संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ७६ ते ८० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ७६ ते ८० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ७६ ते ८० Translation - भाषांतर ७६सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण ॥१॥यन्मे मनसो न प्रियं न चक्षुषो यन्मे हृदये नाभिनन्दति ।तद्दुष्वप्न्यं प्रतिमुञ्चामि सपत्ने कामं स्तुष्टुवानुदहं भिदेयम् ॥२॥दुष्वप्न्यं काम दुरितं च कामाप्रजस्तामस्वगतामवर्तिम्।उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात् ॥३॥सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम ।तया सपत्नान् परिवृङधि ये मम पर्यनान् प्राणः प्रजा: पशवो जीवनं वृणक्तु ॥४॥ङ्घिकामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितु: सवेन ।अग्नेर्होत्रेण प्र णुदे सपत्नांच्छम्बीव नावमुदकेषु धीर: ॥५॥अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥६॥इदमाज्यं घृतवज्जुषाणा: कामज्येष्ठा इह मादयन्ताम् ।कृण्वन्तु मह्यमसपत्नमेव ॥७॥इन्द्राग्नी काम सरथं हि भूत्वा नीचै: सपत्नान् मम पादयाथ: । निचैःतेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥८॥जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।निरिन्द्रिया ऽरसाः सन्तु सर्वे यथा न जीवात् कतमच्चनैषाम् ॥९॥अवधीत् कामो मम ये सपत्ना उरु लोकमकरन् मह्यमेधतुम् ।मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥१०॥७७यत्ते काम शर्म त्रिवरूथमुद्भुर्ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।तेन सपत्नान् परि वृङ्गधि ये मम पर्येनान् प्राणः प्रजा: पशवो जीवलं वृणक्तु ॥१॥अधरांच: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् ।न सायकप्रणुत्तानां पुनरस्ति निवर्त्तनम् ॥२॥७८यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिव: ।ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि ॥३॥यावतीर्भृङ्गा जत्व: कुरूरवो र्यावतीर्वघा वृक्ष सर्प्यो बभूवु:॥ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत् कृणोमि ॥४॥यास्ते शिवास्तन्वः काम भद्रा याभि: सत्यं भवति यद् वृणीषे ।ताभिष्ट्वमस्मानुप संविशस्वान्यत्र पापीरप वेशया धिय: ॥५॥७९यौ ते मातोन्ममार्ज जाताया: पतिवेदनौ ।दुर्णामा तत्र मा गृधदलिंश उत वत्सप: ॥१॥पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।अश्लिष्यं वव्रिवाससमृक्षग्रीवं प्रमीलिनं मुष्कयोरपहन्मसि ॥२॥मा सं वृतो मोप सृप ऊरू माव सृपोन्तरा ।कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥दुर्णामा च सुनामा चोभौ संवृतमिछत: ।अरायानप हन्मसि सुनामा स्त्रैणमिछताम् ॥४॥य: कृष्ण: केश्यसुर स्तम्बज उत तुण्डिकः ।अराया नस्या भंससो मुष्कयोरपहन्मसि ॥५॥अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।अरायांछ्वकिष्किणो बजः पिङ्गो अनीनशत् ॥६॥यस्त्वा सुप्ताञ्चरति यश्च दिप्सति जाग्रतीम् ।छायामिव प्र तान् सूर्य: परिक्रामन्ननीनशत् ॥७॥यस्त्वा सुप्तां निपद्यते भ्राता भूत्वा पितेव च । भुत्वाबजस्तान्त्सहतामित: क्लीवरूपांस्तिरीटिनम् ॥८॥य: कृणोत्यवतकां मृतवत्सामिमां स्त्रियम् ।तमोषधे त्वं नाशयास्या: कमलमञ्जिवम् ॥९ ॥त्वांये शालाः परिनृत्यन्ति सायं गर्दभनादिन: ।कुसूला ये च कुक्षिला: कुकुभाः सरमा: सुमा: ।तानोषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥८०ये कुकुन्धाः कुकुरभा: कृत्यैर्दूर्शानि बिभ्रती ।क्लीबा इव प्र नृत्यन्तो घोषं ये कुर्वते वने तानितो नाशयामसि ॥१॥येषां पश्चात् प्रपदे पुर: पार्ष्णी पुरो मुखम् !खलजा: शकधूमजा: उरुण्डा ये च मट्मटा: कुम्भमुष्का अयाशव:।तानस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥२॥ये सूर्य्यं न तितिक्षन्त आतपन्तममुं दिव: !अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥३॥ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुरादधि ।बजश्च तेषां पिङ्गश्च हृदयेधि नि विध्यताम् ॥४॥य आत्मानमतिमात्रमंसाधाय बिभ्रति ।स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥५॥ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः।आपाकेस्था: प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि ॥६॥पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणा: सन्तु पण्डगाः ।अव भेषज पातय य इमां संविवृत्सत्यपति: स्वपतिं स्त्रियम् ॥७॥उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पंदना ॥८॥यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥९॥ये अम्नो जातान् मारयन्ति सूतिका अनुशेरते ।स्त्रीभागान् पिङ्गो गन्धर्वानभ्रं वातमिवाजतु ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP