संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ७१ ते ७५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ७१ ते ७५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ७१ ते ७५ Translation - भाषांतर N/A७१अक्रव्यादा तन्वा जातवेदो या ते स्वर्गा तपसा सयोनि: ।तयोदनमभिश्राम्यैतं तया नो अग्ने महि शर्म यच्छ: ॥१॥सोमस्यांशुभिर्यत: मध्यमदित्या: पृष्ठेसीदत ।ये त ओदन देवयाने लोके विदुः पात्रं दारुमयं मनुष्या: ॥२॥तेषामेधि पात्र मात्र: स्वर्ग: पृथिवीं विद्म तव पात्रम् ।एतास्त्वौदनोप यन्त्वापो घृतश्चुत: पयसा वर्धयन्ती: ॥३॥स्तभ्नासि स्व: पृथिवीमुतद्यामुतान्तरिक्षं स्वधया पूरयासि ।यावन्तस्तण्डुलास्तत्तस्य विष्ठास्तावन्तो यज्ञास्तत्तस्य दोहा: ॥४॥तावती स्वधा घृतपृष्ठे मे अस्तूर्जं दुहां मधुपृचं व्योमन् ।यमोदनं पचामि श्रद्दधानः पात्रेपूरं घृतपृष्ठं जुषाण: ॥५॥स मे मां क्षेष्ट सदमिष्यमानो यमस्य लोके परमे व्योमन् ।ओदनः पात्रेण सह दक्षिणया ब्राह्मणेभ्यो दत्तो अमृतत्वे दधाति ॥६॥सूर्यस्य ध्राजीरनु रश्मिन् आगन्दिवस्पृष्ठान् शकुन इवारोहन् ।सं प्राणेन प्राणभृतं सृजामि सं वीर्येण पयसाशिषा च ॥७॥आस्तावं गच्छ सुकृतां यत्र लोकं ते त्वां प्राश्नन्तु दक्षिणतो निषद्य।अग्निष्टोमेन सरथं हि याह्यथोक्तमतिरात्रं च गच्छ ॥८॥द्विरात्र मात्रस्त्र्यहं व्यश्नुह्यथारोह चतूरात्रं रथमिव॥चतूरात्रेण कल्पमानो हि याह्यथ सप्तरात्रं दशरात्रं च गच्छ। ॥९॥द्वादशाहं परिभूय विश्वत एकविंशत्या विमृधो नुदस्व ।एकविंशत्या विमृधो हि याह्यथैक चत्वारिंशतोप याह्येकम् ।त्रयस्त्रिंशतामृतो भूत्वा त्रिमास्यमोदनान् वा रभस्व ॥१०॥७२इदावत्सरं च परिवत्सरं च व्रध्नस्य विष्टपि परमे व्योमन् ।नाकेन नाकमभिसंभवौदन ॥१॥साध्यानयन्तु मुखतो ममैतमादित्यारुद्रा वसव: सचेतसः ।विश्वे देवा ऋतुभि: संविदाना इमं रक्षन्तु सधमप्रमादम ॥२॥इदावत्सरं च परिवत्सरं च संवत्सरमहोरात्राणि मासाः ।सूर्यस्याग्नेश्चन्द्रमसोनुभूतिं वातस्याभूतिमन्वावभौदन ॥३॥यमीडते पितरो यं च देवा: पुरोहितं तपसा ब्रह्मणा च ।स्वधामूर्जामक्षितिमा जुहोमि वाते देवे पवमाने बृहस्पतौ ॥४॥चतुर्धैत्योदनः कल्पमान ऊर्जा देवान् स्वधा पितॄन् ।शरीरं मनुष्यानाशितं भव ब्राह्मणान् सो अस्माकमस्तु परमे व्योमन् ॥५॥अयं पन्था ओदन देवयानो अनारुद्धो मृत्युना तेन याहि ।अदब्ध स्वतो निहित: सकृद्भिर्ब्रह्मणा सृष्ट: प्रशिषायमस्य सः ॥६॥यत्र ते ग्राह्या ओदन तत् परेहि यत्राप: तद् गच्छन्त्याप: ;यत्र योनिमोदनं ब्राह्मणा विदुः सो अस्माकमस्तु परमे व्योमन् ॥७॥हुतं ते वाचि हुतमस्तु चक्षुषि हुतं विज्ञाने हुतमस्तु ते बले ।श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते हुतं कामे च हुतमस्तु ते ॥८॥यद्वाग्नेयो यदि वास्यैन्द्रो यदि मारुतो यदि वैश्वदेव: ।यस्ते अग्निर्नृम्णानामहृद्यस्तास्मिन्नेष सुहुतो अस्त्वोदन:सो अस्माकमस्तु परमे व्योमन् ॥९॥य आविवेश नृम्णा मनुष्या अग्निनामग्निः प्रथमो वयोधाः ।स्तस्मिन्नेष सुहुतो अस्त्वोदन सो अस्माकमस्तु परमे व्योमन् ॥१o॥७३या ते तनूरपचक्राम मृत्यो र्देवानां सख्यमभिजीव लोकम् ।अप्सुचरा गह्वरेष्ठा महित्त्वा तस्यामेष सुहुतो अस्त्वोदन:सो अस्माकमस्तु परमे व्योमन् ॥१॥अहेडमानाभ्ये हि नो गृह संकाशं भद्रे सुमना अघोरा ।प्रति त्वा वर्षवृद्धमेतु ।एषां न स्वधा नवगज्जनित्र्यमृतेष्वमृता हुताभूत् ! ॥२॥तान्नो गोपाय सधमप्रमादमस्माकमेतोरनुरक्ष जागृहि ।ये नो निधिमभिधामन्त्व्येतं प्रवाहं प्रौढ़ं यमराज्ये ॥३॥राजा तेषां वरुण इन्द्रियाण्यभितिष्ठतु हरसा दैव्येन ।एतं सधस्था: परिणो वा ददाम्यनुख्यता यज्ञपतिर्यदायत् ॥४॥य आखिदन्ति विखिदन्ति दत्तं विगृह्णते दक्षिणामीयमाना: ।तानिन्द्रो देवो मघवाञ्छचीपतिरग्निमेदी प्रदहन्नेतु शक्रः ।बृहस्पतिर्वरुण: सोम इन्द्रो ममैव दत्तं केवलं कृण्वन्तु ॥५॥ ७४शीर्षक्तिं शीर्षामयं कर्णशूलं तृतीयकम् ।सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥कर्णाभ्यां ते कङ्कूषेभ्यः शुक्तिबल्गं विलोहितम् ।सर्व शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥य: कृणोति प्रमोत्तमन्धं कृणोति पूरुषम् ।सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥यस्य हेतो: प्रच्यावते यक्ष्मो नासत आस्यत: ।सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥शीर्षरोगमङ्गरोगं विश्वाङ्गीनं विसल्पकम् ।सर्वं शीर्षण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥यस्य भीम: प्रतीकाश उद्वेपयति पूरुषम् ।तक्मानं शीतं रूरञ्च तं ते निर्मन्त्रयामहे ॥६॥य उरू अनुसर्पत्यथो एति गवीनिके ।बलासमन्तरङ्गेभ्य: बहिर्निर्मन्त्रयामहे ॥७॥यदि कामादपकामाद्धृदयाज्जायते परि ।हृदो बलासमङ्गेभ्य: बहिर्निर्मन्त्रयामहे ॥८॥हरिमाणं ते अङ्गेभ्यो यक्ष्मोधामन्तरात्मनः ।यक्ष्मं ते सर्वमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥९॥आसो बलासो भवतु मूत्रं भवत्यामयत् ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१०॥७५बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१॥उदरात्ते परि क्लोम्न नाभ्या हृदयादधि ।यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥२॥या: सीमानं विरुजन्ति मूर्धानं प्रत्यर्षणी: ।अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥३॥या हृदयमुपसर्पन्त्यनुतन्वन्ति कीकसाः ।अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥४॥या: पार्श्वे उपऋषन्त्यनुनिक्षन्ति पृष्ठी: ।अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥५॥यास्तिरश्चीरुपसर्पन्त्यर्षणीर्वक्षणासु ते । र्बक्षअहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥६॥या गुदा अनुसर्पन्त्यान्त्राणि याहयन्ति च ।अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥७॥यामज्ज्ञो अनुसर्पन्ति परूंषि विरुजन्ति च ।अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ॥८॥ये अङ्गानि विजयन्ति यक्ष्मासो रोपणाः सह ।यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥९॥विसल्पस्य विद्रधस्य वातीकारस्य वालजे:॥यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥१०॥पादाभ्यां ते गुल्फाभ्यां जानुभ्यां ऊरुभ्यां श्रोणिभ्यां परि भंसस: ।अनूकादर्षणीरुष्णिहाभ्यो ग्रीवाभ्यः स्कन्धेभ्यः शीर्ष्णो रोगमनीनशम् ॥११॥सन्ते शीर्ष्ण: कपालानि हृदयस्य च यो विदुः ।उद्यन् सूर्य आदित्यो ऽङ्गरोगमनीनशत् ॥१२॥(इति क्षुद्रकाण्डनाम षोडशकाण्डे द्वादशो ऽनुवाकः) N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP