TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय २०

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


बुधचाराध्यायः
मेषं गतस्त्विन्दुसुता॥
कुर्यात् कृशं बह्वटनं शठं च ।
मिथ्याप्रलापं प्रियविग्नहास्त्रं
भूरित्रमोत्पन्नविपन्नचिन्तम् ॥१॥
वृषं गतस्तु पृथुपीनकान्तं
बुधो नरं त्यागिनमिष्टरम् ।
गान्धर्वलीलारतिहास्यशीलं
दक्षं प्रगल्भं प्रियवल्गुवाक्यम् ॥२॥
बुधः प्रसूते मिथुने सुवाक्यं
नरं प्रियाभाषणमिष्टकेशम् ।
शिल्पश्रुतिज्ञापकलाविदग्धं
विकत्थिनं मानिनमूर्जितं च ॥३॥
चतुर्थराशौ तु शशाङ्कसूनु
स्तिष्ठन् विदेशाभिरतं प्रसूते ।
प्राज्ञं कविं स्त्रीरतिगेयवित्तं
बहुक्रियासक्तमनस्विनं च ॥४॥
बुधो नरं सिंहमुपेत्य॥।उ॥
दल्पस्मृतं चानकलावियुक्तम् ।
अत्माहसत्त्वस्थित्तिवित्तहीनं
जगत्यतिज्ञातमसत्यवाक्यम् ॥५॥
कन्यामपत्य प्रचुरं प्रसूते
र्मप्रियं वाङ्मिनमिन्दुसूनुः ।
आलेख्यलेख्यश्रुतिकाव्यवित्तं
विज्ञानशिल्पादिविमिश्रितं च ॥६॥
तुलाधरे शिल्पविवादवन्तं
बुधो विधत्ते चपलं प्रसूते ।
शठप्रचार कृतकोपचार
पण्यक्रियोपायविधानदक्षम् ॥७॥
बुधो नरं वृश्चिकमेत्य कर्या
दमर्णदुःखत्रमशोकतप्तम् ।
विद्विष्टकर्माणमसाधशीलं
पारुष्यदम्भच्छलनिश्चितं ॥८॥
धनुर्धरस्थिस्त बुधो मनुष्यं
विख्यातशब्दिं जनयत्युदारम् ।
शास्त्रार्थाशिल्पश्रुतिशौर्ययुक्तं
मेधाविन नाक्यविशारदं च ॥९॥
बुधो मृगस्थो जनयत्यनर्थं
नीचं परप्रेष्यमसत्यचेष्टम् ।
मुर्खं कलाशिल्पगुणैर्विहीनं
निरुद्यमस्थं पिशुनस्वभानम् ॥१०॥
कुम्भे तु सौम्यः शुचिशीलहीनं
नरं प्रसूते परिभूतमन्यैः ।
वाग्बुद्धिकर्मोपहतं हताशं
प्रहीनलज्जं रतिदुर्भगं च ॥११॥
मीनद्वयस्थस्तु बुधो मनुष्य
माचारशोभाभिरतं प्रसूते ।
देशानुगं वाह्मीनकर्मसाधुं
दरिद्रमिष्टप्रजम्ल्पमिष्टम् ॥१२॥
होरं बुधो वासरपस्य यात
स्तीव्रं खलं कामपरं विशीलम् ।
गतप्रतापं बहुपापरक्तं
देवद्विजानां परिनिन्दकं च ॥१३॥
होरां गतो रात्रिपतेस्तु सौम्यो
नरं प्रसूते सुभगं सुशीलम् ।
विशिष्टवाग्बुद्धिगुणं नयश्चं
प्रियातिथिं नित्यमुदारचेष्टम् ॥१४॥
त्र्यंशे बुधो वासरपस्य तिष्ठन्
नरं प्रसूते परिवादयुक्तम् ।
क्रूरं हतारिं सरणं कुरूपं
कूटानुरक्तं च सदा सकामम् ॥१५॥
त्र्यंशे बुधो रात्रि
नरं प्रसूते विगतारिपक्षम् ।
मुश्रूषकं देवगुरुद्विजानां
कुलप्रधानं बहुपुत्रयुक्तम् ॥१६॥
बुधो यदा भूमिसुतस्य संस्थो
भागे तृतीये प्रकरोति मर्त्यम् ।
माङ्गल्यधर्मं श्रुतिधर्मबाह्यं
वबन्धुमानं संपदा वियुक्तम् ॥१७॥
स्ववह्निभोगेन्दुसुतः सुवाते
सुरूपदेहं सुभगं मनुष्यम् ।
यश्चव्रतादिष्वनुरक्तचेष्टं
दातारमार्यं बहुमित्रपक्षम् ॥१८॥
तृतीयभागे सुरपूजितस्य
बुधो विधत्ते प्रसभं मनुष्यम् ।
स्त्रीवल्लभं शुभ्रमलंघ्यवीर्यं
प्रभूतकोशं विविधार्थयुक्तम् ॥१९॥
भागे तृतीये शशिजः सितस्य
तिष्ठन् प्रसूते सुविदग्धमेव ।
मर्त्यं महाधामनिधिं गतारिं
प्रसन्नचिन्तं नृपवल्लभं च ॥२०॥
त्र्यंशे शनेः सोमसुतः प्रयातः
करोति मर्त्यं सघृणं
विषादिनं दुर्बलदेहसत्त्वं
प्रवासिनं विक्रयविग्रहं च ॥२१॥
चरन् नवांशे दिनपस्य सौम्य
करोति पापं विकृत मनुष्यम् ।
स्त्रीदुर्भगं बन्धुजनैर्विमुक्तं
प्रसक्तशीलं हतशक्तिदर्पम् ॥२२॥
चन्द्रांशके स्यान् नवमे यदैन्दव
स्तदा विधत्ते सुसुख नितान्तं
ख्यातं वपुष्मन्तमुदारचेष्टं
जेतारमीज्यं सुहृदां सतां च ॥२३॥
नवांशके भूमिसुतय सौम्यो
नरं विधत्ते रुधिरार्तदेहम् ।
विकर्मशीलं सुहृदामभीष्टं
द्वेष्यं खलं पार्थिवपीडितं च ॥२४॥
नवांशके स्वे प्रकरोति सौम्यः
सौम्यं सुरूपं सुभगं मनुष्यम् ।
देवद्विजातोप्रणतं प्रसन्न
प्रियातिथिं ब्रह्मणसंमतं च ॥२५॥
नवांशकस्यः सुरपूजितस्य
सौम्यः प्रसूते सुखिनं मनुष्यम् ।
नानार्थलाभं प्रभुत्प्रतापं
सुमित्रयुक्तं प्रसुतं सुशिलम् ॥२६॥
शुक्रस्य भागे नवमे बुधस्तु
करोति मर्त्यं विविधार्थयुक्तम् ।
प्रभूतामत्र द्विजपूजनप्सु॥
सुतान्वितं नित्यमुदारचेष्टम् ॥२७॥
सौरस्य भागे नवमे च तिष्ठन्
करोति सौम्योऽतिरुजं मनुष्यम् ।
कुशिल्पिनं साधुगुणैरयोग्यं
पराङ्गनासक्तमनर्थयुक्तम् ॥२८॥
सूर्यांशकस्थो विदधाति सौम्यो
नृणां रवेः पापमतिं न सौख्यम् ।
कुमित्रसङ्गं रिपुपक्षवृद्धिं
यशोर्विसतसंशयं च ॥२९॥
सूर्यांशके शातकरस ऽउ॥
नरं विधत्ते विवि॥तापम् ।
सतार्थयुक्तं रतिसौख्यभाजं
विशिष्टशीलं विनयैः समेतम् ॥३०॥
सूर्यांशक भूमिसुतस्य सौम्यो
नरं विधत्तेऽतिशठं विशिलम् ।
गतश्रियं बन्धुजनेन नित्यं
पापात्मकं रोगसमन्वितं च ॥३१॥
सूर्यांशके स्वे प्रकरोति सौम्यो
नरं ॥ शास्त्ररतं सदैव ।
कलासु दक्षं प्रणतारिपक्षं
जीतेन्द्रियं श्लाघ्यतमं सदैव ॥३२॥
सूर्यांशके देवपुरोहितस्य
सौम्यः प्रसूते सुतरां सुशिलम् ।
मर्त्यं महावृत्तविबुद्धियुक्तं
प्रियातिथिं धर्मपरं सदैव ॥३३॥
सूर्यांशके भार्गव एव सौम्यः
करोति मर्त्यं प्रचुरात्नकोशम् ।
नृपप्रियं साधुजनानुरक्तं
सद्धर्मशीलं बहुपुण्यसौख्यम् ॥३४॥
सूर्यांशके सूर्यसुतस्य सौम्यJ
करोति दिनं कृपगमनष्यम् ।
व्यपेतसिलं बहुरोगयुक्तं
॥।ऽयापट निदयान॥ च ॥३५॥
सूर्यांशके वासरपस्य सौम्यो
नरं प्रसूते कुटिलं कुशीलम् ।
कुकर्मरक्तं कुजनप्रसक्तं
कुस्त्रीषु रक्तं नृपमानयुक्तम् ॥३५अ॥
सूर्यांशकस्थः शशिनश्च सौम्यो
नरं प्रसूते सुतमानयुक्तम् ।
श्रियाधिकं कात्तियुतं सुशिलं
प्रपन्नमित्रं परदाररक्तम् ॥३५ब॥
सूर्यंशके भूमिसुतस्य मर्त्यं
सौम्यः प्रसूते निरुजाभितप्तम् ।
विनार्थयुक्तं विगतप्रतापं
पाखण्डिनं दुर्जनवल्लभं च ॥३५च॥
स्वसूर्यभागे विचरन् बुधस्तु
सुरूपमेव प्रकरोति मर्त्यम् ।
नृपप्रियं सत्यरतं सुवाक्यं
सदानुकूलं द्विजदेवताभ्यः ॥३५द॥
सूर्यांशके देवपुरोहितस्य
बुधः प्रसूते सुभगं मनुष्यम् ।
विक्षाविनीतं बहुशास्त्ररक्तं
विवेकिनं विप्रमतिं प्रगल्भम् ॥३५ए॥
सूर्यांशके दैत्यपुरोहितस्य
बुधो विधत्ते बहुलाभयुक्तम् ।
त्रीसौख्ययुक्तं प्रणतारिपक्षं
सुवर्चसां सादितमल्मशत्रुम् ॥३५फ़॥
रौद्रं सुकृष्णं सततं कुचै
मालम्लुच पापरत सदैव ।
सूर्यांशके सूर्यसुतस्य सौम्यो
नरं विधत्तेऽतिखलं कृतघ्नम् ॥३५ग॥
त्रिंशल्लवस्थोऽवनिजस्य सौम्यो
नरं प्रसूते कठिनं कुरूपम् ।
सतार्थहीनं व्यसनैरुपेतं
पराङ्मुखं देवगुरुद्विजानाम् ॥३६॥
त्रिंशल्लवस्थोऽर्कसुतस्य सौम्यः
करोति तिष्ठन् परतर्ककं च ।
रौद्रक्रियासक्तमतिं प्रचण्डं
द्यूतप्रियं व्याधिभिरर्दितं च ॥३७॥
चन्द्रार्मजो देवपुरोहितस्य
त्रिंशांशकस्थः प्रकरोति धीरम् ।
सदा विनीतं गुणिनामभीष्टं
स्वबन्धुपूज्यं कुलसत्तमं च ॥३८॥
त्रिंशांशके स्वे शशिसूनुरेव
श्रुतार्थयुक्तं मनुजं सुवाते ।
गुणैर्विख्यातमलंघ्यवीर्यं
प्रसन्नमूर्तिं सततं सुशीलम् ॥३९॥
त्रिंशल्लवे दानवपूजितस्य
सौम्यो विधत्ते प्रचुरप्रतापम् ।
प्रभुं परक्षेत्रवमाधनानां
प्रदानशिलं सुकलत्रयुक्तम् ॥४०॥
स्वमित्रवीर्येण युतस्तु सौम्यः
करोति मर्त्यं बहुमित्रयुक्तम् ।
प्रदानशिलं गुरुदेवभक्तं
सुश्रूषकं साधुजनं सदैव ॥४१॥
सौम्यो यदा क्षेत्रबलेन युक्तः
करोति मर्त्यं प्रियमेन लोके ।
स्थिरक्रियारम्भजनस्वभावं
विख्यातशब्दं दृदमित्रपक्षम् ॥४२॥
स्वतुङ्गवीर्येण युतस्तु सौम्यो
नरं विधत्ते प्रमदास्वभिष्टम् ।
प्रदानशीलं गुरुदेवभक्तं
सुश्रूषकं साधुजनस्य नित्यम् ॥४३॥
नवांशवीर्येण युतस्तु सौम्यो
नरं प्रसूते सततं मनोज्ञम् ।
शुचिं क्षमासत्यरत कृतज्ञ
मनस्विनं सर्वसुखाभिवासम् ॥४४॥
शुभग्रहालोकनवीर्ययुक्तः
करोति सौम्यः प्रणतं मनुष्यम् ।
शूरं बहुक्लेशसहं रतश्चं
नृपप्रियं पुण्यमतिं सदैव ॥४५॥
विचानशास्त्रश्रुतकाव्यशिल्म
गान्धर्वसङ्गितकलाभिरामम् ।
पुंवीर्ययुक्तः प्रकरोति सौम्यो
॥कीर्तिम् ॥४६॥
॥।
सौभाग्यचातुर्यगुणैरूपेतम् ।
अशाबलाढ्यः प्रकरोति सौम्यः
प्रसन्नमूर्तिं प्रथितं पृथिव्याम् ॥४७॥
चेष्टाबलाढ्यः प्रकरोति सौम्यः
स्त्रीवल्लभं भूपयुतं मनुष्यम् ।
स्वाचारधर्मप्रचुरं प्रगल्भं
सत्याधिकं नीतिपरं सदैव ॥४८॥
॥रात्रिवीर्यप्रबलस्तु सौम्यो
नरं प्रसूते सततं धनाढ्यम् ।
मिष्टान्नपानं प्रियगन्धमाल्यं
सेवाविधज्ञं सुकृतोपचारम् ॥४९॥
स्ववारवीर्येण युतस्तु सौम्यः
करोति मर्त्यं बहुधर्मशीलम् ।
प्रियप्रदानं प्रियदर्शनं च
प्राज्ञं बहुज्ञानविकीर्णबुद्धिम् ॥५०॥
होराबलाढ्यः प्रकरोति सौम्या
नरं नराणामनिशं हितोप्सुम् ।
बहुश्रमक्लेशसह विनात
दुर्धर्षमन्यैः प्रणतारिपक्षम् ॥५१॥
बुधो यदा पक्षबलेन युक्त
स्तदा प्रसूते बहुपक्षयुक्तम् ।
जनप्रियं धर्मपरं सुरूपं
प्रमाथिनं वैरिगणस्य सम्यक् ॥५२॥
॥ऽसवीर्यप्रबलस्तु सौम्यः
करोति मर्त्यं बहुवित्तभाजम् ।
देवद्विजेभ्यो निरतं विनीतं
॥ऽस्विनं स्त्रीसुभगं मनुष्यम् ॥५३॥
सौम्योऽब्दवीर्यप्रबलः प्रसूते
नरं कलाकोविदमद्भुतार्थम् ।
सौ
गान्धर्वशिलं प्रियनृत्यहास्थम् ॥५४॥
स्त्रीहेतुः ।ऽस्तिक्षयक्तिकीर्तिं
जघन्यरक्तं च न सौहृदं च ।
सौम्यः सुहृवीर्यविवर्जितस्तु
नरं उवाते विषयप्रसक्तम् ॥५५॥
वक्षेत्रवीर्येण विवर्जितो ज्ञः
करोति मर्त्यं विगताभिमानम् ।
स्त्रीपानदोषप्रभवैरनर्थै
र्व्याध्यादिविद्वेषयुतं सदैव ॥५६॥
स्वतुङ्गवीर्येण विवर्जितो ज्ञो
नरं प्रसूतेऽतिनिकृष्टचेष्टम् ।
प्रपीडितं वंशसमुद्रवैश्च
दारिरभाजं सततं  कुचैलम् ॥५७॥
नवाम्शवीर्येण विवर्जितो ज्ञः
कठोरवाक्यं जनयेन्मनुष्यम्
॥।एसहजाङ्गरक्तं
विगर्हितं शीलपरिक्रियाधिः ॥५८॥
शुभग्रहालोकनवर्जितो ज्ञः
करोति मर्त्यं सुहृदामनीष्टम् ।
हिंसापरं बह्वृणमल्पकोशं
विरक्तमित्रं विकृतिप्रगल्भम् ॥५९॥
पुंक्षेत्रवीर्येण विवर्जितो ज्ञः
करोति भीरुं सततं हताशम् ।
खलं वधद्रोहकृतानुबनं
स्वाचारसत्यश्रुतिधर्महीनम् ॥६०॥
दिग्वीर्यहीनः प्रकरोति सौम्यो
नरं हताशं नयनष्टतप्तम् ।
युधोत्सुकं चौरगणाधिपं च
क्रियाविहीनं परदेशरक्तम् ॥६१॥
चेष्टाब्लेन प्रविवर्जित्प् चो
नरं सवातेऽतिखलं कुचेष्टम् ।
शठं तथा निष्ठुरवाक्यशिल
विपन्नदारात्मजसंघतन्त्रम् ॥६२॥
६३॥
स्ववारवीर्येण विवर्जितो ज्ञो
नरं प्रसूते बहुकष्टभाजम् ।
।रुज्वसह्यं विफलश्रमार्त
मन्योन्यवैरोपहतात्मजन्तुम् ॥६४॥
होराबलेन प्रविवर्जितो ज्ञो
नरं प्रसूते बहुशत्रुपक्षम् ।
भोगान्वितं दुःखपरीतवृत्तं
द्यूतप्रियं प्रश्रयसौचहीनम् ॥६५॥
स्वपक्षवीर्येण विवर्जितो ज्ञो
नरं प्रसूते मलिनं सुदीनम् ।
प्रभूतदोष सततं रुजार्तं
विहीनपक्षं बहुतर्ककं च ॥६६॥
स्वमासवीर्येण विवर्जितो ज्ञः
करोति मर्त्यं कुटिलस्वभावम् ।
गुरुद्विजावज्ञकरं हितज्ञ
परान्नरक्तं कृपणस्वभावम् ॥६७॥
बुधो यदा वर्षबलेन हीन
स्तदा प्रसूते विधनं मनुष्यम् ।
नानार्थनाशैः परिपिडिताङ्गं
खलानुरक्तं गुरुभक्तिहीनम् ॥६८॥
इति श्रीवृद्धयवने बुधचारः ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:39:40.6270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

phalanx

  • अंगुलास्थि 
  • स्त्री. अंगुलास्थि 
  • (pl. phalanges) 
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site