संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०१ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रुतिरूपा-गोपीगणानां उत्पत्तिः Translation - भाषांतर अतसीकुसुमोपमेयकांति-र्यमुनाकूलकदंबमध्यवर्ती ।नवगोपवधूविलासशालीवनमाली विरनोतु मंगलानि ॥१॥परिकरीकृतपीतपटं हरिंशिखिकिरीटनतीकृतकंधरम् ।लकुटवेणुकरं चलकुण्डलंपटुतरं नटवेषधरं भजे ॥२॥बहुलाश्व उवाच -श्रुतिरूपादयो गोप्यो भूतपूर्वा वरान्मुने ।कथं श्रीकृष्णचन्द्रेण जाताः पूर्णमनोरथाः ॥३॥गोपालकृष्णचरितं पवित्रं परमाद्भुतम् ।एतद्वद महाबुद्धे त्वं परावरवित्तमः ॥४॥श्रीनारद उवाच -श्रुतिरूपाश्च या गोप्यो गोपानां सुकुले व्रजे ।लेभिरे जन्म वैदेह शेषशायीवराच्छ्रुतात् ॥५॥कमनीयं नन्दसूनुं वीक्ष्य वृन्दावने च ताः ।वृन्दावनेश्वरीं वृन्दां भेजिरे तद्वरेच्छया ॥६॥वृन्दादत्ताद्वरादाशु प्रसन्नो भगवान् हरिः ।नित्यं तासां गृहे याति रासार्थं भक्तवत्सलः ॥७॥ एकदा तु निशीथिन्या व्यतीते प्रहरद्वये ।रासार्थं भगवान् कृष्णः प्राप्तवान् तद्गृहान्नृप ॥८॥तदा उत्कंठिता गोप्यः कृत्वा तत्पूजनं परम् ।पप्रच्छुः परया भक्त्या गिरा मधुरया प्रभुम् ॥९॥गोप्य ऊचुः -कथं न चागतः शीघ्रं नो गृहान् वृजिनार्दन ।उत्कंठितानां गोपीनां त्वयि चन्द्रे चकोरवत् ॥१०॥श्रीभगवानुवाच -यो यस्य चित्ते वसति न स दूरे कदाचन ।खे सूर्यं कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥११॥भाण्डीरे मे गुरुः साक्षात् दुर्वासा भगवान् मुनिः ।आगतोऽद्य प्रियास्तस्य सेवार्थं गतवानहम् ॥१२॥गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१३॥अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।चक्षुरुमीलितं येन तस्मै श्रीगुरवे नमः ॥१४॥स्वगुरुं मां विजानीयान्नावमन्येत कर्हिचित् ।न मर्त्यबुद्ध्या सेवेत सर्वदेवमयो गुरुः ॥१५॥तस्मात्तत्पूजनं कृत्वा नत्वा तत्पादपंकजम् ।आगतोऽहं विलंबेन भवतीनां गृहान् प्रियाः ॥१६॥श्रीनारद उवाच -श्रुत्वा तत्परमं वाक्यं गोप्यः सर्वास्तु विस्मिताः ।कृतांजलिपुटा ऊचुः श्रीकृष्णं नम्रकंधराः ॥१७॥गोप्य ऊचुः -परिपूर्णतमस्यापि दुर्वासास्ते गुरुः स्मृतः ।अहो तद्दर्शनं कर्तुं मनो नश्चोद्यतं प्रभो ॥१८॥अद्य देव निशीथिन्या व्यतीते प्रहरद्वये ।कथं तद्दर्शनं भूयादस्माकं परमेश्वर ॥१९॥तथा मध्ये दीर्घनदी यमुना प्रतिबन्धिका ।कथं तत्तरणं नावं ऋते देव भविष्यति ॥२०॥श्रीभगवानुवाच -अवश्यमेव गन्तव्यं भवतीभिर्यदा प्रियाः ।यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥२१॥यदि कृष्णो बालयतिः सर्वदोषविवर्जितः ।तर्हि नो देहि मार्गं वै कालिन्दि सरितां वरे ॥२२॥इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ।सुखेन तेन व्रजत यूयं सर्वा व्रजांगनाः ॥२३॥श्रीनारद उवाच -इति श्रुत्वाऽथ तद्वाक्यं पात्रैर्दीर्घैर्व्रजांगनाः ।षट्पंचाशत्तमान् भोगान् नीत्वा सर्वाः पृथक्पृथक् ॥२४॥यमुनामेत्य हर्युक्तं जगुरानतकंधराः ।सद्यः कृष्णा ददौ मार्गं गोपीभ्यो मैथिलेश्वर ॥२५॥तेन गोप्यो गताः सर्वा भाण्डीरं चातिविस्मिताः ।ततः प्रदक्षिणीकृत्य मुनिं दुर्वासनं च ताः ॥२६॥नत्वा तद्दर्शनं चक्रुः पुरो धृत्वाऽशनं वहु ।मे पूर्वं चापि मे पूर्वमन्नं भोज्यं त्वया मुने ॥२७॥एवं विवदमानानां गोपीनां भक्तिलक्षणम् ।विज्ञाय मुनिशार्दूलः प्रोवाच विमलं वचः ॥२८॥मुनिरुवाच -गोप्यः परमहंसोऽहं कृतकृत्यो हि निष्क्रियः ।तस्मान्मुखे मे दातव्यं स्वं स्वं चाप्यशनं करैः ॥२९॥श्रीनारद उवाच -एवं विदारिते तेन मुखे गोप्योऽतिहर्षिताः ।षट्पंचाशत्तमान् भोगान् स्वान्स्वान् सर्वाः समाक्षिपन् ॥३०॥क्षिपन्तीनां च गोपीनां पश्यंतीनां मुनीश्वरः ।जघास कोटिशो मारान् भोगान् सर्वान् क्षुधातुरः ॥३१॥विस्मितानां च गोपीनां पश्यंतीनां परस्परम् ।इत्थं शून्यानि पात्राणि बभूवुर्नृपसत्तम ॥३२॥अथ गोप्यो मुनिं शांतं नत्वा तं भक्तवत्सलम् ।विस्मिताः प्रणताः प्राहुः सर्वाः पूर्णमनोरथाः ॥३३॥गोप्य ऊचुः -मुने आगमनात्पूर्वं कृष्णोक्तवचसा नदीम् ।तीर्त्वाऽऽगतास्त्वत्समीपं दर्शनार्थं शुभेच्छया ॥३४॥इतः कथं गमिष्यामः सन्देहोऽयं महानभूत् ।तद्विधेहि नमस्तुभ्यं येन पंथा लघुर्भवेत् ॥३५॥सुखेनातः प्रगन्तव्यं भवतीभिर्यदा स्वतः ।यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥३६॥यदि दूर्वारसं पीत्वा दुर्वासाः केवलं क्षितौ ।व्रती निरन्नो निर्वारि वर्तते पृथिवीतले ॥३७॥तर्हि नो देहि मार्गं वै कालिंदि सरितां वरे ।इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ॥३८॥श्रीनारद उवाच -इति श्रुत्वा वचो गोप्यो नत्वा तं मुनिपुंगवम् ।यमुनामेत्य मुन्युक्तं चोक्त्वा तीर्त्वा नदीं नृप ॥३९॥श्रीकृष्णपार्श्वमाजग्मुर्विस्मिता मंगलायनाः ॥४०॥अथ रासे गोपवध्वः सन्देहं मनसोत्थितम् । पप्रच्छुः श्रीहरिं वीक्ष्य रहः पूर्णमनोरथाः ॥४१॥गोप्य ऊचुः -दुर्वाससो दर्शनं भोः कृतमस्माभिरग्रतः ।युवयोर्वाक्यतश्चात्र सन्देहोऽयं प्रजायते ॥४२॥यथा गुरुस्तथा शिष्यो मृषावादी न संशयः ।जारस्त्वमसि गोपीनां रसिको बाल्यतः प्रभो ॥४३॥कथं बालयतिस्त्वं वै वद तद्वृजिनार्दन ।कथं दूर्वारसं पीत्वा दुर्वासा बहुभुङ्मुनिः ।नो जात एष सन्देहः पश्यन्तीनां व्रजेश्वर ॥४४॥श्रीभगवानुवाच -निर्ममो निरहंकारः समानः सर्वगः परः ।सदा वैषम्यरहितो निर्गुणोऽहं न संशयः ॥४५॥तथापि भक्तान् भजतो भजेऽहं वै यथा तथा ।तथैव साधुर्ज्ञानी वै वैषम्यरहितः सदा ॥४६॥न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ।जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥४७॥यस्य सर्वे समारंभाः कामसंकल्पविर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पंडितं बुधाः ॥४८॥निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४९॥न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥५०॥ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥५१॥तस्मान्मुनिस्तु दुर्वासा बहुभुक् त्वद्धिते रतः ।न तस्य भोजनेच्छा स्याद्दूर्वारसमिताशनः ॥५२॥श्रीनारद उवाच -इति श्रुत्वा वचो गोप्यः सर्वास्ताश्छिन्नसंशयाः ।श्रुतिरूपा ज्ञानमय्यो बभूवुर्मैथिलेश्वर ॥५३॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रुतिरूपोपाख्यानं नाम प्रथमोऽध्यायः ॥१॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP