संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| १४६ ते १५० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - १४६ ते १५० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १४६ ते १५० Translation - भाषांतर १४६छिन्ध्याछिन्ध्य प्र छिन्ध्यपि क्षापय क्षापय !आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥१॥वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ।ओषन्ती समीषन्ती ब्रह्मणो वज्रः ॥२॥क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ।आ दत्से जिनतां वर्च इष्टं च पूर्तं चाशिष: ॥३॥आदाय जीतं जीताय लोके ऽमुष्मिन् प्र यच्छसि ।अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥४॥मेनि: शरव्या भवाघादघविषा भव ।अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागस: ॥५॥त्वया प्रवृक्णं ऋदितमग्निर्दहतु दुष्कृतं ।देवपीयुमराधसम् ।वृश्च प्र वृश्च छिन्धि प्र छिन्धि कृन्त प्र कृन्त पिंश प्र पिंशौषसमोषो दह प्र दह ।ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६॥१४७यत्ते शीर्षणि दौर्भाग्यं शक्तं केशेषु निहितं ललाटे ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥यत्ते ध्रुवोर्दौर्भाग्यं कर्णयोरक्ष्णोर्हि तम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥यत्ते मुखे नासिकायां दौर्भाग्यं वाच्योष्ठयोः ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥यत्ते दत्सु दौर्भाग्यं जिह्वायां चुबुके हि तम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥यत् ते मनसि संकल्पे दौर्भाग्यं प्राण आ हि तम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१५॥यत्ते हन्वोर्दौर्भाग्यं कण्ठे क्लोमसु विष्ठितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥यत्ते स्कन्धेषु ग्रीवासु दौर्भाग्यं कीकसास्वनूक्ये ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥यत्ते दोष्णो दौर्भाग्यं अंसयोरुप पक्षयोः ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८॥यत्ते बाह्वोर्दौर्भाग्यमरत्न्यो: कल्मुषीरनु ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥९॥यत्ते हस्तयोर्दौर्भाग्यं अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१०॥१४८यत्ते पृष्ठेषु दौर्भाग्यं जघने स्फिजोर्हितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥यते उरसि दौर्भाग्यं पार्श्वयो: स्तनयोर्हितम्।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥यते हृदये दौर्भाग्यं नाभ्यां वक्षणा अनु ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥यते पिह्न दौर्भाग्यं यद् वा यकनि वृक्कयोः ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥यत्ते गुदास्वन्त्रेषु दौर्भाग्यमुदरे हितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥५॥यत्ते वस्तौ दौर्भाग्यं वनिष्टौ प्लाशावाहितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥यत्ते भसदि दौर्भाग्यं यद् वायाशुषु मुष्कयोः ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥यत्ते श्रोण्योर्दौर्भाग्यमवचालूखयोर्हितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८॥यत्ते उसति दौर्भाग्यमूर्वोर्जानुनोर्हितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥९॥यते जंघयोर्दौभाग्यं स्थूरयो पार्ष्ण्योर्हितम् । पाष्ण्योअयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१०॥१४९यत्ते गुल्फयोदौर्भाग्यं पादयोरङ्गुलीरनु ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥१॥यत्ते परुषु दौर्भाग्यं मांसे अस्थिषु मज्जसु ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥२॥यत्ते किं च दौर्भाग्यमङ्गेष्वङ्गेषु प्रतिष्ठितम् ।यद् वा लोमसु विष्ठितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥३॥यते अक्षेषु दौर्भाग्यं प्राहायामधिदेवने ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥४॥यते पशुषु दौर्भाग्यं कृष्यामशनेर्हितम् ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥५॥या ते लक्ष्मीर्भ्रूणहत्याथो या ते अपुत्रता ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥६॥यत्ते ऽदृष्टं पितृषद्यमथो या ते अपत्यता ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥७॥या ते का च पापी लक्ष्मीरथो या ते अपशुता ।अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ॥८७॥कण्ठदघ्ना महिमार्त्तिमृणां देवेभ्यः किल्विषं यद् बभूव॥इमास्तदापः प्र वहन्तु रिप्रं पुनातु मा शतधारं पवित्रम् ॥९॥स्नाहि रिप्र शमलं च सर्वं कृष्णे चेले सादयित्वा पापम् ।हित्वावर्तिं निर्ऋतिं मृत्युपाशान् सूर्यज्योतिरभ्येह्यग्निम् ॥१०॥उद्यन्तो अस्मान्महत: समुद्रान् मुच्यमानो अंहसः पाप्मनश्च ।पुनर्मन: पुनरायुर्न आगन् मा दभन् पणयो यातुधाना: ॥११॥अवरिप्रमनिक्ष्ममह्यशस्तिमध्यात्मान: ।वर्च आ धीयतां मयि तेज आ धीयतां मयि ।प्राणापानौ मा मा हासिष्टं सर्वमायुरशीय ॥१२॥१५०ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि षीमतः सुरुचो वेन आवः । यज्ञास बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च वि व: ॥१॥ब्रह्मभ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् ।ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मदपहन्तु शमलं तमश्च ॥२॥प्रतीचीरायतास्थिता वितता: पश्यामहै ।समुद्रे अप्सु या हिता: सुराणामयस्मयै ॥३॥हरिः सुपर्णो दिवोमारुहोर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।अव तां जहि हरसा जातवेदोबिभ्यदुग्रोर्चिषा दिवमा रोह सूर्य ॥४॥अयोजाला असुरा मायिनोयस्मयै: पाशैरङ्किनो ये चरन्ति ।तां स्ते रन्धयामि हरसा जातवेद:सहस्रभृष्टि: सपत्नान् प्रमृणन् याहि वज्र: ॥५॥देवानामधिपा एति घर्म ऋतेन भ्राजन्नमृतं वि चष्टे ।हिरण्यवर्णो नभसो देव सूर्यघर्मो भ्राजं दिवो अन्तां पर्येषु विद्युता ॥६॥वि द्योतन्ते विद्युतो अग्निजिह्वा हिरण्यवर्णा अमृता अप्स्वन्तः समुद्रे ।रुद्रस्य क्षिपण: स्तनयित्नोर्विद्युत्तस्य वैश्वानरस्य हेति: परि णो वृणोक्तु ॥७॥विद्युता भ्राजन् ह्रदं यात्यग्निर्व्याघ्रा अप्सुषदो यत्र भीमाः ।विष्णो: क्रमै: स्तनयन्नेति रुद्रो नुदञ्छत्रून् विमृधो वाधमानोसपत्ना: प्रदिशो मे कृणोतु ॥८॥अपो वसानः समैत्यन्तरिक्षं दिवं च समिद्धो अग्निर्दिव्योस्तपोधात् ।वैश्वानर: शमय: शीतरूरे अपां सुपर्णो दिव एति पृष्ठे ॥९॥वैश्वानर: समुद्रं पर्येति शुक्रो घर्मो भ्राजन् तेजसा रोचमान: ।नुदञ्छत्रून् प्रदहन् मे सपत्नानादित्यो द्यामध्यरुक्षद् विपश्चित् ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP