संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| १२६ ते १३० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - १२६ ते १३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १२६ ते १३० Translation - भाषांतर १२६यत् प्राशिष्यन् पुरस्तादभिमृशति ।प्राङ् प्रतिग्रहीतुः प्राण: प्र क्रामति ततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रजद्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥१॥यत् प्राशिष्यन् दक्षिणत: प्रमृशति ।दक्षिणा प्रतिग्रहीतुः प्राण: प्र क्रामतिततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रजद्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥२॥यत् प्राशिष्यन् उत्तरत: प्रमृशति ।उदङ् प्रतिग्रहीतुः प्राणः प्र क्रामतिततो एवोत्थाय प्र व्रजति शिरस्तस्य रुदतीति ब्रजद्वादशीर्नाति जीवत्येनं चैनं प्राश्नन्तमुपद्रष्टा गृह्णामि ॥३॥यत् प्राशिष्यन् पश्चात् प्राञ्चमभिमृशति ।शर्मणा चैवैनं तद्वर्मणा चाभिमृशति शर्म चैवास्मै वर्म च भवति जयत्योदनमोदनलोको भवति य एवं वेद ॥४॥१२७इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि जिष्णवे योगायविश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥१॥इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।जिष्णवे योगाय क्षत्रयोगैर्वा युनज्मि जिष्णवे योगायविश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥२॥इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥३॥इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेन्द्रस्य शुक्लं स्थेन्द्रस्य वीर्य स्थ ।जिष्णवे योगायान्नयोगैर्वो युनज्मि जिष्णवे योगाय विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता माप: स्थ ॥४॥इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य नृम्ण स्थेद्रस्य शुक्लं स्थेन्द्रस्य वीर्यं स्थ ।विश्वानि मा रूपाण्युप तिष्ठन्तु युक्ता मापः स्थ ॥५॥१२८अग्नेर्भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥१॥इन्द्रस्य भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥२॥सोमस्य भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥३॥वरुणस्य भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥४॥यमस्य भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥५॥पितॄणां भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥६॥बृहस्पतेर्भाग स्थ ।अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥७॥देवस्य सवितुर्भाग स्थ । अपां शुक्रं देवीरापो वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्ना ऽस्मै लोकाय सादये ॥८॥१२९यो व आपोपां भागो अप्स्वन्तर्यजुष्यो देवयजन: ।इदं तमति सृजामि तं माभ्यविनिक्षि ।तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥१॥यो व आपोपामूर्मिरप्स्वन्तर्यजुष्यो देवयजन: ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥२॥यो व आपोपां वेगो अप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥३॥यो व आपोपां बिन्दुरप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि । विन्दुतेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥४॥यो व आपोपां गर्भो अप्स्वन्तर्यजुष्यो देवयजन:इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥५॥यो व आपोपां वत्सो अप्स्वन्तर्यजुष्यो देवयजनःइदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥६॥यो व आपोपां वृषभो अप्स्वन्तर्यजुष्यो देवयजन:इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥७॥यो व आपो अश्मा पृश्निर्दिव्योप्स्वन्तर्यजुष्यो देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं त स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥८॥यो व आपोपां हिरण्यगर्भो अप्स्वन्तर्यजुष्या देवयजन:इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।त वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥९॥यो व आपोपामग्नयो अप्स्वन्तर्यजुष्या देवयजन: इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्म: ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥१०॥१३०यदर्वाचीनमेकहायनादनृतं किं चोदिम ।आपो मा तस्मादेनसो दुरितात्पान्तु विश्वत: ॥१॥अरिप्रा आपो अपरिप्रमस्मत् ।प्रास्मोदेनो दुरितं सुप्रतीका: प्र दु:ष्वप्न्यं प्र मलं वहन्तु ॥२॥बहसमुद्रं वो प्र सृजामि स्वां योनिमपीतन ।अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥३॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP