संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ३१ ते ३५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ३१ ते ३५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३१ ते ३५ Translation - भाषांतर ३१दिशश्चतस्रोश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्भिः ॥१॥द्यावापृथिवी पक्षसी ऋतवोभीशवो वाक्परिरथ्यम् ॥२॥अहोरात्रे चक्रे मासराः संवत्सरो अधिष्ठानम् ॥३॥विराडीषाग्नीरथमुखमिन्द्र: सव्यष्ठाश्चन्द्रमा: सारथिः ॥४॥इतो जयेतो वि जय स्व जय सं जय स्वाहा ॥५॥३२दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान्मधुकशा हि यज्ञे ।तां चायित्वामृतं वसानां हृद्धि: प्रजा: प्रति नन्दन्ति सर्वा: ॥१॥पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।अग्नेर्वातान्मधुकशा हि यज्ञे मरुतामुग्रा नप्ति: ॥२॥महद्विश्वरूपं पयो अस्या: समुद्रस्योत त्वा रेत आहु: ।यत ऐति मधुकशा रराणा तत् प्राणस्तदमृतं निविष्टम् ॥३॥मातादित्यानां दुहिता वसूनां प्राण: प्रजानाममृतस्य नाभि: ।हिरण्यवर्णा मधुकशा घृताची महद् भर्गश्चरति मर्त्येषु ॥४॥मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूप: ।तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवनाभि वस्ते ॥५॥कस्तौ प्र वेद क उ तौ न आह यावस्या: स्तनौ सहस्रधारावक्षितौ ।ऊर्ज दुहाते अनपस्फुरन्तौ ॥६॥कस्तं प्र वेद क उ तं चिकेत यो अस्या हृद: कलश: सोमधानो अक्षितः।ब्रह्मा सुमेधा: सो अस्मिन् मदेत ॥७॥हिङ् करिक्रती बृहती वयोधा उच्चैघौषाभि याति या व्रता: ।त्रीन् घर्मानभि वावशाना मिमाति मायुं पयते पयोभि: ॥८॥यामापीनामुपसीदन्त्यापो यां शाक्वरा वृषभा यां स्वराजः ।ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमाप: ॥९॥स्तनयित्नुस्ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।अग्नेर्वातान्मधुकशा हि यज्ञे मरुतामुग्रा नप्ति: ॥१०॥३३यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१॥यथा सोमो द्वितीयसवन इन्द्राग्न्योर्भवति प्रियः ।एवा म इन्द्राग्नि वर्च आत्मनि ध्रियताम् ॥२॥यथा सोमस्तृतीयसवन ऋभूणां भवति प्रिय: ।एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥३॥मधु जनिषीय मधु वंशिषीय ।पयस्वानग्न आगमं तं मा सं सृज वर्चसा ॥४॥सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सहऋषिभिः ॥५॥यद् गिरिषु पर्वतेषु गोष्वश्वेषु यन्मधु ।सुरायां सिच्यमानायां यत्तत्र मधु तन्मयि ॥६॥यथामधु मधुकृतः सं भरन्ति मधावधि ।एवा मे अश्विना बलमोजश्च ध्रियताम् ॥७॥यथा मक्षा इदं मधु न्यञ्जन्त्यक्षणावधि ।एवा मे अश्विना वर्चस्तेजोश्च ध्रियताम् ॥८॥अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।यथा वर्चस्वतीं वाचमावदानि जनाङ् अनु ॥९॥वृषा शुष्मं क्षिपसि भूम्यां दिवो मधो कशया पृथिवीमनक्षि।तां जातां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥१०॥३४पृथिवी दण्डोन्तरिक्षं गर्भो द्यौ कशा विद्युत् प्रकाश: ॥१॥मधो: कशासि घृताची हिरण्ययो विदुः ॥२॥उर्व्यसि प्रभ्व ऽस्यम्भोऽसि नभो ऽसि सहो ऽसि ॥३॥अम्भो मां कृणु नभो मां कृणु सहो मां कृणु ॥४॥समुद्रोस्यक्षितो अपरिमिता सहस्रमणि: सहस्रं मामृच्छतु ॥५॥यो वै मधुकशाया: सप्त मधूनि वेद सप्त मधुमतीन् ॥६॥मधुमन्तं लोकं जय ऽसि मध्वस्याहार्यं भवति ॥७॥.यद्वीध्रे स्तनयति तत् प्रजापतिरेव प्रजाभ्य: प्रादुर्भवति ॥८॥तस्मात् प्राचीनोपवीतस्तिष्ठे प्रजापते ऽनु मा बुध्यस्वेति ॥९॥अन्वेनं प्रजापतिरनुप्रजा बुध्यन्ते य एवं वेद ॥१०॥(इति क्षुद्रकाण्डनाम षोडशकाण्डे षष्ठो ऽनुवाको)३५यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सव:। बहतौसारादेत्त्वप नुदाम एनान् ॥१॥संभूतां विश्वरूपाम् ।प्रत्यक् प्रतिप्रहिण्मसि यश्चकार तमृच्छतु ॥२॥शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।जाया पत्या नुत्तेव कर्तारं बन्धुमृच्छतु ॥३॥वन्धुअनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्याँ गोभ्यो यां वा ते पुरुषेभ्य: ॥४॥कृत्या: सन्तु कृत्याकृते शपथाः शपथीव्ने । थीब्नेप्रत्यक् प्रति प्रहिण्मसि यश्चकार तमृच्छतु ॥५॥प्रतीचीन आङ्गिरसो ऽध्यक्षो नः पुरोहित: । ङ्गीप्रातीची: कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।तं कृत्ये अभिनिवर्तस्व मास्मानिच्छो अनागसः ॥७॥यस्ते परूंषि संदधौ रथस्येव ऋभुर्धिया ।तं गच्छ तत्र तेयनमज्ञातस्तेयं जन: ॥८॥ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।तेन त्वा स्नपयामसि ॥९॥यद्युर्भगां प्रस्नपितां मृतवत्सामुपेयिम॥अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP