संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ६१ ते ६५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ६१ ते ६५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६१ ते ६५ Translation - भाषांतर ६१केन देवाङ् अनु क्षियति केन दैवरजनयद्विश: ।केनेदमन्यन्नक्षत्रं केन सत् क्षत्रमुच्यते ॥१॥केन पर्जन्यमाप्नोति केन सोमं विचक्षणम् ।केनेममग्निं पुरुष: केन संवत्सरं ममे ॥२॥केनेयं भूमिर्निहिता केन द्यौरुत्तरा हिता । रुतकेनेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥३॥ब्रह्मणा भूमिर्निहिता ब्रह्म द्यामुत्तरां दधौ ।ब्रह्मेदमूर्ध्वं तिर्यक् चान्तरिक्षं व्यचो हितम् ॥४॥तीर्यक्केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।केन यज्ञश्च श्रद्धा च केनास्मिन्निहितं मन: ॥५॥ब्रह्म श्रोत्रियमाप्नोति ब्रहेमं परमेष्ठिनम् ।ब्रह्म यज्ञश्च श्रद्धा च ब्रह्मास्मिन्निहितं मन: ॥६॥क इदमस्थ्यसृजत क इदं मांसं समभरत् ।क इमां त्वचं च लोमं च को इदं रूपं समैरयत् ॥७॥क इदं ब्रह्मास्थ्यसृजत ब्रह्म मांसं समभरत् ।ब्रह्म त्वचं च लोमं च ब्रह्मरूपं समैरयत् ॥८॥क इदं चक्षुरसृजत क: प्राणं केष्वामयत् ।क इदं मनश्च वाचञ्च क इमां समभरत्पुरम् ॥९॥ब्रह्म चक्षुरसृजत ब्रह्म के प्राणमावयत् ।ब्रह्म मनश्च वाचञ्च ब्रह्म समभरत् पुरम् ॥१०॥६२नैनं चक्षुर्जहाति न प्राणो जरस: पुरा ।पुरं यो ब्रह्मणो वेद यस्मात् पुरुष उच्यते ॥१॥यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।तस्मै ब्रह्म च ब्राह्म्यश्चायुष्प्राणं प्रजां ददुः ॥२॥अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।तस्यां हिरण्यय: कोश: स्वर्गो ज्योतिषावृत: ॥३॥तस्मिन् हिरण्यये कोशे त्र्योरे त्रिप्रतिष्ठिते ।तस्मिन् यदन्तरात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४॥प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥५॥६३अयं ते वरणो मणि: सपत्नक्षयण: कृत: ।तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यत: ॥१॥प्रैणाञ्छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात् ।अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वर्यत् ॥२॥आ त्वारक्षद्वरणो विश्वभेषज: सहस्राक्षो हरितो हिरण्यय: ।यस्ते शत्रून्नधरान्पादयासि पूर्वस्तान् दभ्नुहि य उ त्वा द्विषन्ति ॥३॥अयं ते कृत्यां विततां पौरुषेयमयं वधम् ।अयं ते सर्वं पाप्मानं वरणो वारयिष्यते ॥४॥वरणो वारयाता इत् अयं देवो वनस्पतिः।यक्ष्म: प्रविष्टो यो ऽस्मिन्तमु देवा अवीवरन् ॥५॥स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्।परिक्षवाच्छकुने: पापवादादयं मणिर्वरणो वारयातै ॥६॥अरात्या मा निर्ऋत्या अभिचारादथो भयात् ।मृत्योरोजीयसो वधात् त्वं वरणो वारय ॥७॥वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धव: ।असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥८॥यन्मे माता यन्मे पिता भ्रातरो यच्च ते स्वा यदेनश्चकृमा वयम्।तस्मान्नो वारयिष्यते अयं देवो वनस्पति: ॥९॥अरिष्टोहमरिष्टगुरायुष्मान् सर्वपूरुषः ।तस्मान्मायं वरणो मणि: परि पातु दिशोदिशः ॥१०॥६४अयं मे वरण उरसि राजा देवो वनस्पति: ।स मे क्षत्रं च राष्ट्रं च पशूनोजश्च ते दधत् ॥१॥इमं बिभर्मि वरणमायुष्माञ्छतशारद: ।स मे शत्रून् वि बाधतामिन्द्रो दस्यूनिवासुरान् ॥२॥यथा वातो वनस्पतीन् जीर्णान्भनक्त्योजसा ।एवा सपत्नांस्त्वं भङ्ग्धि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥३॥यथा वातेन प्रक्षीणा वृक्षा: शेरे न्यर्पिता: ।एवा सपत्नांस्त्वं सर्वान् प्र क्षिणीहि न्यर्पय पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥४॥यथा वातश्चाग्निश्च सर्वान् प्सातो वनस्पतीन् !एवा सपत्नास्त्वं प्साहि पूर्वान् जातानुतापरान् वरणस्त्वाभि रक्षतु ॥५॥तास्त्वं प्र छिन्द्धि वरण पुरा दिष्टात् पुरायुष: ।य इमं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥६॥यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।एवा सपत्नांस्त्वं सर्वान् अति भाति श्व:श्वो वरणस्त्वाभि रक्षतु ॥७॥यथा यश: पृथिव्यां यथास्मिन् जातवेदसि ।एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥८॥यथा यशो अग्निहोत्रे वषटकारे यथा यशः ।एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतुतेजसा मा समुक्षतु यशसा समनक्तु मा ॥९॥यथा यश: सोमपीथे मधुपर्के यथा यश: ।एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतुतेजसा मा समुक्षतु यशसा समनक्तु मा ॥१o॥६५यथा यश: कन्यायां यथास्मिन् संभृते रथे ।एवा मे वरणो मणि: कीर्तिं भूतिं नि यच्छतुतेजसा मा समुक्षतु यशसा समनक्तु मा ॥१॥यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।एवा मे वरणो मणिः कीर्त्तिं भूतिं नि यच्छतुतेजसा मा समुक्षतु यशसा समनक्तु मा ॥२॥यथा यश: प्रजापतौ यथास्मिन् परमेष्ठिनि ।एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥३॥यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।एवा मे वरणो मणि: कीर्त्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा ॥४॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP