संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| १६ ते २० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर N/A१६पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्न: ।इमे पश्चात्पृदाकव: प्रदीध्यंत आसते ॥१॥दीध्यनष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।जघानेन्द्रो जघ्निमा वयम् ॥२॥हतास्तिरश्चिराजयो निपिष्ठास: पृदाकवः ।दर्विं करिक्रतं श्वित्रं दर्भष्वसितं जहि ॥३॥कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययोभिरभ्रिभिर्गिरीणामुप सानुषु ॥४॥आयमगन् युवा भिषक् पृश्निहापराजित: ।स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥५॥इन्द्रो मे ऽहीन् जम्भयन्मित्रश्च वरुणश्च ।वाता पर्जन्योभा ॥६॥पैद्वो मे ऽहीनजम्भयत् पृदाकुं च पृदाकव: । दाकूंस्वजं तिरश्चिराजिं कसर्णीलं दशोदसिन् ॥७॥इन्द्रो जघान प्रथमं जनितारमहे तव । ,तेषां वस्तृह्यमाणानां कः स्वित् तेषामसद्रस: ॥८॥सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।सिन्धोर्मध्यं परेत्य व्य ऽनिजमहेर्विषम् ॥९॥अहीनां सर्वेषां विषं परा वहन्तु सिन्धव: ।हतास्तिरश्चिराजयो निपिष्टास : पृदाकव: ॥१०॥१७ओषधीनामहं वृण उर्वरीरिव साधुया ।नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥१॥यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत् ।कान्दा विषं कनिक्लकं निरैत्वैतु ते अहे ॥२॥अङ्गादङ्गात् प्र च्यावय हृदयं परि वर्जय ।अधा विषस्य तत्तेजोवाचीनं तदेतु ते ॥३॥अग्ने त्रायस्व विमदं नयेमं पुनर्धेहि जीवसे जातवेद:।मा ते हेडांसि दुरिताव गन्माहिर्वधीद् द्विषत: पुरुषं न: ॥४॥ये अग्निजा ओषधीजाहीनां ये अभ्रजा विद्युत आबभूवुः ।येषां जातानि बहुधा बहूनि तेभ्य: सर्पेभ्यो नमसा विधेम ॥५॥तौदी नामासि कन्या घृताची नाम वा असि ।अधस्पदेन ते पदोराददे विषदूषणम् ॥६॥आरे अभूद्विषमरौद्विषे विषमप्रागपि ।अग्निरहेर्निरधाद् विषं सोमो निरणयीत् ।दंष्ट्रारमन्वगाद्विषमहिरमृत ॥७॥१८कृतस्तौ जातौ कतमः सो अर्ध: कस्माल्लोकात्कतमस्या: पृथिव्या: ।वत्सौ विराज: सलिलादुदैतां त्वौ त्वा पृच्छामि कतरेण दुग्धा ॥१॥यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयान: ।वत्स: कामदुघो विराजो गुहा: चक्रे तन्व: पराचै: ॥२॥यानि चत्वारि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम्।ब्रहौनद्विद्यातपसा विपश्चिद्यस्मिन्नेकं युज्यते यस्मिन्नेकम् ॥३॥बृहत: परि सामानि षष्ठात्पञ्चाधि निर्मिता ।बृहद् बृहत्या निर्मितं कुतोधि बृहती मिता ॥४॥बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।माया हि यज्ञे मायाया मायाया मातली परि।५॥वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्नि: ।ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥षट् त्वा पृच्छाम ऋषय: कश्यपेदं त्वं हि युक्तं युयुक्षे योग्यं च ।विराजमाहुर्ब्रह्मणः पितरं तां नो विधेह्यृतुधा सखिभ्यः ॥७॥यां प्रच्युतामनु यज्ञाः प्रोच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।यस्या व्रते प्रसवे यक्षमेजति सा विराडृषय: परमे व्योमन् ॥८॥अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजमभ्येति पश्चात् ।विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्तेनाम् ॥९॥को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । ऋतुन्क्रमान् को अस्या: बहुधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥१९इयमेव सा या प्रथमा व्यौच्छात्साप्स्वन्तश्चरति प्रविष्टा ।वधूर्जिगाय नवगज्जनित्री महान्तो अस्यां महिमानो अन्त: ॥१॥छन्द: पक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते ।सूर्यपत्नी सञ्चरत: प्रजानती केतुमती अजरे भूरिरेतसा ॥२॥ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । .प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥३॥अग्निषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तः ॥४॥पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनान्मीमृतवोनु पञ्च ।पञ्च दिश: पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥५॥षड्जाता भूता: प्रथमजर्तस्य षडु सामानि षडहं वहन्ति ।षड्योगं सीरमनु सामसाम षडाहुर्द्यावापृथिवी: षडुर्वीः ॥६॥षडाहुः शीतान् षडु मास उष्णानृतुं नो ब्रूत यतमोतिरिक्तः ।सप्त सुपर्णा: कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥७॥सप्तहोमाः समिधो ह सप्त मधूनि सप्तर्तवो नु सप्त ॥८॥सप्ताज्यानि परि भूतमायन् सप्त होतार ऋतुष्या यजन्ति ताः सप्त गृध्रा इति शुश्रवाहम् ॥९॥अष्टौ धामानि प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये ।अष्टयोनिरदितिरष्टपुत्रा अष्टमीं रात्रिमभि हव्यमेतु ॥१०॥इत्थं श्रेयो मन्यमाने दमागमं युष्माकं सख्ये अहमस्मि शेवा ।समानजन्मा क्रतुरस्तु वः शिवः स नः सर्वाः सं चरति प्रजानन्म॥११॥२०केवलीन्द्राय ददुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । केबलीअथा तर्पयच्चतुरश्चतुर्धा देवान् मनुष्याङ् असुरानुतर्षीन् ॥१॥अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा ।अपो मनुष्यानोषधीस्तां उ पश्चानु सेचिरे ॥२॥को नु गौ: क एकर्षिः किमु साम का आशिषः ।यक्ष्मं पृथिव्यामेकवृदेकर्तुः कतमो नु स: ॥३॥एक गौरेक एकर्षिरेकं सामैकधाशिषः ।यक्ष्मं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥४॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP