TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पूर्वखण्डः - अध्याय १९

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


भौमचाराध्यायः
मेषे तु भौमो रभसं प्रचण्दं
शुरं नरं साहसकर्मशीलम् ।
तेजस्विनं सात्त्विकमुग्रधृष्यं
दुर्मषणं दिनपरं प्रसूते ॥१॥
वृषे स्वब्न्धुप्रतिबुद्धवैरं
भौमः पुत्रोत्साहकरं प्रसूते ।
सुदुष्टशीलं बहुदुःप्रलापं
प्रभक्षणे मन्दधनात्मजं च ॥२॥
सन्तुष्तमानो मिथुने प्रसूते
भौमो मनुष्यं बहुलप्रवासम् ।
नानार्थशिल्पासु कलासु दक्षं
बहुश्रुतं वाक्यतिशारदं च ॥३॥
स्थितः कुजः कर्कतके कृशार्थं
कुर्वीत वैकल्परुगार्दिनं च ।
पुनः पुनर्वर्धितनिःकृताथ
नरं परावेशनविश्रुतं च ॥४॥
अङ्गारकः सिंहमुपेत्य सूते
नरं वपुष्मन्तमुदग्रसत्त्वम् ।
अमर्षिणं शूरमतिप्रचण्डं
परप्रहर्तारमसंशयं च ॥५॥
कन्यां गतो लोहितमूर्तिरा
पूज्यं सतामार्जवमल्पशौर्यम् ।
प्रियप्रतापं परगीतदक्षं
नरं प्रसूतेविविधव्ययं च ॥६॥
तुलाधरस्यस्तु कुजोऽध्वशीलं
प्रसक्तवाक्यं जनयत्यनिष्टम् ।
विकत्थनं बह्वनृतं कुपुण्य
हीनाङ्गंमुत्सादितपूर्वमित्रम् ॥७॥
भौमोऽष्तमे पापमतिं कुवृत्तं
कर्यान्नरं बह्वपराधवैरम् ।
शठं वधद्रोहकृतानुबन्ध
माचारसत्यं भृतधर्मशीलम् ॥८॥
होरां गतो धन्विनि लोहिताङ्गो
बहुक्षतं क्षीणतनुं प्रसूते ।
शठं नरं निष्ठरवाक्यशीलं
विपन्नदारात्मजमस्वतन्त्रम् ॥९॥
मृगे तु भौमः सुखिनं सुकान्तं
निरन्तरं श्रेष्ठतमम् प्रसूते ।
धन्यं धनोपार्जणतो रमाढ्यं
चमूपतिं वा मनुजेश्वरं वा ॥१०॥
कुम्भे तु भौमो विकृतं मनुष्यम्
सूते नरं दुर्भगदर्शनं च ।
पैशून्यवादानृतवंचनादि
दोषैरजस्त्रोपहतं मनुष्यम् ॥११॥
तिष्ठन् कुजो मीनगतो रुजार्तं
प्रवासिनं मन्दसुतं प्रसूते ।
बहुद्विजाभ्यर्थनवंचनादि
विपन्नसर्वस्वमतिक्ष्णरागम् ॥१२॥
होराश्रितो वासपस्य भौमो
वधप्रियं साहसकर्मशीलम् ।
नरं सुवाते बहुरोगयुक्तं
पित्ताश्रितं तप्ततनुं नितान्तम् ॥१३॥
होराश्रितो रात्रिपतेर्महीजः
करोति मर्त्यं विनयेन युक्तम् ।
भोक्तारमाढ्यं व्यवहारशीलं
गतप्रसूतं विगतारिपक्षम् ॥१४॥
मुखाशिरोगौपहतं सुशीलं
स्वल्पात्मजं क्लेशपरं खलं च ।
त्र्यांशे कुजो वासरपस्य तिष्ठन्
करोति मर्त्यं विगतप्रतापम् ॥१५॥
क्रूरं खलं द्वेषिणमिष्टधर्मं
ख्यातं नृपाणां स्वगुणैरुदारैः ।
त्र्यंशे चरन् रात्रिपतेर्नहीजो
नरं प्रसूते विगतारिपक्षम् ॥१६॥
स्वत्र्यंशभागे विचरन् महीजो
दुःखं प्रसूते विकृतं मनुष्यम् ।
सरह्यरागातमसश्च सख्यं
विद्वेषीणं साधुजनस्य नित्यम् ॥१७॥
द्रेष्काणके स्वे विचरन् महिजः
करोति मर्त्यं बहुरोगयुक्तम् ।
परान्नरक्त प्रचुरप्रकोपं
गतप्रताप सततं कुशीलम् ॥१७अ॥
त्र्यंशे कुजः सोमसुतस्य तिष्ठन्
गम्भीरसत्त्वस्थितिमृद्धिमन्तम् ।
नरं प्रसूते बहु उ ॥
नरेन्द्रसन्मानसमन्वितं च ॥१८॥
त्र्यंशे गुरोर्भूमिसुतः प्रसूते
नरं विदग्धं प्रथितं कुवेषम् ।
सुश्रूषकं देवगुरुद्विजानाम्
।चिन्तं मतिमन्तमेव ॥१९॥
त्र्यंशे कुजो भार्गव
नरं प्रसूते वनितास्वभीष्टम् ।
हिरण्यलोहप्रधनं प्रसिद्धिं
क्रियासु चाभिप्रयतं प्रगल्भम् ॥२०॥
नवांशके वासरपस्य भौमो
लुब्धं कुयोषिद्गतसङ्गवित्तम् ।
तिष्ठन् विधत्तेऽल्पसुखं मनुष्यं
हृद्रोगिणं बह्वशनं शठं च ॥२२॥
नवांशकस्यः प्रकरोति भौम
श्चन्द्रस्य कान्तासुखमानयुक्तम् ।
सुहृद्विजातिच्यपरं प्रशान्तं
पूज्यं सतां बन्धुहिते रतं च ॥२३॥
नवांशके स्वे विचरन् महीजः
करोति मर्त्यं बहुरोगयुक्तम् ।
परान्नरक्त प्रचुरप्रकोप
गतप्रतापं सततं कुशीलम् ॥२४॥
बुधस्य भौमः प्रचरन्नवांशे
करोति मर्त्यं प्रणतं द्विजानाम् ।
द्रव्यान्वितं धीरमुदारसत्त्वं
विस्तीर्णसत्त्वं सुभगं सुखाढ्यम् ॥२५॥
गुरोनवांशे विचरन् महीजः
करोति मर्त्यं विविधान्नपानम् ।
शूरं प्रचण्डं रणरङ्गरक्तं
गतद्विषं यानवरैः समेतम् ॥२६॥
शुक्रस्य भागे नवमे तु भौमः
करोति मर्त्यं रतिलुब्धसौख्यम् ।
सुहृद्गुरुप्रीतिकरं सुवाक्यं
सुसाधरक्तं बहुभृत्ययुक्तम् ॥२७॥
शनेर्नवांशे विगतो महीजे
नरं सुवाते बहुपापयुक्तम् ।
गुह्याशिरोगोपहतं सुदुष्तं
प्रियाविहीनं परतर्ककं च ॥२८॥
पतिप्रियं कूटरतं कुशिलम्
चरस्थित बह्वृणबन्धनं च ।
सूर्यांशके वासरपस्यं भौमो
नरं प्रसूते विदेधूर्तचेष्टम् ॥२९॥
सूर्यांशके रात्रिचरस्य भौमो
नरं प्रसूते सुवपुः सुकान्तम् ।
प्राचं बहुब्रातरमूर्जितं च
३०॥
द्वादशांशे विचरन् महिजः
स्त्रीदुर्भगं प्रेष्यकमस्वतन्त्रम् ।
स्त्रीरूपतुल्याकृतिकर्मयुक्त
मसृग्रुगार्तं व्यसनैः समेतम् ॥३१॥
व्यायामश्य्याम्बरभूषणाढ्यं
ख्यातं स्थिरस्फीतवराङ्गनं च ।
सूर्यांशके सोमसुतस्य भौमो
नरं प्रसूते नृपपीडितस्वम् ॥३२॥
प्रख्यातबुद्धिं सुखिनं स्वतन्त्रं
कविं विवादेऽप्यनिवारितं च ।
सूर्यांशके देवगुरोः कुजश्च
प्रभूतवित्तं सुभगं प्रसूते ॥३३॥
स्त्रीणामभीष्टं मधुरं विनीतं
दानोपचारादरमानयुक्तम् ।
सूर्यांशके भूमिसुतो भृगोश्च
करोति नित्यं प्रणतारिपक्षम् ॥३४॥
स्वबन्धुविद्वेषविवादशीलं
बहुप्रलाप चपल कुशालम् ।
सूर्यांशकस्थो रविजस्य भौमः
करोति मर्त्यं कलहानुरक्तम् ॥३५॥
अनेकदिक्पदृनवेश्मचेष्टं
बहुव्ययानर्थपरं सदैव ।
त्रिंशल्लवे स्वे प्रकरोति भौमो
नरं कुरूपं व्यसनैः समेतम् ॥३६॥
लुब्धं परस्त्रीनिरतं सदैव
विद्वेषिणं दुर्वनितापतिं च ।
त्रिंशांशके सूर्यसुतस्य भौम
स्तिष्ठन् विधत्ते विकृतं मनुष्यम् ॥३७॥
यशव्रताध्यायनदानशीलं
पुरोहित पार्थिवमन्त्रिणं च ।
त्रिंशांशके देवगुरोर्महीजः
करोति मर्त्यं बहुधर्मयुक्तम् ॥३८॥
दातारमिष्टाम्बरगन्धमाल्पं
बहुप्रजं बन्धिहितं सदैव ।
त्रिंशल्लव सोमसुतस्य तिष्ठन्
कुजो विधत्ते सुखदं प्रसूते ॥३९॥
आलोख्यविधानिपुणं सुशीलं
वाधप्रियं गीतविशारदं च ।
त्रिंशल्लवे वै भृगुजस्य भौमो
नरं प्रसूते बहुपुत्रयुक्तम् ॥४०॥
भौमो यदा मित्रबलेन युक्तः
करोति मर्त्यं सुहृदैः समेतम् ।
प्रभूतसौख्येन युतं सुरूपं
गुरुद्विजाचार्यपरायणं च ॥४१॥
स्वक्षेत्रविर्येण युतो महीज
करोति मर्त्यं सुतमानयुक्तम् ।
स्त्रीभूषणश्चं रतिभूरिदक्षं
कलालिपिज्ञं मधुरं गतारिम् ॥४२॥
विधागमाढ्यं सुतवित्तयुक्तं
सुपुण्यशीलं निपुणप्रयोगम् ।
स्वतुङ्गवीर्येण युतस्तु भौमः
करोति मर्त्यं प्रणतं द्विजानाम् ॥४३॥
देवद्विजाभ्यर्थनलब्धकीर्तिं
शूरं सतामाश्रयमाप्तविधम् ।
भौमः स्वनवांशकवीर्ययुक्तः
करोति मर्त्यं नृपमानयुक्तम् ॥४४॥
सुवृत्तदार गतशत्रुक्ष
कविं नृपामात्यमहत्तरं वा ।
शुभग्रहालोकनवीर्ययुक्तो
भौमः प्रसूते सुभगं मनुष्यम् ॥४५॥
पुंक्षेत्रवीर्येण युतस्तु भौमो
नरं प्रसूते द्विजदेवभक्तम् ।
प्रभूतगोजातहिरण्यधान्यं
बह्वङ्गनानन्दनमद्भुतार्थम् ॥४६॥
दिग्वीर्ययुक्तः प्रकरोति भौमो
नरं प्रसूते सततं सुशीलम् ।
कात्ताश्रमं क्लेशसहं विनीतं
आन्वितं धर्मपरायणं च ॥४७॥
चेष्टाबलाढ्यः प्रकरोति भौमो
नरं प्रसूते सततं कुमेष्टम् ।
हितानुकूलं सुहृदां सतं च
नैपुण्ययुक्तं निपुणं क्रियासु ॥४८॥
भौमो यदा रात्रिबलेन युक्त
स्तदा प्रसूते सुभगं मनुष्यम् ।
आरामवापीकरणानुरक्तं
स्त्रीलाभयक्तं प्रचुरान्नयुक्तम् ॥४९॥
स्ववारवीर्यप्रबलो महीजः
स्मृतिश्रुताचारमतिं सुशीलम् ।
नरं सुवाते बहुभोगभाजं
कान्तं प्रियं स्थानविलोपनं च ॥५०॥
होराबलाढ्यः प्रकरोति भौमो
नरं नितान्तं स्मृतिशास्त्रविचम् ।
प्रभूतगोभूमिसुताङ्गनाढ्यं
प्रियं वदं सर्वसहं मनुष्यम् ॥५१॥
प्रख्यारमत्यन्तसुखापभोगं
जितारिमारक्षकसाधुदारम् ।
स्वमासवीर्येण युतो महीजो
नरं विधत्ते दयितं नृपाणाम् ॥५२॥
आरो यदा वर्षबलेन युक्तः
करोति मर्त्यं धनधान्ययुक्तम् ।
हतत्विषं तुष्तीपरं सहीष्णुं
प्रियंवदं सर्वजनानुकूलम् ॥५३॥
भौमो यदा पक्षबलेन पुष्ट
स्तदा प्रसूते विगतारिपक्षम् ।
प्रभुं प्रसिद्धं क्षुतिमानयुक्तं
शूरं धनाढ्यं स्वकुलप्रधानम् ॥५४॥
भौमो यदा मित्रबलेन हीन
स्तदा कुमित्रं जनय्न्मनुष्यम् ।
खलं कुरूपं धनधान्यहीनं
देवद्विजानां च तथा विरक्तम् ॥५५॥
स्वक्षेत्रवीर्येण विवर्जितस्तु
भौमोऽतिकष्टं विदधाति मर्त्यम् ।
स्त्रीवल्लभं बन्धुजनव्यपेतं
गताथशाक्तं विजितं विपक्षैः ॥५६॥
स्त्रीपानदोषप्रभवैरनथ
र्व्ययादिदोषैः कलहैर्विचित्रैः ।
संपीड्यते सर्वजनैर्मनुष्यो
भौमो यदा तुङ्गबलेन हीनः ॥५७॥
विंशवीर्येण विवर्जितस्तु
भौमः प्रसूते सुहृजं मनुष्यम् ।
प्रपीडितं शत्रुकृतैर्विकारः
पराभवैर्मित्रकृतैस्तथैव ॥५८॥
शुभग्रहालोकनवीर्यहीनः
करोति मर्त्यं विकृताङ्गमेव ।
विमुक्तधर्मं सहजापरक्तं
विगर्हितं शीलपरिच्युतं च ॥५९॥
स्वक्षेत्रवीर्यप्रविवर्जितस्तु॥
भौमः प्रसूते
हिंसापरं बह्वृणशून्यकोशं
श्रिया विमुक्तं रतिहीनसौख्यम् ॥६०॥
आशाबलेनैव विवर्जितस्तु
भौमः प्रसूते ह्यधनं मनुष्यम् ।
वृद्धाङ्गनासेवनमध्वशीलं
परार्थचेष्टास्वतिकष्टभाजम् ॥६१॥
हृद्रोगिणं दुर्बलदेहयन्त्रं
मूर्छास्मृतिं नीचर्पारग्रहं च ।
॥बलेन प्रविवर्जितस्तु
भौमः प्रसूते विगताभिमानम् ॥६२॥
विमुक्तधर्मं विगतप्रभावं
द्यूतप्रियं पापरतं कुशीलम् ।
सदा विहीनः प्रकरोति मर्त्यं
भौमः सदा शत्रुविमर्दितं च ॥६३॥
स्ववारवीर्यप्रविवव्र्जितस्तु
भौमः प्रसूते विकृतं मनुष्यम् ।
सानोपभोगाभरणाइबाह्यं
पराङ्गनोपासनकर्मशीलम् ॥६४॥
राङ्गनासङ्गमसक्तभाष्यं
वीव्रतघ्नं वसुदारण च ।
होराबलैर्हीनउश्च भौमः
करोति मर्त्यं व्यसनैः समेतम् ॥६५॥
द्वेष्यं जगत्यद्भुतवेषचेष्टं
विहीनसत्यं सुखलं कृतघ्नम् ।
भौमो यदा मासबलेन हीन
स्तदा प्रसूते सरुजं मनुष्यम् ॥६६॥
अनात्मजं कर्मविपक्षदारं
पापोधतं धर्मफलव्यपेतम् ।
करोति भौमोऽब्दबलेन हीनो
नरं नितान्तं प्रियसाहसं च ॥६७॥
शठं परोपासनसङ्गहेप्सुं
सुहृदमं स्त्रीगमनोर्सुकं च ।
स्वपक्षवीर्येण विवर्जितस्तु
भौमः प्रसूतेऽतिविकर्मशीलम् ॥६८॥
इति श्रीवृद्धयवने भौमचारः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-10T13:38:29.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rural-urban relationship

  • ग्रामीण-नागरी संबंध 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site