संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ११६ ते १२० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ११६ ते १२० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११६ ते १२० Translation - भाषांतर ११६एते वै प्रियाश्चाप्रियाश्च ऋत्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥१॥यत् क्षत्तारं ह्वयत्या श्रावयति ॥२॥यत् प्रतिशृणोति प्रत्याश्रावयति ॥३॥यत् परिवेष्टार आवसथान् प्रपद्यन्ते चमसाध्वर्यव एव ते तेषां वै न कश्चनाहोता ॥३॥यत् प्रातरुपहरति प्रातः सवनमेव तत् ॥४॥यद्दिवोपहरति माध्यन्दिनमेव तत् सवनम् ॥५॥यत् सायमुपहरति तृतीय सवनमेव तत् ॥६॥यदतिथिपतिरतिथीन् परिविष्यासनं याचते अवभृथमेव तदुपावैति ॥७॥यत् सभागयति दक्षिणामेव तत् सभागयति यदनुतिष्ठत्युदवस्यत्वेव तत् ॥८॥११७स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत् पृथिव्यां विश्वरूपम् ।पृथिव्यां तपति पृथिव्यामाभाति स्वर्गलोक भवति य एवं वेद ॥१॥स उपहूतो अन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यदन्तरिक्षे विश्वरूपम्।अन्तरिक्षे तपत्यन्तरिक्ष आभाति स्वर्गलोक भवति य एवं वेद ॥२॥स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ।दिवि तपति दिव्याभाति स्वर्गलोक भवति य एवं वेद ॥३॥स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्देवेषु विश्वरूपम् ।देवेषु तपति देवेष्वाभाति स्वर्गलोक भवति य एवं वेद ॥४॥स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यल्लोकेषु विश्वरूपम् ।लोकेषु तपति लोकेष्वाभाति स्वर्गलोक भवति य एवं वेद ॥५॥११८यत् प्राङ्ग् आसीनो निर्वपति यज्ञाय च देवेभ्यश्चा वृश्चते ॥१॥यद्दक्षिणामासीनो निर्वपति यमाय च पितृभ्यश्चा वृश्चते ॥२॥यत् प्रत्यङ्ग् आसीनो निर्वपति वरुणायाप्सुषदे चा वृश्चते ॥३ ॥`यदुदङ्ग् आसीनो निर्वपति सोमाय च राज्ञे सप्तऋषिभ्यश्चा वृश्चते ॥४॥यदुपस्थं कृत्वासीनो निर्वपति भूमये चाग्नये चा वृश्चते ॥५॥यदूर्ध्वकृरासीनी निर्वपति वायवे चान्तरिक्षाया चा वृश्चते ॥६॥यदूर्ध्वस्तिष्ठन् निर्वपति दिवे चादित्याय चा वृश्चते ॥७॥११९यं कामयेत पापीयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन स्यादिति ।तस्यैवं निर्वपेत्तस्यैवं निरुप्यैवमेवानु निर्वपेत् ।तवैव स पापीयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन भवतीदमिदं कुर्यात् सा प्रायश्चित्ति: ॥१॥यं कामयेत वसीयान् छ्रेयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन स्यादिति ।तस्यैवं निर्वपेत्तस्यैवं निरुप्यैवमेवानु निर्वपेत् ।तवैव न वसीयान् छ्रेयानात्मना प्रजया पशुभिर्गृहैर्ध्वनेन भवतीदमिदं कुर्यात् सा प्रायश्चित्तिः ॥२॥१२०यदवहन्यमानस्य तण्डुलस्कन्दति समासमानस्य वरः प्रमायुषो भवति ॥१॥यदिष्ट्वा भवति पितृदेवत्यं करोति ॥२॥यद् विष्यन्दते गृहाणाञ्च पशूनाञ्च पयो विष्यन्दते ॥३॥यदुपसिञ्चति गृहाणाञ्च पशूनाञ्च पयोपसिञ्चति ॥४॥यदायवनीय शीर्यते गृहपतिर्मियते ॥५॥यद् दर्वी: शीर्यते गृहपत्नी म्रियते ॥६॥यत् कुम्भी विकसति सर्वज्यानिदाता च प्रतिगृहीता च जीयते ॥७॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP