माधुर्यखण्डः - अध्यायः ०६

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
एवमुक्त्वा गते साक्षाद्याज्ञवल्क्ये महामुनौ॥
अतीव हर्षमापन्नौ विमलश्चम्पकापतिः ॥१॥
अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः॥
बभूवुस्तस्य भार्यासु ताः सर्वाः कन्यकाः शुभाः ॥२॥
विवाहयोग्यास्ता दृष्ट्वा चिन्तयन् चम्पकापतिः॥
याज्ञवल्क्यवचः स्मृत्वा दूतमाह नृपेश्वरः ॥३॥
विमल उवाच -
मथुरां गच्छ दूत त्वं गत्वा शौरिगृहं शुभम्॥
दर्शनीयस्त्वया पुत्रो वसुदेवस्य सुन्दरः ॥४॥
श्रीवत्सांको घनश्यामो वनमाली चतुर्भुजः॥
यदि स्यात्तर्हि दास्यामि तस्मै सर्वाः सुकन्यकाः ॥५॥
श्रीनारद उवाच -
इति वाक्यं ततः श्रुत्वा दूतोऽसौ मथुरां गतः ।
पप्रच्छ सर्वाभिप्रायं माथुरांश्च महाजनान् ॥६॥
तद्वाक्यं माथुराः श्रुत्वा कंसभीताः सुबुद्धयः ।
तं दूतं रहसि प्राहुः कर्णांते मंदवाग्यथा ॥७॥
माथुरा ऊचुः
वसुदेवस्य ये पुत्राः कंसेन बहवो हताः ।
एकाऽवशिष्टावरजा कन्या साऽपि दिवं गता ॥८॥
वसुदेवोऽस्ति चात्रैव ह्यपुत्रो दीनमानसः ।
इदं न कथनीयं हि त्वया कंसभयं पुरे ॥९॥
शौरिसंतानवार्तां यो वक्ति चेन्मथुरापुरे ।
तं दंडयति कंसोऽसौ शौर्यष्टमशिशो रिपुः ॥१०॥
श्रीनारद उवाच -
जनवाक्यं ततः श्रुत्वा दूतो वै चम्पकापुरीम् ।
गत्वाऽथ कथयामास राज्ञे कारणमद्‌भुतम् ॥११॥
दूत उवाच -
मथुरायामस्ति शौरिरनपत्योऽतिदीनवत् ।
तत्पुत्रास्तु पुरा जाताः कंसेन निहताः श्रुतम् ॥१२॥
एकावशिष्टा कन्याऽपि खं गता कंसहस्ततः ।
एवं शृत्वा यदुपुरान्निर्गतोऽहं शनैः शनैः ॥१३॥
चरन् वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।
अकस्माल्लतिकावृन्दे दृष्टः कश्चिच्छिशुर्मया ॥१४॥
तल्लक्षणसमो राजन् गोगोपगणमध्यतः ।
श्रीवत्सांको घनश्यामो वनमाल्यतिसुन्दरः ॥१५॥
द्विभुजो गोपसूनुश्च परं त्वेतद्विलक्षणम् ।
त्वया चतुर्भुजश्चोक्तो वसुदेवात्मजो हरिः ॥१६॥
किं कर्तव्यं वद नृप मुनिवाक्यं मृषा न हि ।
यत्र यत्र यथेच्छा ते तत्र मां प्रेषय प्रभो ॥१७॥
श्रीनारद उवाच -
इति चिन्तयतस्तस्य विस्मितस्य नृपस्य च ।
गजाह्वयात्सिन्धुदेशान् जेतुं भीष्मः समागतः ॥१८॥
तं पूज्य विमलो राजा दत्वा तस्मै बलिं बहु ।
पप्रच्छ सर्वाभिप्रायं भीष्मं धर्मभृतां वरम् ॥१९॥
विमल उवाच -
याज्ञवल्क्येन पूर्वोक्तो मथुरायां हरिः स्वयम् ।
वसुदेवस्य देवक्यां भविष्यति न संशयः ॥२०॥
न जातो वसुदेवस्य सकाशेऽद्य हरिः परः ।
ऋषिवाक्यं मृषा न स्यात्कस्मै दास्यामि कन्यकाः ॥२१॥
महाभागवतः साक्षात्त्वं परावरवित्तमः ।
जितेन्द्रियो बाल्यभावाद्‌वीरो धन्वी वसूत्तमः ।
एतद्वद महाबुद्धे किं कर्तव्यं मयाऽत्र वै ॥२२॥
श्रीनारद उवाच -
विमलं प्राह गांगेयो महाभागवतः कविः ।
दिव्यदृग्धर्मतत्वज्ञः श्रीकृष्णस्य प्रभाववित् ॥२३॥
भीष्म उवाच -
हे राजन् गुप्तमाख्यानं वेदव्यासमुखाच्छ्रुतम् ।
सर्वपापहरं पुण्यं शृणु हर्षविवर्द्धनम् ॥२४॥
देवानां रक्षणार्थाय दैत्यानां हि वधाय च ।
वसुदेवगृहे जातः परिपूर्णतमो हरिः ॥२५॥
अर्धरात्रे कंसभयान्नीत्वा शौरिश्च तं त्वरम् ।
गत्वा च गोकुले पुत्रं निधाय शयने नृप ॥२६॥
यशोदानन्दयोः पुत्रीं मायां नीत्वा पुरं ययौ ।
ववृधे गोकुले कृष्णो गुप्तो ज्ञातो न कैर्नृभिः ॥२७॥
सोऽद्यैव वृदकारण्ये हरिर्गोपालवेषधृक् ।
एकादश समास्तत्र गूढो वासं करिष्यति ।
दैत्यं कंसं घातयित्वा प्रकटः स भविष्यति ॥२८॥
अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः ।
ताः सर्वास्तव भार्यासु बभूवुः कन्यकाः शुभाः ॥२९॥
गूढाय देवदेवाय देयाः कन्यास्त्वया खलु ।
न विलम्बः क्वचित्कार्यो देहः कालवशो ह्ययम् ॥३०॥
इत्युक्त्वाऽथ गते भीष्मे सर्वज्ञे हस्तिनापुरम् ।
दूतं स्वं प्रेषयामास विमलो नन्दसूनवे ॥३१॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
अयोध्यापुरवासिन्युपाख्यानं नाम षष्ठोऽध्यायः ॥६॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP