संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ४६ ते ५० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ४६ ते ५० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४६ ते ५० Translation - भाषांतर ४६क्षा चासि क्षमा चासि तस्यास्ते भूतं च सुभूतं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृडताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥भूमिश्चासि भूतिश्चासि तस्यास्ते भुवनं च सुभूतिश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥पृथ्वी चासि पृथिवी चासि तस्यास्ते भविष्यच्चाभविष्यच्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां ने मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥क्षेम्या चासि क्षितिश्चासि तस्यास्ते कं च नाकं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ।ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥दृढ़ा चासि सुदृढा चासि तस्यास्ते स्वश्च स्वर्गश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिम्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥अमितिश्चासि निर्ऋतिश्चासि तस्यास्ते मित्रं च मैत्रं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥६॥शितिपृष्ठा चासि विधून्वाना चासि तस्यास्ते विन्दच्च विन्दमानं चैति मुखे।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥७॥सुहिता चासि सुहितिश्वासि तस्यास्ते वित्तिश्च सुवित्तिश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥८॥बप्सा चासि बप्सतिश्चासि तस्यास्ते वसुश्च प्रवसुश्चैति मुखे । वप्सताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥९॥परुश्चासि सदान्वाना चासि तस्यास्ते स्वं च स्वावं चैति मुखे।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृडताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१०॥४७पृश्निश्चासि पृषतीच्चासि तस्यास्ते यच्छश्च प्रयच्छश्चैति मुखे।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥विश्वभृच्चासि विश्वरूपा चासि तस्यास्ते ददच्च प्रददच्चेति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥गिरन्तीचासि गरर्गृच्चासि तस्यास्ते वृन्दं च सुवृन्दानं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र !मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धिग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥गुर्वी चासि गुरुभृच्चासि तस्यास्ते दोहश्च दुहानं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥दितिश्चास्यदितिश्चासि तस्यास्ते पयस्वापयस्वच्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥जूर्णा चासि जरयन्ती चासि तस्यास्ते दक्षश्च दक्षमाणं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥६॥अप्रतिष्ठा चासि प्रतिष्ठिता चासि तस्यास्ते ओजश्च तेजश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥७॥लोकिनी चासि लोककृच्चासि तस्यास्ते स्रवश्च स्रवस्यश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृडताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥८॥उर्वी चासि प्रवर्वी चासि तस्यास्ते कुर्वच्च संस्कुर्वाणं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नी मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥९॥नीचीचास्युत्ताना चासि तस्यास्ते रोहच्च विरोहच्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१०॥४८रोहिणी चासि सुरोहिणी चासि तस्यास्ते चान्नं चान्नाद्यं चैति मुखे । रोहीताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥सरा चासि सरस्वती चासि तस्यास्ते ब्रह्म च क्षत्रं चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥वसुभृच्चासि वसुमती चासि तस्यास्ते सूनृता चेरा चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥महश्चासि महस्वती चासि तस्यास्ते कामश्च तृप्तिश्चैति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥सर्वा चासि सर्वं च तदिदं तस्यास्ते विश्वं च विश्वे च देवा यन्ति मुखे ।ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥( इति क्षुद्रकाण्डनाम षोडशकाण्डे अष्टमोऽनुवाको )४९यद्देवा देवहेडनं देवासश्चकृमा वयम् ।आदित्यास्तस्मान्नो यूयमृतस्य ऋतेन मुञ्चत ॥१॥ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।यज्ञं यद्यज्ञवाहस: शिक्षन्त उपारिम: ॥२॥मेदस्वता यजमानाः स्रुचाज्येन जुह्वत: ।आकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ।३॥यद्विद्वांसो यदविद्वांसो एनांसि चकृमा वयम् ।तस्मान्नो इह मुञ्चतो विश्वे देवा: सजोषसः ॥४॥यदि जाग्रद्यदि स्वपन्नेन एनस्योकरम् । |भूतं मा तस्माद् भव्यं च द्रुपदादिव मुञ्चताम् ॥५॥द्रुपदादिवः मुमुचानः स्विन्न: स्नात्वा मलादिव । पूतं पवित्रेणाज्यं विश्वान् मुञ्चन्तु मैनसः ॥६॥यद्यामं चकुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमन्नो अस्तु ॥७॥वैवस्वत: कृणवद् भेषजानि मधुभागो मधुना सं सृजाति ।मातुर्यदेन इषितं न आगन् यद्वापितापराद्धो जिहीडे ॥८॥यदीदं मातुर्यदि वा पितुर्नो भ्रातु: पुत्राच्चेतस एन आगन् ।यावन्तो अस्या: पृथिवी सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥९॥अपमित्यमप्रतीत्तं यदस्मिन् यमस्य येन बलिना चरामि ।इदं तदग्ने अनृणो भवामि जीवन्नेव प्रति ददामि सर्वम् ॥१०॥५०हहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत् ।अपमित्य धान्यं यज्जघसाग्निर्मा तस्मादनृणं कृणोतु ॥१॥अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणा: स्याम ।ये देवयाना उत पितृयाणां सर्वान् पथो अनृणा: आा क्षियेम ॥२॥यद्धस्ताभ्यां चकृमा किल्विषाण्यक्षाणामक्तमुपलप्समानाः॥उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं न: ॥३॥उग्रंपश्ये राष्ट्रभृतं किल्बिषं यदक्षवृत्तमनुदत्तं नस्तत्। ल्विषंऋणान्नो नर्ण यत्समानो यमस्य लोके अधिरज्जुरायत् ॥४॥यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवा:॥ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥५॥यददीव्यन्नहमृणं कृणोम्यदास्यन्नग्न उत संगृणामि॥वैश्वानरो अधिपा नो वसिष्ठ उदिन्नयाति सुकृतस्य लोकम् ॥६॥वैश्वानर: पावयान्न: पवित्रैर्यत् संगरमभिधावाम्याशाम् ।अनाजानन् मनसा याचमानः यत्तत्रैनो अप तत् सुवामि ॥७॥वैश्वानराय प्रति वेदयामि एतद्यदृणं संगरो देवतासु।स एतान्पाशान् विचृतं प्र वेदाम्यथ यज्ञेन सह सं भवेम ॥८॥यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम ।अग्निर्मा तस्मादेनसो गार्हपत्य: प्र मुञ्चतु ॥९॥भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या न: ।द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात् ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP