संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०२ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ऋषिरूप-गोपीगणानां उत्पत्तिः Translation - भाषांतर श्रीनारद उवाचगोपीनामृषिरूपाणामाख्यानं शृणु मैथिल ।सर्वपापहरं पुण्यं कृष्णभक्तिविवर्धनम्॥१॥वङ्गेषु मङ्गलो नाम गोप आसीन्महामनाः ।लक्ष्मीवाञ्छ्रुतसम्पन्नो नवलक्षगवां पतिः॥२॥भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ।कदाचिद्दैवयोगेन धनं सर्वं क्षयं गतम्॥३॥चौरैर्नीतास्तस्य गावः काश्चिद्राज्ञा हृता बलात् ।एवं दैन्ये च सम्प्राप्ते दुःखितो मङ्गलोऽभवत्॥४॥तदा श्रीरामस्य वराद्दण्डकारण्यवासिनः ।ऋषयः स्त्रीत्वमापन्ना बभूवुस्तस्य कन्यकाः॥५॥दृष्ट्वा कन्यासमूहं स दुःखी गोपोऽथ मङ्गलः ।उवाच दैन्यदुःखाढ्य आधिव्याधिसमाकुलः॥६॥मङ्गल उवाच -किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।श्रीर्न भूतिर्नाभिजनो न बलं मेऽस्ति साम्प्रतम्॥७॥धनं विना कथं चासां विवाहो हा भविष्यति ।भोजने यत्र सन्देहो धनाश तत्र कीदृशी॥८॥सति दैन्ये कन्यकाः स्युः काकतालीयवद्गृहे ।तस्मात्कस्यापि राज्ञस्तु धनिनो बलिनस्त्वहम्॥९॥दास्याम्येताः कन्यकाश्च कन्यानां सौख्यहेतवे ।कदर्थीकृत्य ता कन्याः एवं बुद्ध्या स्थितोऽभवत्॥तदैव माथुराद्देशाद्गोपश्चैकः समागतः॥१०॥नारद उवाच -तीर्थयायी जयो नाम वृद्धोबुद्धिमतां वरः ।तन्मुखान्नन्दराजस्य श्रुतं वैभवमद्भुतम्॥११॥नन्दराजस्य बलये मङ्गलो दैन्यपीडितः ।विचिन्त्य प्रेषयामास कन्यकाश्चारुलोचनाः ॥१२॥ता नन्दराजस्य गृहे कन्यका रत्नभूषिताः ।गवां गोमयहारिण्यो बभूवुर्गोव्रजेषु च ॥१३॥श्रीकृष्णं सुन्दरं दृष्ट्वा कन्या जातिस्मराश्च ताः ।कालिन्दीसेवनं चक्रुर्नित्यं श्रीकृष्णहेतवे ॥१४॥अथैकदा श्यामलाङ्गी कालिन्दी दीर्घलोचना । ताभ्यः स्वदर्शनं दत्वा वरं दातुं समुद्यता ॥१५॥ता वव्रिरे व्रजेशस्य पुत्रो भूयात्पतिश्च नः ।तथास्तु चोक्त्वा कालिन्दी तत्रैवान्तरधीयत ॥१६॥ताः प्राप्ता वृन्दकारण्ये कार्तिक्यां रासमण्डले ।ताभिः सार्धं हरी रेमे सुरीभिः सुरराडिव ॥१७॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेऋषिरूपोपाख्यानं नाम द्वितीयोऽध्यायः॥२॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP