संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ८६ ते ९० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ८६ ते ९० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ८६ ते ९० Translation - भाषांतर ८६कुतः केशान् कुत: स्नाव कुतो अस्थीन्याभरत् ।अङ्गा पर्वाणि मज्जानं को मांसं कुतो आभरत् ॥१॥यदा केशानस्थि स्नाव मांसं मज्जानमाभरत् ।शरीरं कृत्वा पादवत् कं लोकमनु प्राविशत् ॥२॥संसिचो नाम ते देवा ये संभरैः समभरन् ।सर्वे संसिच्य मर्त्यं देवा: पुरुषमाविशन् ॥३॥परुशिरो हस्तावथो बाहू जिह्वां ग्रीवाश्च कीकसाः ।पृष्टिर्बर्जह्ये पार्श्वे कस्तत् समदधादृषि: ॥४॥ऊरू पादावष्ठीवन्तौ श्रोणीहस्तावथो मुखम्। उरूत्वचा प्रावृत्य तत्सर्वं संधा समदधान्मही ॥५॥यत्तच्छरीरमशयत् संधया संहितं महत् ।येनेदमद्य रोचते को अस्मिन् वर्णमाभरत् ॥६॥सर्वे देवा उपाशिक्षन् तदजानाद्वधू: सती ।ईशा वशस्य या जाया सास्मिन् वर्णमाभरत् ॥७॥यदा त्वष्टा व्यतृणत् पिता त्वष्टुर्य उत्तर: ।गृहं कृत्वा मर्त्यं देवा: पुरुषमाविशन् ॥८॥स्वप्नो वै तन्द्रीर्निऋतिः पाण्मानो नाम देवता:।जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥९॥स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो महः।बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥१०॥८७भूतिश्च वा अभूतिश्च रातयोरातयोश्च या: ।क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥१॥निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२॥विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।शरीरं ब्रह्मा प्राविशदृच: सामाथो यजुः ॥३॥आनन्दानन्दा: प्रमुदोभीमोदमुदश्च ये ।हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥४॥आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।शरीरं सर्वे प्राविशन्नायुज: प्रयुजो युजः ॥५॥प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।व्यानोदानौ वाङ्मन: शरीरेण त ईयन्ते ॥६॥आशिषश्च प्रशिषश्च संशिषो विशिषश्च या: ।चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥७॥· · · · · · वै धृतयश्चेडाशी: सूनृतेडा ।शरीरं सर्वे प्राविशन्नृतरीर्ष्यायुधोमृध: ॥८॥आस्तेयीश्च वास्तेयीश्च त्वरणा: कृपणाश्च या: ।गुह्या: शुक्रा आप: स्थूलास्ताबीभत्सुरसादयन् ॥९॥अस्थि कृत्वा समिधं तदष्टापो असादयन् ।रेत: कृत्वाज्यं देवा: पुरुषमाविशन् ॥१०॥८८या आपो याश्च देवता या विराड ब्रह्मणा सह । .शरीरं ब्रह्म प्राविशच्छरीरेधि प्रजापतिः ॥१॥सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।अथास्येतरमात्मानं देवा: प्रायच्छन्नग्नये ॥२॥तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।सर्वा ह्यस्मिन् देवता: शरीरेधि समाहिता: ॥३॥संदेश्य स्थानमङ्गेषु पिता लोकाङ् अकल्पयत्।शरीरं सर्वा देवता यथाङ्गमनु प्राविशन् ॥४॥अङ्गमङ्ग शरीरस्य सर्वे देवा अनु प्राविशन् ।पिता ह्येभ्य: प्रायच्छत्तं लोकमपराजितम् ॥५॥तं लोकमपराजितं सर्वे देवा अनु प्राविशन् ।प्रजापतिर्यदाभरच्छरीरं बहुधा हितम् ॥६॥(इति क्षुद्रकाण्डनाम षोडशकाण्डे षोडशो ऽनुवाक:)८९अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा।सप्तऋषयो भूतकृतस्ते त्वा मन्दन्तु प्रजया सहेह ॥१॥कृणुतं धूमं वृषण: सखायोद्रोघाविता वाचमच्छ !अयमग्नि: पृतनाषाट् सुवीरो येन देवा असहन्तु शत्रून् ॥२॥अग्नेजनिष्ठा महते वीर्याय ब्रहौदनाय पक्तवे जातवेद: !सप्तऋषयो भूतकृतस्ते त्वाजीजन्नस्यै रयिं सर्ववीरं नि यच्छ ॥३॥समिद्धो अग्ने समिधा समिध्यसे विद्वान् देवान् यज्ञियाङ् एह वक्ष: ।तेभ्यो हव्यं श्रपयं जातवेद स्वर्गं लोकमधि रोहयैनम् ॥४॥त्रेधा भागं निहितो य: पुरा वो देवानां पितॄणामुत मर्त्यानाम् |अंशान् जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयति ॥५॥अग्ने सहस्वानभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृत: कृणोतु ॥६॥साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय।उर्ध्वो नाकस्थाधि रोह विष्टपं स्वर्गों लोक इति यं वदन्ति ॥७॥इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।अथ गच्छेम सुकृतामु लोकम् ॥८॥एतौ ग्रावाणौ सयुजा युङ्गधि चर्माणि निर्भिन्ध्यंशून् यजमानाय साधु }अवघ्नती नि जहि ये पृतन्यव ऊर्ध्व प्रजामुद्धरन्त्युदूह ॥९गृहाण ग्रावाणौ सुकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगु ।त्रय वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ ९०उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः।श्रिया समानानति सर्वान् त्स्यामाधस्पदं द्विषतस्पादयेम ॥१॥इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा: ।परा पुनीहि य इमां पृतन्यवोस्यै रयिं सर्ववीरं नि यच्छ ॥२॥परेहि नारि पुनरेहि क्षिप्रमपो त्वा गोष्ठो अध्यरुक्षद् भराय ।तासां गृह्णीताद्यतमा यज्ञिया असन्विभाज्य धीरीतरा जहीतात् ॥३॥ताषांएमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व !सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञ: प्रति कुम्भं गृभाय ॥४॥उर्जो भागो निहितो य: पुरा वो ऋषिप्रशिष्टाप आहरैता: ।अयं यज्ञो नाथविद् गातुवित् प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥५॥अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥६॥शुद्धा आपो योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्रा: ।ददन् प्रजां बहुलान् पशून् मे पक्तौदनस्य सुकृतामेतु लोकम् ॥७॥ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।अप: प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्ता सुकृतामेतु लोकम् ॥८॥अभ्यावर्तस्व प्रजया सहैनां प्रत्यङ्नां देवताभि: सहैधि ।स्वर्गं लोकमभिसंवर्धयैनामादित्यो देव: परमं व्योम ॥९॥ऊरु : प्रथस्व महता महिम्ना सहस्रपृष्ठ: सुकृतस्य लोके ।पितामहा: पितर: प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP