संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ८१ ते ८५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ८१ ते ८५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ८१ ते ८५ Translation - भाषांतर ८१परिसृष्टं धारयन्तं यद्धितं माव पादि तत् ।गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥१॥परिपाणं पुरुषाणां रक्षसामसि चातनम् ।अरायान् सर्वान् दुर्णाम्नो यातुधानान्विषूचीनान् विनाशय ॥२॥पवोनसात्तङ्गल्वाच्छायकादुत नग्नकात् ।प्रजायै पत्ये त्वा पिङ्ग: परि पातु किमीदिन: ॥३॥द्व्यास्याच्चतुरक्षात् पञ्चपादादनङ्गुले ॥४॥वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ।य आामं मांसमदन्ति पौरुषेयं च ये क्रविः ।गर्भान् खादन्ति केशवाः ।अरायानस्या भंससो मुष्कयोरप हन्मसि ॥५॥पिङ्ग रक्ष जायमानं पुमांसं मा स्त्रियं करन् ।आण्डादो गर्भान्मा दभन् बाधस्वेत: किमीदिन: ॥६॥अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।वृक्षादिव स्रजं कृत्वा ऽप्रिये प्रति मुञ्च तत् ॥७॥पिङ्ग जहि यातुधानान् दुर्गन्धींल्लोहितास्यान् ।त्वया प्रणुत्ताः क्रव्यादो विश्वञ्चो यन्तु निर्हताः ॥८॥८२उच्छिष्टे नामरूपाण्युच्छिष्टे लोक आहित: ।उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्त: समाहितम् ॥१॥उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।आप: समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।लौक्या उच्छिष्टायत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥दृढो दृंहस्थिरो अन्यो ब्रह्म विश्वसृजो दश।नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताहिता: ॥४॥ऋक्साम यजुरुच्छिष्ट उद्गीथ: प्रस्तुतं स्तुतम् ।हिंकार उच्छिष्टेस्वर: साम्नो मेढिश्च तन्मयि ।५॥ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥राजसूयं वाजपेयमग्निष्टोमस्तदध्वर: ।अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तम: ॥७॥अग्न्याधेयमथो दीक्षा कामप्रच्छन्दसा सह ।उत्सन्ना यज्ञा: सत्त्राण्युच्छिष्टेधि समाहिता: ॥८॥अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।दक्षिणेष्टं पूर्तं चोच्छिष्टेधि समाहिता: ॥९॥एकरात्र: त्रिरात्रश्च सद्य: क्री: प्रक्रीरुक्थ्य: ।ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया: ॥१०॥८३चतूरात्र: पञ्चरात्र: षड्रात्रश्चोभय: सह ।षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्व ये यज्ञा अमृते हिता: ॥१॥प्रतीहारो निधनं विश्वजिच्चाभिजिच्च य: ।साह्नातिरात्रावुच्छिष्टे द्वादशाहोपि तन्मयि ॥२॥सूनृता संनति क्षेम: स्वधोर्जामृतं सह: ।उच्छिष्टे सर्वे प्रत्यञ्चः कामा: कामेन तृप्यन्तु ॥३॥नव भूमी समुद्राश्चोच्छिष्टेधि श्रिता दिव: ।आ सूर्यो भात्युच्छिष्टे अहोरात्रे च तन्मयि ॥४॥उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिता: बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता। .पिता जांभतुरुच्छिष्टो असो: पौत्र: पितामह: ।स क्षियति विश्वस्येशानो वृषा भूम्यामतिघन्य: ॥६॥ऋतं सत्यं तपो दीक्षा: श्रमो धर्मश्च कर्म च ।भूतं भविष्यदुच्छिष्टे वीर्यं लक्षीर्बलं बले ॥७॥समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः।संवत्सरोध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥८॥चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः।उच्छिष्टे यज्ञा होत्राश्च पशुबन्धास्तदिष्टयः ॥९॥अर्ध मासाश्च मासाश्चार्तवा ऋतुभि: सह ।उच्छिष्टे घोषिणीराप: स्तनयित्नुः श्रुतिर्मही ॥१०॥८४शर्करा: सिकता अश्मान ओषधयो वीरुधस्तृणा ।विरुअभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता: ॥१॥रातिः प्राप्तिर्व्याप्ति: समाप्तिर्मह एधतुः ।अत्याप्तिरुच्छिष्टे भूतिराहिता निहिता हिता ॥२॥यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥३॥प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या: ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥४॥देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित : ॥५॥ऋच: सामानि छन्दांसि पुराणं यजुषा सह ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥६॥अथर्वाङ्गिरसो ब्रह्म सर्प पुण्यजनाश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥७॥आनन्दाश्च प्रमादाश्चाभीमोदमुदश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रित: ॥८॥८५यन्मन्युर्जायामावहत् संकल्पस्य गृहादधि ।क आसं जन्या: के वरा: क उ ज्येष्ठवरो ऽभवत ॥१॥तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।त आसं जन्यास्ते वरा स उ ज्येष्ठवरो ऽभवत् ॥२॥दश साकमजायन्त देवा देवेभ्यः पुरा ।यो वै तान् विद्यान्नामथा स वा अद्य महद्वदेत् ॥३॥प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या।व्यानोदानौ वाङ् मनस्ते वा आकूतिमावहन् ॥४॥अजाता आसन्नृतवोथो धाता बृहस्पतिः।इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।तपो ह यज्ञे कर्मणस्तत् ते ज्येष्ठमुपासत ॥६॥कुत इन्द्र: कुत: सोम: कुतो अग्निरजायत ।कुतस्त्वष्टा समभवद्धाता समभवत् कुत: ॥७॥इन्द्रादिन्द्र: सोमात्सोमो अग्नेरग्निरजायत ।त्वष्टा ह यज्ञे त्वष्टुर्धाता धातुरजायत ॥८॥ये त आसन्दश जाता देवा देवेभ्यः पुरा: ।पुत्रेभ्यो लोकं दत्त्वा कस्मिन्ते लोक आसते ॥९॥येतो भूमि: पूर्वासीद्यामद्धातय इद्विदुः ।के तस्यां देवा आसते कस्मिन् उषाधिश्रिता: ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP