संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| १११ ते ११५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - १११ ते ११५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १११ ते ११५ Translation - भाषांतर १११यो वा एकं ब्रह्माऽनुष्ठ्या विद्यात् स वा अद्य महद् वदेत् ।परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥छन्दांसि यस्य लोमानि परिस्तरणमिद्धविर्यजुर्हृदयमुच्यते ।यदतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥२॥यदभिवदति दीक्षामुपैति यदुदकं याचत्यप: प्र णयति ।या यज्ञ आप: प्रणीयन्ते ता एव ता: ॥३॥यत् तर्पणमाहरन्ति योग्नीषोमीयः पशुर्बध्यते स एव सः ।यत् खादमाहरन्ति पुरोडाशावेव तौ ॥४॥यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत् कल्ययन्ति।यदुपस्तृणन्ति बर्हिरेव तत् ॥५॥यत् कशिपूपबर्हणान्याहरन्ति परिधय एव ते ।यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥६॥यदभ्यञ्जनमाहरन्त्याज्यमेव तत् ।यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥७॥यद् व्रीहयो यद्यवा निरुप्यन्ते अंशव एव ते ऽन्यूप्यन्ते ॥८॥११२उलूखल मुसलं ग्रावाणौ शूर्पं पवित्रं तुषा ऋजीषा।स्रुग् दर्विर्नेक्षणमायवनं आपो ऽभिषवणी: द्रोणकलश: कुम्भ्यः ॥१॥इदमेव कृष्णाजिनं वायव्यानि पात्राणि ।यजमानब्राह्मणं वा एतदतिथिपति: कृणुतेयदाहार्याण्यवेक्षत इदं भूया इदामिति ॥२॥यदाह भूय उद्धरेति प्रजां चैव तेन पशूंश्च वर्धयतेप्राणमेव तेन वर्षीयांसं कृणुते ॥३॥यत् संपृच्छति काममेव तेनावरुद्धे कामं हि पृष्ठो याचति ।यदुदकमभिषिञ्चत्यप एव तेनावरुन्द्धे ॥४॥यदुपहरति हवींष्या सादयति । तेषामासन्नानामतिथिरात्मनि जुहोति ।स्रुक्कारेण वषट्कारेण स्रुचा हस्तेन प्राणे यूपे ॥५॥११३तस्मान्नद्विषन्नद्यान्न द्विषतो ऽन्नमद्यान्न मीमांसितस्य न मीमांसमानस्य ॥१॥सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२॥सर्वो उ एषो ऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥३॥प्रजापतेर्वा एष विक्रान्तमनुविक्रमते य उपहरति ॥४॥प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥५॥सर्वदा वा एष सुतसोम युक्तग्रावार्द्रपवित्र आहृतयज्ञक्रतुर्विततोध्वरो य उपहरति ॥६॥योऽतिथीनां स आहवनीयो योऽन्नकरण: स दक्षिणाग्निर्यो वेश्मनि स गार्हपत्य: ॥७॥इष्टं च वा एष पूर्तं चाश्नाति य: पूर्वोतिथेरश्नाति ।प्रजां च वा एष पशूंश्चाश्नाति ॥८॥ऊर्ज च वा एष पयश्च गृहाणामश्नाति य: पूर्वोतिथेरश्नाति ॥९॥एष वा अतिथिर्यच्छ्रोत्रियः तस्मात् पूर्वो नाश्नीयादशितावत्यश्नीयात्तद् व्रतम् ॥१०॥यज्ञस्याविच्छेदाय यज्ञस्य गुप्तये यज्ञस्य सात्मत्वाय ॥११॥११४यत् क्षीरमुपसिच्योपहरति यावदग्निष्टोमेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ॥१॥यत् सर्पिरुपसिच्योपहरति यावत् साह्नेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ॥२॥यन् मधूपसिच्योपहरति यावदतिरात्रेण समृद्धेनेष्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ॥३॥यन् मांसमुपसिच्योपहरति यावद्द्वादशाहेन समृद्धेनेष्ट्वाव रुन्द्धे तावदेनेनाव रुन्द्धे ॥४॥यदुदकमुपसिच्योपहरति प्रजानां प्रजननाय योग्जीवति सर्वमायुरेति न पुनरा जरस: प्र मीयते य एवं वेद ॥५॥११५तस्मै वा उषा हिङ्कृणोति सविता भूत्या प्र स्तौतिबृहस्पतिरूर्जोयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम्।निधनं भूत्याः प्रजाया: पशूनां भवति य एवं वेद ॥१॥तस्मा उद्यन् सूर्यो हिङ्कृणोति सङ्गव: प्र स्तौति ।मध्यन्दिन उद्गायत्यपराह्नः प्रतिहरत्यस्तंयन् निधनम् ।निधनं भूत्या: प्रजाया: पशूनां भवति य एवं वेद ॥२॥तस्मा अभ्रो भवन् हिङ्कृणोति विद्योतमानः प्र स्तौतिस्तनयन्नुद्गायति वर्षं प्रति हरत्युदगृह्णन् निधनम् ।निधनं भूत्या: प्रजायाः पशूनां भवति य एवं वेद ॥३॥अतिथीन् प्रति पश्यति हिङकृणोत्यभि वदति प्र स्तौत्युदकंयाचत्युद्गायत्युपहरति प्रति हरत्युच्छिष्टं निधनम् ।निधनं भूत्या: प्रजायाः पशूनां भवति य एवं वेद ॥४॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP