संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः २० माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता प्रलम्बवधम् Translation - भाषांतर श्रीनारद उवाच -इति कृष्णस्तवं श्रुत्वा मान्धाता नृपसत्तमः ।अयोध्यां प्रययौ वीरो नत्वा श्रीसौभरिं मुनिम् ॥१॥इदं मया ते कथितं गोपीनां चरितं शुभम् ।महापापहररं पुण्यं किं भूयः श्रोतुमिच्छसि ॥२॥बहुलाश्व उवाच -श्रुतं तव मुखाद्ब्रह्मन् गोपीनां वर्णनं परम् ।यमुनायाश्च पंचांगं महापातकनाशनम् ॥३॥श्रीकृष्णः सबलः साक्षाद्गोलोकाधिपतिः प्रभुः ।अग्रे चकार कं लीलां ललितां व्रजमंडले ॥४॥श्रीनारद उवाच -एकदा चारयन्गाः स्वाः सबलो गोपबालकैः ।भांडीरे यमुनातीरे बाललीलां चकार ह ॥५॥विहारं कारयन् बालैः वाह्यवाहकलक्षणम् ।विजहार वने कृष्णो दर्शयन्गा मनोहराः ॥६॥तत्रागतो गोपरूपी प्रलंबः कंसनोदितः ।न ज्ञातो बालकैः सोपि हरिणा विदितोऽभवत् ॥७॥विहारे विजयं रामं नेतुं कोऽपि न मन्यते ।ऊवाह तं प्रलंबोऽसौ भांडीराद्यमुनातटम् ॥८॥अवरोहरणतो दैत्यो मथुरां गंतुमुद्यतः ।दधार घनवद्रूपं गिरीन्द्र इव दुर्गमः ॥९॥बभौ बलो दैत्यपृष्ठे सुन्दरो लोलकुण्डलः ।आकाशस्थः पूर्णचन्द्रः सतडिज्जलदो यथा ॥१०॥दैत्यं भयंकरं वीक्ष्य बलदेवो महाबलः ।रुषाऽहनन्मुष्टिना तं शिरस्यद्रिं यथाऽद्रिभित् ॥११॥विशीर्णमस्तको दैत्यो यथा वज्रहतो गिरिः ।पपात भूमौ सहसा चालयन् वसुधातलम् ॥१२॥तज्ज्योतिर्निर्गतं दीर्घं बले लीनं बभूव ह ।तदैव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः ॥१३॥अभूज्जय जयारावो दिवी भूमौ नृपेश्वर ।एवं श्रीबलदेवस्य चरितं परमाद्भुतम् ।मया ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥१४॥बहुलाश्व उवाच -कोऽयं दैत्यः पूर्वकाले प्रलंबो रणदुर्मदः ।बलदेवस्य हस्तेन मुक्तिं प्राप कथं मुने ॥१५॥श्रीनारद उवाच -शिवस्य पूजनार्थं हि यक्षराट् स्ववने शुभे ।कारयामास पुष्पाणां रक्षां यक्षैरितस्ततः ॥१६॥तदप्यस्यापि जगृहुः पुष्पाणि प्रस्फुरंति च ।ततः क्रुद्धो ददौ शापं यक्षराड् धनदो बली ॥१७॥ये गृह्णंत्यस्य पुष्पाणि स्वे चान्ये सुरमानवाः ।भवितारोऽसुराः सर्वे मच्छापात् सहसा भुवि ॥१८॥हूहूसुतोऽथ विजयो विचरन् तीर्थभूमिषु ।वनं चैत्ररथं प्राप्तो गायन् विष्णुगुणान्पथि ॥१९॥वीणापाणिरजानन्वै गन्धर्वः सुमनांसि च ।गृहीत्वा सोऽसुरो जातो गन्धर्वत्वं विहाय तत् ॥२०॥तदैव शरणं प्राप्तः कुबेरस्य महात्मनः ।नत्वा तत्प्रार्थनां चक्रे कृतांजलिपुटः शनैः ॥२१॥तस्मै प्रसन्नो राजेन्द्र कुबेरोऽपि वरं ददौ ।त्वं विष्णुभक्तः शांतात्मा मा शोकं कुरु मानद ॥२२॥द्वापरांते च ते मुक्तिः बलदेवस्य हस्ततः ।भविष्यति न सन्देहो भांडीरे यमुनातटे ॥२३॥श्रीनारद उवाच -हूहूसुतः स गन्धर्वः प्रलंबोऽभून्महासुरः ।कुबेरस्य वराद्राजन् परं मोक्षं जगाम ह ॥२४॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेप्रलम्बवधो नाम विंशोऽध्यायः ॥२०॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP