संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १० माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता पौलिन्द गोपी कथा Translation - भाषांतर श्रीनारद उवाच -पुलिंदकानां गोपीनां करिष्ये वर्णनं ह्यतः ।सर्वपापहरं पुण्यमद्भुतं भक्तिवर्द्धनम् ॥१॥पुलिन्दा ऊद्भटाः केचिद्विंध्याद्रि वनवासिनः ।विलुंपंतो राजवसु दीनानां न कदाचन ॥२॥कुपितस्तेषु बलवान् विन्ध्यदेशाधिपो बली ।अक्षौहिणीभ्यां तान्सर्वान् पुलिंदान्स रुरोध ह ॥३॥युयुधुस्तेऽपि खड्गैश्च कुन्तैः शूलैः परश्वधैः ।शक्त्यर्ष्टिभिर्भृशुण्डीभिः शरैः कति दिनानि च ॥४॥पत्रं ते प्रेषयामासुः कंसाय यदुभूभृते ।कंसप्रणोदितो दैत्यः प्रलंबो बलवांस्तदा ॥५॥योजनद्वयमुच्चांगं कालमेघसमद्युतिम् ।किरीटकुंडलधरं सर्पहारविभूषितम् ॥६॥पादयोः शृङ्खलायुक्तं गदापाणिं कृतांतवत् ।ललज्जिह्वं घोररूपं पातयन्तं गिरीन्द्रुमान् ॥७॥कंपयंतं भुवं वेगात्प्रलम्बं युद्धदुर्मदम् ।दृष्ट्वा प्रधर्षितो राजा ससैन्यो रणमंडलम् ॥८॥त्यक्त्वा दुद्राव सहसा सिंहं वीक्ष्य गजो यथा ।प्रलंबस्तान् समानीय मथुरामाययौ पुनः ॥९॥पुलिन्दास्तेऽपि कंसस्य भृत्यत्वं समुपागताः ।सकुटुंबाः कामगिरौ वासं चक्रुर्नृपेश्वर ॥१०॥तेषां गृहेषु संजाताः श्रीरामस्य वरात्परात् ।पुलिंद्यः कन्यका दिव्या रूपिण्यः श्रीरिवार्चिताः ॥११॥तद्दर्शनस्मररुजः पुलिंद्यः प्रेमविह्वलाः ।श्रीमत्पादरजो धृत्वा ध्यायंत्यस्तमहर्निशम् ॥१२॥ताश्चापि रासे संप्राप्ताः श्रीकृष्णं परमेश्वरम् ।परिपूर्णतमं साक्षाद्गोलोकाधिपतिं प्रभुम् ॥१३॥श्रीकृष्णचरणाम्भोजरजो देवैः सुदुर्लभम् ।अहो भाग्यं पुलिंदीनां तासां प्राप्तं विशेषतः ॥१४॥यः पारमेष्ठ्यमखिलं न महेन्द्रधिष्ण्यंनो सार्वभौममनिशं न रसाधिपत्यम् ।नो योगसिद्धिमभितो न पुनर्भवं वावाञ्छत्यलं परमपादरजः स भक्तः ॥१५॥निष्किंचनाः स्वकृतकर्मफलैर्विरागायत्तत्पदं हरिजना मुनयो महांतः ।भक्ता जुषन्ति हरिपादरजःप्रसक्ताअन्ये वदन्ति न सुखं किल नैरपेक्ष्यम् ॥१६॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेपुलिन्दकोपाख्यानं नाम दशमोऽध्यायः ॥१०॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP