TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १६

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


ग्रहाणां भावाध्यायः
मूर्तिस्थितः संजनयेहिनेशो
नरं सरोगं विकलं महेर्ष्यम् ।
प्रभूतकोपं जडुशत्रुपक्षम्
प्रभाविहीनं परतर्ककं च ॥१॥
द्वितीयसंस्थः कुरुतेऽर्थहीनं
सूर्यः प्रसिद्धा रहितं कृतघ्नम् ।
श्रद्धाविहीनं विगतस्वभावं
कुमित्रयुक्तं परवाचकं च ॥२॥
सूर्यस्तृतीयः कुरुते मनुष्यं
निरोगदेहं सुतबन्धुहीनम् ।
परोपकारं प्रणतं प्रसिद्धिं
विवेकविधाभ्यधिकं सदैव ॥३॥
चतुर्थगः संजनयेत् कृतघ्नं
हिंस्रं सदा शीलविवर्जिताङ्गम् ।
स्त्रीभिर्जितं युद्धपरं कुदेहं
विवर्जितं सत्यधनेन नित्यम् ॥४॥
सुतस्थितः स्वल्पसुत प्रसूते
दिवाधिनाथः प्रणयेन हीनम् ।
कुकृत्यरक्तं व्यसनाभिभूतं
पित्ताधिकं भूरिविपक्षयुक्तम् ॥५॥
रिपुस्थितो वासरपः प्रसूते
हतारिपक्षं पुरुषं सुरूपम् ।
विनीतवेषं सुजनैः समेतं
प्रियातिथिं बान्धवसंमतं च ॥६॥
कलत्रगस्तिक्ष्णकरः प्रसूते
कुरूपदेहं कुकलत्रभाजम् ।
कफानिलाभ्यां परिपीडिताम्
कामार्तदेहं गतसौहृदं च ॥७॥
 सूर्यः खलु
विदेशरक्तं पुरुषं प्रहीनम् ।
प्रपीडितं क्षुत्प्रभवैश्च रोगै
र्जनानुरागेण विवर्जितं च ॥८॥
धर्माश्रितस्तीक्ष्णकरः प्रसीद्धं
करोति मर्त्यं नृपतेरभीष्टम् ।
परोत्थवित्तेन सदा समेतं
निरस्तधर्मं मतिवर्जितं च ॥९॥
कर्माश्रितो वासरपः प्रसूते
सुकर्मभाजं विनयैः समेतम् ।
प्रभूतमित्रं सुभगं सुकान्तं
नयाधिकं देवगुरुप्रभक्तम् ॥१०॥
लाभाश्रितः संजनयेदिनेशः
प्रभूतलाभं सुभगं निरीहम् ।
सुभोजनाछादनवाहनाढ्यं
प्रियंवदं कामविचक्षणं च ॥११॥
व्ययाश्रितः संजनयेहिनेशो
व्ययैः समेतं कुजनोद्भवैश्च ।
प्रपीडितं वैरिभिरेव नित्यं
कुकर्मरक्तं कुजनं तथैव ॥१२॥
मूर्तिस्थितो रात्रिपतिः प्रसूते
संपूर्णविंशः सुभगं सुकान्तम् ।
तीक्ष्णक्षयाङ्गं बहुपापयुक्तं
विहीनपक्षं गतसौहृदं च ॥१३॥
द्वितीयसंस्थः कुरुते शशाङ्कः
कोशान्वितं सर्वसमृद्धियुक्तम् ।
प्रियंवदं ब्राह्मणदेवभक्तं
महाप्रभावं बहुसौहृदं च ॥१४॥
ताराधिपः संजनयेत्तृतीयः
सुरूपदेहं सुभगं मनोज्ञम् ।
स्त्रीवल्लभं सर्वकलासु दक्षं
प्रजास्वभीष्टं बहुपुत्रपौत्रम् ॥१५॥
सुखस्थितः संजनयेच्छशाङ्कः
प्रभूतसौख्यं पुरूषं प्रधानम् ।
स्त्रीणामभीष्टं गुरुदेवभक्तं
नयप्रधानं गतवैररोगम् ॥१६॥
चन्द्रः सुतस्थः सततं प्रसूते
विद्याधिकं ब्राह्मणदेवभक्तम् ।
शुद्धस्वभावं विजितारिपक्षं
प्रियंवदं पार्थिववल्लभं च ॥१७॥
षष्ठः शशाङ्कः कुरुतेऽल्पजीवं
रोगाधिकं शत्रुनिपीडिताङ्गम् ।
कुरूपदेहं कुधिया समेतं
सौख्यैर्विहीनं परवांचकं च ॥१८॥
कलत्रगः संजनयेच्छशाङ्को
धर्मध्वजं भूरिदयासमेतम् ।
प्रसन्नमूर्तिं विभवान्वितं च
प्रख्यातकीर्तिं सुधिया समेतम् ॥१९॥
चन्द्रोऽष्टमस्थः  कुरूतेऽल्पवीर्यं
स्वल्पायुषं सत्यदयाविहीनम् ।
स्नेहैर्विहीनं परदाररक्तं
वृथाटनं बान्धववर्जितं च ॥२०॥
धर्माश्रितः संजन्येच्छशाङ्कः
प्रभूतमित्रं प्रचुरान्नपानम् ।
प्रसिद्धियुक्तं प्रणतारिपक्षं
प्रशंसितं साधुजनेन नित्यम् ॥२१॥
आकाशसंस्थः कुरुते शशाङ्को
भूपप्रियं बान्धवमानपुष्टम् ।
प्रियातिथिं प्रीतिकरं गुरुणां
सदैव भक्तं वरदेवतानाम् ॥२२॥
लाभाश्रितः संनययेद्धिमांशुः
प्रभूतलाभं खलु शीतरश्मिः ।
सरूपदेहं सुजनानुरक्त
मुदारचिन्तं हतशत्रुपक्षम् ॥२३॥
व्ययाश्रितः शीतकरः  प्रसूते
व्ययैरनिष्टैः सहितं कृतघ्नम् ।
वैरप्रधानं बहुशत्रुपक्षं
स्वल्पायुषं सत्यविहीनवेषम् ॥२४॥
होराश्रितो भूतनयः प्रसूते
रक्तोत्थरोगैः परिपीडिताङ्गम् ।
पित्तानिलाभ्यां सहितं कुरूपं
विहीनशक्तिं मतिवर्जितं च ॥२५॥
धनस्थितो भूतनयः प्रसूते
धनैर्विहीनं जनताविरुद्धम् ।
कठोरवाचानिरतं कुयुद्धिं
प्रभाविहीनं गतसौहृदं च ॥२६॥
करोति भौमः सहजाश्रितश्च
निरोगदेहं विजयप्रधानम् ।
नरेन्द्रमानान्वितमिष्टधर्मं
प्रभूतकोपं सततं सुदान्तम् ॥२७॥
सुखस्थितः संजनयेश्च वक्रः
सुखैर्विहीनं हतवीर्यमेव ।
सुबुद्धिहीनं गतबन्धुवर्गं
व्ययाश्रितं कामपरं मनुष्यम् ॥२८॥
सुतथितः संजनयेश्च वक्रः
सुतैर्विहीनं पुरुषं सदैव ।
पापैः समेतं परतर्ककं च
विद्याविहीनं गतसौहृदं च ॥२९॥
रिपुस्थितः संजनयेधतारिं
कुलप्रधानं प्रियदर्शनं च ।
संश्लाघितं साधुजनेन नित्यं
विनीतवेषं सततं सुशीलम् ॥३०॥
कलत्रसंस्थः क्षितिजः प्रसूते
विदेशभाजं कुकलत्रयुक्तम् ।
विवादशीलं बहुशत्रुपक्षं
नीचानुरक्तं प्रियसाहसं च ॥३१॥
मृत्युस्थितः संजनयेत् क्षितीजः
शस्त्रार्तदेहं प्रभया समेतम् ।
कुपार्थिवास।ममित्रचेष्ठं
कृपाविहीनं गतसौहृदं च ॥३२॥
धर्माश्रितः संजनयेत् कुधर्मं
भौमं कुमित्रं गतबन्धुवर्गम् ।
भाग्यैर्विहीनं विगताभिमानं
प्रतप्त मतिवर्जितं च ॥३३॥
कर्माश्रितो भूतनयः प्रसूते
कुकर्मरक्तं कुधिया समेतम् ।
जनाप्वादे निरतं कृतघ्नं
वृथाश्रमं बान्धवनिन्दितं च ॥३४॥
लाभाश्रितः पार्थिवलाभपुष्टं
नरं प्रसूते क्षितिपं सदैव ।
हतारिपक्षं निजबन्धुमान्यं
प्रशस्यशीलं प्रथिताभिमानम् ॥३५॥
व्ययाश्रितः संजनयेत् क्षितिजो
व्ययाधिकं भूरिरिपुप्रयुक्तम् ।
प्रभूतपापव्यसनैः समेतं
मर्षाधिकं धर्मविवर्जितं च ॥३६॥
तनुस्थितः सोमसुतः सुवाते
प्राज्ञधिकं मानिनमिष्टधर्मम् ।
महाप्रभावं वृजिनैर्विहीनं
गुणोत्कटं पार्थिवसंमतं च ॥३७॥
धनस्थितः संज्नयेच्छशाङ्कं
प्रभूतकोशं स्वजनानुरक्तम् ।
प्रियंवदं ब्राह्मणदेवभक्तं
मनस्विनं कीर्तिकर सदैव ॥३८॥
तृतीयगः सोमसुतः प्रसिद्धं
नरं प्रसूते प्रणतं विनीतम् ।
प्रभूतमित्रं प्रमदान्वभीष्टं
मायाप्रपंचैः रहितं निरीहम् ॥३९॥
बुधो विधत्ते बहुबुद्धियुक्तं
पातालगः पुष्टशरीरिणं च ।
कृषिप्रियालाभसुखं ॥
व्याधिप्रमुक्तं परमर्दनं च ॥४०॥
स्वल्पात्मजं संजनये
सुतस्थितः सोमसुतोऽल्पवीर्यम् ।
कीनाशमर्त्यं बहुपापसक्तं
क्षुधालिमिष्टैः परिवर्जितं च ॥४१॥
रिपुस्थितो भूरिरिपुं प्रसूते
बुद्धां विरुद्धं कलहप्रयुक्तम् ।
प्रियामिषं ब्राह्मणभक्तिहीनं
सदातुरं कामनिपीडितं च ॥४२॥
कलत्रगः सोमसुतः सुसत्यं
नरं प्रसूते लघुभोगभाजम् ।
पतिव्रताकान्तमभीष्तहीनं
परोपकारं प्रणतं सदैव ॥४३॥
रन्ध्रान्वितो रन्ध्रयुतं नितान्तं
बुधः प्रसूते सरुजं मनुष्यम् ।
कफानिलाभ्यं परिपीडिताङ्गं
कृशंविवर्णं कुलघातकं च ॥४४॥
भाग्याश्रितः सत्यगुणैः समेतं
चन्द्रात्मजः प्रीतिकरं मनुष्यम् ।
जितेन्द्रियं साधुजनानुरक्तं
कृषिप्रधानं च प्रगल्भमेव ॥४५॥
नभस्तलस्थः कुरुतेऽथ चन्द्रः
सुरूपदेहं सुभगं सुशीलम् ।
शय्यासनाछादनवाहनाढ्यं
स्त्रीणामभीष्टं सुनयान्वितं च ॥४६॥
आयस्थितः संजनयेनमनुष्यं
बुधो विवेकाढ्यमतीवकान्तम् ।
रोगप्रमुक्तं प्रथिताभिमानं
नृपक्रियाकृत्यविचक्षणं च ॥४७॥
व्ययाश्रितो भूरिदरिद्रभाजं
बुधः प्रसूते विषयप्रसक्तम् ।
पराभिभूतं निजबन्धुवर्गैः
कुरूपदेहं कुधिया युतं च ॥४८॥
जीवः प्रसूते तनुगः सुकान्तं
सौभाग्योपचितं दयालुम् ।
प्रसिद्धियुक्तं हतशत्रुपक्षं
सुकीर्तिकर्तारमतीव हृष्टम् ॥४९॥
कोशाश्रितः स्यात् सुरराजमन्त्री
सुवित्तदाता च सुखप्रदश्च ।
नाशाय पापस्य च शत्रुराशेः
परोपजातस्य च दूषणाय ॥५०॥
तृतीयगो देवपतिप्रपूज्यो
मेधान्वितं संजनयेत् सुविश्चम् ।
कुलप्रधानं प्रमदानुमान्यं
प्रसिद्धमुर्वितलमण्डनं च ॥५१॥
सुखाश्रितः संजनयेत् सुसौ।ं
देवेशमन्त्री नृपतेरभीष्टम् ।
प्रियातिथिं बान्धवलोकमान्यं
प्रभूतयानासनभोजनं च ॥५२॥
॥ सुरराज्मन्त्री
सुतस्थितः संजनयेन्मनुष्यम् ।
प्रख्यातियुक्तं प्रभया समेतं
प्रियंवदं ब्राह्मणसंमतं च ॥५३॥
षष्ठाश्रितो भूरिरिपुप्रयुक्तं
करोति मर्त्यं बहुरोगयुक्तम् ।
विदेशसेवानिरतं कृतघ्नं
सदैव सूते जडतासमेतम् ॥५४॥
सुरूपदारं सुमतिं सुशीलं
कामाश्रितो देवगुरुः प्रसूते ।
प्रख्यातकीर्तिं वृजिनेन हीनं
सत्याश्रितं देवगुरुप्रभक्तम् ॥५५॥
मृत्युस्थितो देवगुरुः प्रसूते
खलं  सुबुद्धा रहितं मनुष्यम् ।
विद्याविवेकागमद्भषकं च
प्रभाविहीनं परवंचनोक्तम् ॥५६॥
धर्माश्रितो देवगुरुः सुवाते
धर्ममिणं सत्यदयासमेतम् ।
नानाधणैः संयुतमिष्टब्न्धुं
प्रतापीनं साधुजनप्रसक्तम् ॥५७॥
कर्माश्रितो देवगुरुः प्रसूते
सुकर्मभाजं जनताप्रधानम् ।
नरेन्द्रमान्यं प्रभुतासमेतं
देवद्विजानां निरतं निरीहम् ॥५८॥
लाभाश्रितो लाभपरं प्रसक्तं
सदैव सूतो सुररानमन्त्री ।
प्रभूतयानासनवित्तशंसा
सुपूर्णहर्म्यं प्रमदाप्रियं च ॥५९॥
गुरुः प्रसूते व्ययगो मनुष्यं
विद्वेशशीलं परवित्तलुब्धम् ।
इर्ष्याधिकंपापजनानुरक्तं
कृशं कृतघ्नं परवंचकं च ॥६०॥
शुक्रस्तनुस्थः सुतनु प्रसूते
शास्त्रानुरक्तं प्रचितप्रभावम् ।
प्रियंवदं सर्वकलासु ॥
क्षतारिपक्षं विनयान्वितं च ॥६१॥
द्वितीयगो भार्गव एव धत्ते
धनं विचित्रं सुजननानुरागम् ।
सर्वणमुक्तामणिवस्त्रलाभं
विमुक्तरोगं हतपापचेष्टम् ॥६२॥
शुक्रम्तृतीयः प्रणतारिपक्षं
नरं प्रसूते सुसुतं सुदान्तम् ।
तेजविनं भूरिदयासमेतं
सुरूपगात्रं विनयान्वितं च ॥६३॥
सुखाश्रितो भार्गवनन्दनश्च
सुखानि सर्वाणि करोति नित्यम् ।
रोगक्षयं साधुजनेन सुख्य
सदानुरक्तं गुरुदेवतानाम् ॥६४॥
करोति शुक्रः खलु पंचमस्थः
सुतान् विचित्रान् प्रचुरप्रधानम् ।
वचातिमुख्यान् न च सर्वकालं
प्रभूतमग्न्यान् प्रचुरप्रभावान् ॥६५॥
षष्ठो भृगुः संजनयेत् कुरूपं
प्रज्ञाविहीनं जहताप्रधानम् ।
स्वल्पायुषं स्वल्पधिया समेतं
सत्यक्तशौचं निजभृत्ययुक्तम् ॥६६॥
कामाश्रितः संजनयेत् प्रसीद्धं
शुक्रः सुमूर्तिं सुकलत्रभाजम् ।
सत्याधिकं भूरिदयासमेतं
प्रशंसितं साधुजनैः सदैव ॥६७॥
शुक्रोऽष्टमस्थः कुरुतेऽल्पसत्यं
विदेशरक्तं व्यसनाभिभूतम् ।
स्वल्पायुषं बन्धुजनैर्विमुक्तं
सदारियुक्तं गुरुदेवकृत्यम् ॥६८॥
भाग्यस्थितः संजनयेन्मनुष्यं
भाग्यैः समेतं विविधैः सदैव ।
प्रभूतलाभं प्रचुराभिमानं
प्रसिद्धियुक्तं प्रणतारिपक्षम् ॥६९॥
शुक्रः प्रसूते खलु कर्मसंस्थः
सुकर्मभाजं सुधनं मनुष्यम् ।
सुशीलमाढ्यं सुसुतं सुतातं
सदैव सिद्धान्वितमिष्टधर्मम् ॥७०॥
आयस्थितो दैत्यगुरुः प्रसूते
प्रभूतमायुष्यमुदारचेष्टम् ।
कन्याप्रजं पार्थिवमानयुक्तं
भुप्रसिद्धं प्रभुतासमेतम् ॥७१॥
करोति शुक्रो व्ययगे मनुष्यं
व्ययाधिकं वीर्यविहीनचेष्टम् ।
कन्याप्रजं वित्तविहीनमुग्रं
विवर्जित शीलतनया च नित्यम् ॥७२॥
मन्दतनुस्थः कुरुते सुमन्दं
नीचाश्रयं पापक्थानुरक्तम् ।
रौद्राकृतिं रोगनिपीडिताङ्गं
विहीनसत्यं कुमतिं सदैव ॥७३॥
धनस्थितः सूर्यसुतः प्रसूते
धनैर्विहीनं बहुशत्रुभाजम् ।
नानाप्रकारैर्व्यसनैः समेतं
कृशं विवर्णं गतिवर्जितं च ॥७४॥
दीर्घायुषं सर्वकलास दक्षं
प्रसन्नचिन्त  ।
सौरस्तृतीयः कुरुते सुकर्यं
वित्तान्वितो ॥विवर्जितं च ॥७५॥
चतुर्थगः संजनयेन्मनुष्यं
शनैश्चरः सौख्यविवर्जिताङ्गम् ।
विदेशवासं च पराभिभूतं
सुदीनवृत्तिं निजबन्धुहीनम् ॥७६॥
करोति सौरः खलु पंचमस्थः
कुमित्रभाजं च कुमित्रयुक्तम् ।
विहीनकोशं विगतप्रतापं
विवर्जितं सर्वसुखेन नित्यम् ॥७७॥
सौरो रिपुस्थो विगतारिपक्षं
करोति मर्त्यं नृपतेरभीष्टम् ।
सद्भोजनाछादनयानयुक्त
स्वधर्मरक्तं सुधिया समेतम् ॥७८॥
कलत्रगः सूर्यसुतो विधत्ते
कुदाररक्तं कुधिया समेतम् ।
पापानुरक्तं विनयेन हीनं
कुसङ्गतिं शास्त्रविवर्जितं च ॥७९॥
मन्दोऽष्टमस्थो बहुमत्तयुक्तं
सदा प्रसूते विगतप्रभावम् ।
रक्तप्रकोपपेन निपीडिताङ्गं
धिया विहीनं परतर्ककं च ॥८०॥
धर्माश्रितः संजनयेत् सदार्किः
सत्यक्तधर्मं जनताविरुधम् ।
इर्ष्याधिकं वित्तधिया विहीनं
प्रभूतकोपं सुखवर्जिताङ्गम् ॥८१॥
शनैश्चरः कर्मगतः प्रसूते
सुकर्मभाजं सुकलत्रयुक्तम् ।
स्थिरस्वभावं सुनयप्रधानं
नरेन्द्रपूज्यं प्रचुरप्रतापम् ॥८२॥
शनैश्चरो लाभगतः प्रसूते
विचित्रलाभैः सहितं निरीहम् ।
शास्त्रानुरक्तं विजितारिपक्षं
प्रशांसितं साधुजनैः सदैव ॥८३॥
करोति सौरि व्ययगो विकोश
मसद्व्ययं पापरतं कुमित्रम् ।
सदैव दीनं परपीडिताङ्गं
साधुप्रचारैः सकलैर्विहीनम् ॥८४॥
इति श्रीवृद्धयवने ग्रहाणां भावाध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:35:28.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

preliminary survey

  • प्रारंभिक सर्वेक्षण 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site