुलोकैः ॥५१॥
बुधेन दृष्टो हयगः सुरेज्यः
करोति मर्त्यं बहुसौख्ययुक्तम् ।
विनीतमत्मद्भुतलाभभाजन्
प्रभूतमूर्तिं सदयं च नित्यम् ॥५२॥
शुक्रेण दृष्टो हयगोऽथ जीवो
नरं सुवाते शुचिमन्तलाभम् ।
सत्यानुरक्तं सुखवृत्तगात्रं
सुरद्विजेन्दैः प्रणतं च तेषाम् ॥५३॥
चापाश्रितो देवगुरुः प्रसूते
सौरेण दृष्टः परदाररक्तम् ।
विहीनसत्यं मतिविप्रयुक्त
मृणाधिकं व्याधियुतं तदन्तम् ॥५४॥
[ मृगेणसंस्थित सुरराजमन्त्री
सूर्येण दृष्टः चपलस्वभावं
वातादिपिडाभयमुग्रता च
स्वबान्धवैर्मित्रविरक्तता च ॥५५॥
चन्द्रेण दृष्टो मृगराशितांगवैः
गुरुरः प्रयुक्तो धन्लाभता च ।
मानं विवेकं स्वजनं सुखं च
शत्रुक्षयं देवगुरोश्च भक्तिं ॥५६॥
जीवः प्रसूते मृगलग्नगे च
भौमेन दृष्टः कुरुते भयं च ।
शत्रुं विवादं निजबन्धुवैरं
वेश्यानुरक्तं मतिविभ्रमं च ॥५७॥
बुधेन दृष्टः प्रभुतासमेतं
च संस्थो मृगराशिकश्च ।
वाणिज्यदक्षं विविधं विलासं
क्षेत्राधिलाभं धनवल्लभं च ॥५८॥
शुक्रेण दृष्टः सुरराजमन्त्री
मृगेणसंस्थः द्विजदेवभक्तं ।
वल्लभकामिनीनां
पुत्रैः मित्र॥च राज्यलाभं ॥५९॥
मृगेणसंस्थः सुरराजमन्त्री
शौरेण दृष्टः भयमुग्रता च ।
जनापवादं नृपचौरकाग्नि
स्त्रीणां विवादे धनधान्यनाशं ॥६०॥ ]
घटस्थितो देवगुरुः प्रसूते
सूर्येण दृष्तः सुतदारदुःखैः ।
संपीडिताङ्गं गतबुद्धिचिन्तं
विरक्तपौरं निजबन्धुहीनम् ॥६१॥
चन्द्रेण दृष्तो घटगः प्रसूते
सुरेज्यमन्त्री नयनाभिरामम् ।
अकल्पषं शास्त्रकथानुरक्तं
प्रियवदं साधुजनस्य नित्यम् ॥६२॥
भौमेन दृष्तो घटगः
करोति मर्त्यं बहुदानमुग्रम् ।
॥।पेतविघ्नं कृपया विहीनं
विलज्जमत्युद्धतकामसक्तन ॥६३॥
बुधेन दृष्टो घटगः सुरेज्यः
करोति सिद्धा सहितं सनाचम् ।
नरं विशिष्टार्थपरं सुरूपं
सदानुकंपासहितं विधिज्ञम् ॥६४॥
शुक्रेण दृष्टो घटग सुरेज्यः
करोति मेधाविनमल्पभगम् ।
नरं निरीहं सततं सुदात्तं
मनस्विनं पार्थिवकार्यदक्षम् ॥६५॥
सौरेण दृष्तो घटगोऽथ जीवः
करोति रोगैर्विविधैः समेतम् ।
सुकर्मतप्तं प्रभुताविहीनं
विवर्जितं भोगनयैः सदैव ॥६६॥
जीवो ह्यषस्थो रविणा च दृष्तः
करोति नानाविधमुग्रतापम् ।
छर्दिप्रकोपं ज्वरदाह्मुग्रं
महाभयं पार्थिवजं सदैव ॥६७॥
चन्द्रेण दृष्टः सुरपूजिताङ्गो
ह्यषस्थितः संजनयेन्मनुष्यम् ।
प्रियंवदं सत्यसुखार्थयुक्तं
स्त्रीणाम्भीष्टं रतिलालसं च ॥६८॥
भौमेन दृष्टो ह्यषगः प्रसूते
सुरेज्यमन्त्री ज्वरया समेतम् ।
महातिसारज्वरमीहिताङ्गं
मित्रेन युक्तं नयवर्जितं च ॥६९॥
बुधेन दृष्टः प्रकरोति जीवो
मीनस्थितः शौचपरं मनुष्यम् ।
प्रियातिथिं मानधनैः समेतं
विरागचिन्तं सुरविप्रभक्तम् ॥७०॥
शुक्रेण दृष्टो ह्यषगः उरेज्यो
नरं प्रसूते विविधार्थयुक्तम् ।
गुणाधिकं प्राणादयासमेतं
सदानुकूलं पितृमातृभक्तम् ॥७१॥
जीवो ह्यषस्थो रविपुत्रदृष्टो
नरं सुवाते विकृतस्वभावम् ।
विवर्जितं दारसुखेन नित्यं
विधाविहीनं सततं नृलोके ॥७२॥
इति श्रीवृद्धयवने गुरुदर्शनचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:32:10.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

self liquidating

  • स्वयं रोकडसुलभ 
  • आत्मविसर्जी 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.