संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः २३ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः २३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता सुदर्शनोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -एकदा नृप गोपालाः शकटै रत्नपूरितैः ।वृषभानूपनन्दाद्या आजग्मुश्चांबिकावनम् ॥१॥भद्रकालीं पशुपतिं पूजयित्वा विधानतः ।ददुर्दानं द्विजातिभ्यः सुप्तास्तत्र सरित्तटे ॥२॥तत्रैको निर्गतो रात्रौ सर्पो नन्दं पदेऽग्रहीत् ।कृष्ण कृष्णेति चुक्रोश नन्दोऽतिभयविह्वलः ॥३॥तदोल्मुकैर्गोपबालास्तोदुराजगरं नृप ।पदं सोऽपि न तत्याज सर्पोऽथ स्वमणिं यथा ॥४॥तताड स्वपदा सर्पं भगवान् लोकपावनः ।त्यक्त्त्वा तदैव सर्पत्वं भूत्वा विद्याधरः कृती ।नत्वा कृष्णं परिक्रम्य कृतांजलिपुटोऽवदत् ॥५॥सुदर्शन उवाच -अहं सुदर्शनो नाम विद्याधरवरः प्रभो ।अष्टावक्रं मुनिं दृष्ट्वा हसितोऽस्मि महाबलः ॥६॥मह्यं शापं ददौ सोऽपि त्वं सर्पो भव दुर्मते ।तच्छापादद्य मुक्तोऽहम् कृपया तव माधव ॥७॥त्वत्पादपद्ममकरंदरजःकणानांस्पर्शेन दिव्यपदवीं सहसागतोऽस्मि ।तस्मै नमो भगवते भुवनेश्वराययो भूरिभारहरणाय भूवोऽवतारः ॥८॥श्रीनारद उवाच -इति नत्वा हरिं कृष्णं राजन् विद्याधरस्तु सः ।जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ॥९॥नंदाद्या विस्मिताः सर्वे ज्ञात्वा कृष्णं परेश्वरम् ।अंबिकावनतः शीघ्रमाययुर्व्रजमंडलम् ॥१०॥इदं मया ते कथितं श्रीकृष्णचरितं शुभम् ।सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥११॥बहुलाश्व उवाच -अहो श्रीकृष्णचन्द्रस्य चरितं परमाद्भुतम् ।श्रुत्वा मनो मे तच्छ्रोतुमतृप्तं पुनरिच्छति ॥१२॥अग्रे चकार कां लीलां लीलया व्रजमंडले ।हरिर्व्रजेशः परमो वद देवर्षिसत्तम ॥१३॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेसुदर्शनोपाख्यानं नाम त्रयोविंशोऽध्यायः ॥२३॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP